पादुकासहस्रम् पद्मरागपद्धतिः

पादुकासहस्रम्

पद्मरागपद्धतिः

प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् । पदैकनियतां तस्य पद्मवासामिवापराम्।। 17.1
अतिवाङ्मनसं विचिन्त्य शौरेः पदरक्षे ! पदपद्मसौकुमार्यम् । परिपुष्यसि पद्मरागभासा पदवीमाहितपल्लवामिव त्वम्।। 17.2
पदपल्लवसङ्गिभिः प्रदीप्तैः अधिकोल्लासिभिरम्ब ! पद्मरागैः । अनले शयनं क्वचिन्मुरारेः अविसं वादयसीव पादुके ! त्वम्।। 17.3
विवृणोति रङ्गपतिरत्नपादुके ! त्वयि पद्मरागमणिपद्धतिः शुभा । निबिडोरुसङ्घटनपीडनक्षरन् मधुकैटभक्षतजपङ्कवासनाम्।। 17.4
प्रतियन्ति रङ्गपतिपादुके ! जनाः तव पद्मरागमणिरश्मिसन्ततिम् । अभिजग्मुषां त्वदनुभावखण्डिताद्- अघसञ्चयाद्विगळितामसृक्छटाम्।। 17.5
पश्यन्ति रङ्गेश्वरपादुके ! त्वां पौराङ्गनाः स्पर्शितरागबन्धाम् । शृङ्गारयोनेर्ज्वलनस्य दीप्तैः अङ्गारजालैरिव पद्मरागैः।। 17.6
अवैमि दोषापगमस्य हेतुं तमोपहां सम्भृतपद्मरागाम् । अशेषवन्द्यां मणिपादुके ! त्वां रङ्गेशसूर्योदयपूर्वसन्ध्याम्।। 17.7
अवाप्य पादावनि ! रङ्गभर्तुः पादाम्बुजे पल्लवसं स्तराभाम् । त्वत्पद्मरागद्युतयो भजन्ते कालानलत्वं कलुषाम्बुधेर्नः।। 17.8
निसर्गसिद्धं मणिपादरक्षे ! देवस्य रङ्गावसथप्रियस्य । बालार्कवर्णाः पदपद्मरागं त्वत्पद्मरागाः पुनरुक्तयन्ति।। 17.9
पदेन विश्वं मणिपादरक्षे ! पत्न्या समं पालयतो मुरारेः । यशः पयोधौ परिकल्पयन्ति प्रवाळशोभां तव पद्मरागाः।। 17.10
अर्चिष्मती काञ्चनपादरक्षे ! प्रस्तौति ते पाटलरत्नपङ्क्तिः । रेखारथाङ्गस्य महः प्रपञ्चम् रङ्गेशपादाम्बुजमध्यभाजः।। 17.11
त्वयैव पादावनि ! शोणरत्नैः बालातपं नूनमुदीरयन्त्या । पद्मापतेः पादतलप्ररूढं रेखाम्बुजं नित्यमभूदनिद्रम्।। 17.12
नित्यं निजालोकपथं गतानां श्रेयो दिशन्तीं श्रितपद्मरागाम् । महीयसीं माधवपादरक्षे ! मन्यामहे मङ्गळदेवतां त्वाम्।। 17.13
देवस्य रङ्गरसिकस्य विहारहेतोः आत्मानमङ्घ्रिकमले विनिवेद्य पूर्वम् । प्रायो निवेदयसि शोणमणिप्रकाशैः प्रत्यूषपद्मकलिकां पदरक्षिणि ! त्वम्।। 17.14
प्रत्यङ्मयस्य हविषः प्रणवेन देवि ! प्रक्षेपणाय परमार्थविदां मुनीनाम् । प्राज्यां मुकुन्दचरणावनि ! पद्मरागैः पर्यायपावकशिखां भवतीं प्रतीमः।। 17.15
सं पद्यते तव पदावनि ! पद्मरागैः प्रस्थानमाङ्गळिकहोमहुताशनश्रीः । क्षीराहुतिर्भवति यत्र विकल्पगङ्गा रङ्गेश्वरस्य रुचिरा नखरश्मिधारा।। 17.16
आमुञ्चतामरुणयावकपङ्कलक्ष्मीं शोणाश्मनां तव पदावनि ! कान्तियोगात् । पद्मासहायपदपद्मनखाः श्रयन्ते सन्ध्यानुरञ्जितसुधाकरबिम्बशोभाम्।। 17.17
स्थाने तवाच्युतपदावनि ! पद्मरागाः तेजोमयाः प्रशमयन्ति तमो मदीयम् । चित्रं तदेतदिह यज्जनयन्ति नित्यं रागात्मकेन महसा रजसो निवृत्तिम्।। 17.18
पद्माकरान्तरविकासिनि रङ्गभर्तुः पीत्वा पदावनि ! मधूनि पदारविन्दे । शोणोपलद्युतिमयीं सुभगप्रचारां मन्ये बिभर्षि महतीं मदरागशोभाम्।। 17.19
पादावनि ! प्रसृमरस्य कलेर्युगस्य प्रायेण सम्प्रति निवारयितुं प्रवेशम् । श्रीरङ्गसीम्नि तव शोणमणिप्रसूतः प्राकारमग्निमयमारभते प्रकाशः।। 17.20
लीलागृहान्तरविहारिणि रङ्गनाथे लाक्षारसैररुणरत्नमयूखलक्ष्यैः । प्रायेण रञ्जयति पादसरोजयुग्मं सैरन्ध्रिकेव भवती मणिपादरक्षे !।। 17.21
रङ्गेशितुर्विहरतो मणिपादरक्षे ! रथ्यान्तरे सुमनसः परिकीर्यमाणाः । त्वत्पद्मरागकिरणच्छुरणाद्भजन्ते सन्ध्यातपान्तरिततारकपङ्क्तिलक्ष्मीम्।। 17.22
रङ्गाधिराजपदरक्षिणि ! बिभ्रतस्त्वां गङ्गातरङ्गविमले गिरिशस्य मौळौ । सं वर्धयन्ति महसा तव पद्मरागाः शैलात्मजाचरणयावकपङ्कलक्ष्मीम्।। 17.23
शरणमुपगतानां शर्वरीं मोहरूपां शमयितुमुदयस्थान्मन्महे बालसूर्यान् । पदसरसिजयोगाद्रङ्गनाथस्य भूयः परिणमदरुणिम्नः पादुके ! पद्मरागान्।। 17.24
हरिपदरुचिराणां पादुके ! तावकानाम् अरुणमणिगणानां नूनमर्धेन्दुमौळिः । प्रणतिसमयलग्नां वासनामेव धत्ते कळमकणिशकान्तिस्पर्धिनीभिर्जटाभिः।। 17.25
प्रतिविहरणमेते पादुके ! रङ्गभर्तुः पदकमलसगन्धाः पद्मरागास्त्वदीयाः । तरुणतपनमैत्रीमुद्वहद्भिर्मयूखैः स्थलकमलविभूतिं स्थापयन्त्यव्यवस्थाम्।। 17.26
अयमनितरभोगान् रञ्जयन् वीतरागान् अरुणमणिगणानां तावकानां प्रकाशः । मधुरिपुपदरक्षे ! मङ्क्षु जाज्वल्यमानः शलभयति जनानां शाश्वतं पापराशिम्।। 17.27
प्रचुरनिगमगन्धाः पादुके ! रङ्गभर्तुः पदकमलसमृद्धिं प्रत्यहं भावयन्तः । दधति शकलयन्तो गाढमन्तस्तमिस्रं समुचितमरुणत्वं तावकाः पद्मरागाः।। 17.28
लाक्षालक्ष्मीमधररुचके रङ्गिणः पादरक्षे ! वक्त्राम्भोजे मदपरिणतिं पद्मरागद्युतिस्ते । कर्णोपान्ते किसलयरुचिं देवि ! सेवानतानां सीमन्ते च त्रिदशसुदृशां सौति सिन्दूरशोभाम्।। 17.29
अरुणमणयस्तवैते हरिपदरागेण लब्धमहिमानः । गमयन्ति चरणरक्षे ! द्युमणिगणं ज्योतिरिङ्खणताम्।। 17.30

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.