पादुकासहस्रम् इन्द्रनीलपद्धतिः

पादुकासहस्रम्

इन्द्रनीलपद्धतिः

हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा । अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम्।। 20.1
हरिरत्नमरीचयस्तवैते नवनीलीरसनिर्विशेषवर्णाः । श्रुतिमूर्धनि शौरिपादरक्षे ! पलितानुद्भवभेषजं भवन्ति।। 20.2
अळकैरिव बिम्बितैः श्रुतीनां हरिनीलैः सृजसि त्वमुन्मयूखैः । कमलादयितस्य पादरक्षे ! करुणोदन्वति शैवलप्ररोहान्।। 20.3
अनघैर्हरिनीलपद्धतीनां प्रथमानैर्मणिपादुके ! मयूखैः । अधरीकुरुषे रथाङ्गपाणेः अमितामूर्ध्वमवस्थितस्य कान्तिम्।। 20.4
चरणावनि ! भाति सह्यकन्या हरिनीलद्युतिभिस्तवानुविद्धा । वसुदेवसुतस्य रङ्गवृत्तेः यमुनेव स्वयमागता समीपम्।। 20.5
अवधीरितदेवतान्तराणाम् अनघैस्त्वं मणिपादुके ! मयूखैः । हरिनीलसमुद्भवैर्विधत्से हरिसारूप्यमयत्नतो जनानाम्।। 20.6
नेत्रेषु पुं सां तव पादरक्षे ! नीलाश्मभासा निहिताञ्जनेषु । श्रिया समं सं श्रितरङ्गकोशो निधिः स्वयं व्यक्तिमुपैति नित्यम्।। 20.7
अभङ्गुरामच्युतपादरक्षे ! मान्यां महानीलरुचिं त्वदीयाम् । निः श्रेयसद्वारकवाटिकायाः शङ्के समुत्पाटनकुञ्चिकां नः।। 20.8
जीवयत्यमृतवर्षिणी प्रजास्तावकी दनुजवैरिपादुके ! । घोरसं सरणघर्मनाशिनी काळिकेव हरिनीलपद्धतिः।। 20.9
शतमखोपलभङ्गमनोहरा विहरसे मुरमर्दनपादुके ! । मणिकिरीटगणेषु दिवौकसां मधुकरीव मनोरमपङ्क्तिषु।। 20.10
अन्विच्छतां किमपि तत्त्वमनन्यदृश्यं सम्यक्प्रकाशजननी धृतकृष्णरूपा । पादावनि ! स्फुरसि वासवरत्नरम्या मध्ये समाधिनयनस्य कनीनिकेव।। 20.11
मातः ! सलीलमधिगम्य विहारवेलां कान्तिं समुद्वहसि काञ्चनपादुके ! त्वम् । लक्ष्मीकटाक्षरुचिरैर्हरिनीलरत्नैः लावण्यसिन्धुपृषतैरिव रङ्गधाम्नः।। 20.12
कॢप्तावकुण्ठनविधिर्मणिपादरक्षे ! नीलां शुकैर्वलभिदश्मसमुद्भवैस्ते । सङ्गच्छते मुनिजनस्य मतिः समाधौ रात्रौ समस्तजगतां रमणेन लक्ष्म्याः।। 20.13
द्रष्टुं कदाचन पदावनि ! नैव जन्तुः शक्नोति शश्वतनिधिं निहितं गुहायाम् । कृष्णानुरूपहरिनीलविशेषदृश्या सिद्धाञ्जनं त्वमसि यस्य न देवि ! दृष्टेः।। 20.14
प्रत्येमि रङ्गनृपतेर्मणिपादुके ! त्वां कृष्णान्तरङ्गरुचिभिर्हरिनीलरत्नैः । विश्वापराधसहनाय पदं तदीयं विश्वम्भरां भगवतीं समये भजन्तीम्।। 20.15
मत्वा मषीं परिमितां भवती तदन्यां वैकुण्ठपादरसिके मणिपादुके ! स्वान् । अङ्क्ते स्वयं किरणलेपिभिरिन्द्रनीलैः आशातटेषु लळितानपदानवर्णान्।। 20.16
वलमथनमणीनां धामभिस्तावकानां मधुरिपुपदरक्षे ! वासरैरव्यपेता । अभिसरणपराणां वल्लवीनां तदाऽऽसीत् शमितगुरुभयार्तिः शर्वरी काचिदन्या।। 20.17
शतमखमणिभङ्गैरुन्मयूखैर्दिशन्ती शरणमुपगतानां रङ्गनाथेन साम्यम् । प्रथयसि जगति त्वं पादुके ! हैतुकानाम् उपनिषदुपगीतां तत्क्रतुन्यायवार्ताम्।। 20.18
परिचरति विधौ त्वां पादुके ! रङ्गभर्तुः पदसरसिजभृङ्गैर्भासुरैरिन्द्रनीलैः । प्रकटितयमुनौघा भक्तिनम्रस्य शम्भोः परिणमयसि चूडाविष्णुपद्याः प्रयागम्।। 20.19
पदकिसलयसङ्गात् पादुके ! पत्रळश्रीः नखमणिभिरुदारैर्नित्यनिष्पन्नपुष्पा । शतमखमणिनीला शौरिलावण्यसिन्धोः निबिडतमतमाला काऽपि वेलावनी त्वम्।। 20.20
त्वयि विनिहितमेतत् केऽपि पश्यन्ति मन्दाः शतमखमणिजालं शार्ङ्गिणः पादरक्षे ! । वयमिदमिह विद्मः प्राणिनां भावुकानां हृदयगृहगुहाभ्यः पीतमन्धं तमिस्रम्।। 20.21
कॢप्तश्यामा मणिभिरसितैः कृष्णपक्षेण जुष्ट् आ श्रेयः पुं सां जनयसि गतिं दक्षिणामुद्वहन्ती । तेनास्माकं प्रथयसि परं पादुके ! तत्त्वविद्भिः मौळौ दृष्टां निगमवचसां मुक्तिकालाव्यवस्थाम्।। 20.22
सद्भिर्जुष्ट् आ समुदितविधुर्जैत्रयात्राविनोदे- ष्वातन्वाना रजनिमनघामिन्द्रनीलां शुजालैः । चित्रं ख्याता कुमुदवनतः पादुके ! पुष्यसि त्वं व्याकोचत्वं विबुधवनितावक्त्रपङ्केरुहाणाम्।। 20.23
नित्यं लक्ष्मीनयनरुचिरैः शोभिता शक्रनीलैः सालग्रामक्षितिरिव शुभैः शार्ङ्गिणो रूपभेदैः । साकेतादेः समधिकगुणां सं पदं दर्शयन्ती मुक्तिक्षेत्रं मुनिभिरखिलैः गीयसे पादुके ! त्वम्।। 20.24
पादन्यासप्रियसहचरीं पादुके ! वासगेहात् त्वामारुह्य त्रिचतुरपदं निर्गते रङ्गनाथे । अन्तः स्निग्धैरसुरमहिळावेणिविक्षेपमित्रैः श्यामच्छायं भवति भवनं शक्रनीलां शुभिस्ते।। 20.25
या ते बाह्याङ्गणमभियतः पादुके ! रङ्गभर्तुः सञ्चारेषु स्फुरति विततिः शक्रनीलप्रभायाः । विष्वक्सेनप्रभृतिभिरसौ गृह्यते वेत्रहस्तैः भ्रूविक्षेपस्तव दिविषदां नूनमाह्वानहेतुः।। 20.26
अक्ष्णोरञ्जनकल्पना यवनिका लास्यप्रसूतेर्गतेः चिद्गङ्गायमुना मुकुन्दजलधेर्वेलातमालाटवी । कान्ताकुन्तळसन्ततिः श्रुतिवधूकस्तूरिकालङ्क्रिया नित्यं रत्नपदावनि ! स्फुरति ते नीला मणिश्रेणिका।। 20.27
निरन्तरपुरन्दरोपलभुवं द्युतिं तावकीम् अवैमि मणिपादुके ! सरणिसङ्गिनीं रङ्गिणः । तदीयनवयौवनद्विरदमल्लगण्डस्थली गळन्मदझलञ्झलाबहुळकज्जळश्यामिकाम्।। 20.28
प्रतीमस्त्वां पादावनि ! भगवतो रङ्गवसतेः घनीभूतामित्थं पदकमलमाध्वीपरिणतिम् । स्फुरन्तः पर्यन्ते मदगरिमनिस्पन्दमधुप- प्रसक्तिं यत्रैते विदधति महानीलमणयः।। 20.29
नमतां निजेन्द्रनीलप्रभवेन मुकुन्दपादुके ! भवती । तमसा निरस्यति तमः कण्टकमिव कण्टकेनैव।। 20.30

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.