पादुकासहस्रम् रत्नसामान्यपद्धतिः

पादुकासहस्रम्

रत्नसामान्यपद्धतिः

उदर्चिषस्ते रङ्गेन्द्रपादावनि ! बहिर्मणीन् । अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन्।। 15.1
विधेहि शौरेर्मणिपादुके ! त्वं विपद्यमाने मयि रश्मिजालैः । आसीदतामन्तककिङ्कराणां वित्रासनान् वेत्रलताविशेषान्।। 15.2
मुकुन्दपादावनि ! मध्यनाड्या मूर्धन्यया निष्पततो मुमुक्षोः । आब्रह्मलोकादवलम्बनार्थं रत्नानि ते रश्मिगणं सृजन्ति।। 15.3
असूर्यभेद्यां रजनीं प्रजानाम् आलोकमात्रेण निवारयन्ती । अमोघवृत्तिर्मणिपादरक्षे ! मुरद्विषो मूर्तिमती दया त्वम्।। 15.4
रङ्गेशपादावनि ! तावकानां रत्नोपलानां द्युतयः स्फुरन्ति । श्रेयः फलानां श्रुतिवल्लरीणाम् उपघ्नशाखा इव निर्व्यपायाः।। 15.5
कस्यापि पुं सः कनकापगायाः पुण्ये सलीलं पुळिने शयाळोः । समीपवृत्तिर्मणिपादुके ! त्वं सं वाहयन्तीव पदं करैः स्वैः।। 15.6
दिदृक्षमाणस्य परं निधानं स्नेहान्विते योगदशाविशेषे । सं वित्प्रदीपं मणिपादरक्षे ! सन्धुक्षयन्तीव मरीचयस्ते।। 15.7
समाधिभाजां तनुते त्वदीया रङ्गेशपादावनि ! रत्नपङ्क्तिः । स्थानं प्रयातुं तमसः परं तत् प्रदीपकृत्यं प्रभया महत्या।। 15.8
बध्नासि रङ्गेश्वरपादरक्षे ! मन्ये यथार्हं मणिरश्मिजालैः । सेवानतानां त्रिदशेश्वराणां शेषापट् ईं शेखरसन्निकृष्टाम्।। 15.9
भजन्ति रङ्गेश्वरपादरक्षे ! प्रकल्पयन्तो विविधान् पुमर्थान् । उदर्चिषश्चिन्तयतां जनानां चिन्तामणित्वं मणयस्त्वदीयाः।। 15.10
नाथस्य दत्ते नदराजकन्या पातुं शुभान् पादनखेन्दुरश्मीन् । मणिप्रभाभिः प्रतिपन्नपक्षां लीलाचकोरीमिव पादुके ! त्वाम्।। 15.11
जनस्य रङ्गेश्वरपादुके ! त्वं जातानुकम्पा जनयस्ययत्नात् । आकृष्य दूरान्मणिरश्मिजालैः अनन्यलक्ष्याणि विलोचनानि।। 15.12
रङ्गेशपादावनि ! तावकीनैः स्पृष्टाः कदाचिन्मणिरश्मिपाशैः । कालस्य घोरं न भजन्ति भूयः कारागृहान्तेषु कशाभिघातम्।। 15.13
रत्नानि रङ्गेश्वरपादरक्षे ! त्वदाश्रितान्यप्रतिघैर्मयूखैः । आसेदुषीणां श्रुतिसुन्दरीणां वितन्वते वर्णनिचोळलक्ष्मीम्।। 15.14
निद्रारसप्रणयिनो मणिपादरक्षे ! रङ्गेश्वरस्य सविधं प्रतिपद्यमाना । शय्याफणीन्द्रमभितो भवती विधत्ते रत्नां शुभिर्यवनिकामिव दर्शनीयाम्।। 15.15
सद्यस्त्वदुद्ग्रहदशानमिताकृतीनां स्रस्तां शुकं निजरुचा मणिपादुके ! त्वम् । पद्मासहायपरिवारविलासिनीनां पट् ट् आं शुकैरिव पयोधरमावृणोषि।। 15.16
देवस्य रङ्गवसतेः पुरतः प्रवृत्तै- रुद्धूतविश्वतिमिरां मणिरश्मिजालैः । मन्ये मदीयहृदयायतनप्रवेश- माङ्गळ्यदीपकणिकां मणिपादुके ! त्वाम्।। 15.17
आकीर्णरत्ननिकरां मणिपादुके ! त्वां रङ्गेश्वरस्य लळितां विपणिं प्रतीमः । यत्सं श्रयेण भवति स्थिरभक्तिमूल्यं कैवल्यमत्र जगतां क्रयविक्रयार्हम्।। 15.18
व्यङ्क्तुं क्षमं भगवतो जगदीश्वरत्वं वज्राङ्कुशध्वजसरोरुहचक्रचिह्नम् । आश्लिष्य निर्भररुचिं मणिपादुके ! त्वाम् आसीदनाभरणसुन्दरमङ्घ्रिपद्मम्।। 15.19
रत्नप्रभापटलचक्रमनोहरा त्वं पद्मारुणं पदमिदं त्वयि रङ्गभर्तुः । मन्ये तदेतदुभयं मणिपादरक्षे ! चक्राब्जमण्डलमकिञ्चनरक्षणार्हम्।। 15.20
त्रासात्स्वयं प्रणमतां दनुजेश्वराणां सङ्ख्येऽवलूनशिरसामपि मौळिरत्नैः । आयोजयत्यनुकलं मणिपादुके ! त्वां सैरन्ध्रिकेव मुरवैरिकृपाणधारा।। 15.21
आस्कन्दनानि विबुधेन्द्रशिखामणीनां त्वामाश्रितान्यसुरसूदनपादरक्षे ! । रत्नानि ते स्तुतिसुवर्णपरीक्षणार्थे नूनं भजन्ति निकषोपलतां कवीनाम्।। 15.22
पादावनि ! प्रणयिनां प्रतिपादितार्थां क्रीडासरोजमिव शौरिपदं वहन्तीम् । प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां पश्यामि रोहणगिरेरधिदेवतां त्वाम्।। 15.23
यामेव रत्नकिरणैर्मणिपादरक्षे ! चूडापदे तनुभृतां भवती विधत्ते । शक्रादिदैवतशिखामणिरज्यमानैः तामेव ते प्रकटयन्ति पदैरभिख्याम्।। 15.24
रत्नाङ्कुरैरविरळा मणिपादरक्षे ! पाकोन्मुखैः परिगता पुरुषार्थसस्यैः । देवेन रङ्गपतिना जगतां विभूत्यै केदारिकेव कृपया परिकल्पिता त्वम्।। 15.25
निर्धूतमोहतिमिरास्तव रत्नदीपैः निर्विश्यमानविभवं नदराजपुत्र्या । प्रत्यक्षयन्ति निगमान्तनिगूढमर्थं पादावनि ! त्वयि निवेशितभावबन्धाः।। 15.26
रत्नोपलप्रकरसं भव एष दूराद् रङ्गाधिराजचरणावनि ! तावकीनः । आर्द्रापराधपरिखिन्नधियां प्रजानाम् आश्वासनार्थ इव भाति करप्रसारः।। 15.27
व्यामुह्यतो विषयिबालमृगान् मदीयान् सं सारघर्मजनितासु मरीचिकासु । पादावनि ! प्रगुणरत्नमयूखजालैः आकृष्य विश्रमय केशवकान्तिसिन्धौ।। 15.28
अन्तर्निधाय मुनिभिः परिरक्ष्यमाणाम् आत्मीयरश्मिगुणितां मणिपादरक्षे ! । रङ्गेशपादकमलप्रतिपन्नमुद्रां नीवीमवैमि भवतीं निगमान्तवाचाम्।। 15.29
रामस्य रङ्गवसतेश्चरणानुषङ्गात् काष्ठां गतां भुवनपावनतां दधाना । पादावनि ! प्रचुररत्नशिलानिबद्धा सं सारसन्तरणसेतुरसि प्रजानाम्।। 15.30
दिविषन्मकुटेषु सञ्चरन्त्याः प्रचुरस्ते मणिपादुके ! प्रकाशः । दिवि रङ्गपतेर्महोत्सवार्थं वितता वन्दनमालिकेव भाति।। 15.31
प्रभवन्ति दवीयसां स्वभावात् तव रत्नानि मुकुन्दपादरक्षे ! । अयसामिव हन्त लोहकान्ताः कठिनानां मनसां विकर्षणाय।। 15.32
परिपश्यति देवि ! रङ्गनाथे रहसि त्वं सविधे निविश्य लक्ष्म्याः । परिपुष्यसि रत्नधामभिः स्वैः अनसूयेव मनोज्ञमङ्गरागम्।। 15.33
तव रत्नकरार्पितं नवीनं परिगृह्य स्थिरमं शुकं मनोज्ञम् । जरदं शुकवत्सुखेन देहं कृतिनः केशवपादुके ! त्यजन्ति।। 15.34
अभितो मणिपादुके ! निबद्धैः कृतसं स्कारविशेषमात्मरत्नैः । कुरुते भवती पदं मुरारेः कठिनेऽस्मिन् हृदि मे निवेशयोग्यम्।। 15.35
निजरत्नकराञ्चलैर्मदीयान् अपराधानवधूय दत्तसाम्या । रमया सहितस्य रङ्गभर्तुः पदयोरर्पय पादुके ! स्वयं माम्।। 15.36
रश्मिजालपरिवेषबन्धुरा रङ्गभूमिपतिरत्नपादुके ! । विश्वलोचनविहङ्गहारिणी वागुरेव वितता विराजसे।। 15.37
मानसाम्बुजविकासहेतुभिः सेविता मणिगणैः प्रभाकरैः । पादुके ! वहसि सद्भिराश्रितां देवि ! विष्णुपदसम्पदं नवाम्।। 15.38
अधिशयितफणीश्वरस्य शौरेः स्वयमधिरूढपदोपधानपार्श्वा । मणिवलयजुषा करेण मन्दं स्पृशसि पदावनि ! पादयोर्युगं तत्।। 15.39
भवत्यन्ते त्वां प्रणतस्य जन्तोः तदोकोऽग्रज्वलनं त्वत्प्रकाशैः । यतो नाड्या मध्यमया विनिर्यन् गतिं विन्देत् केशवपादरक्षे !।। 15.40
अशिथिलपरिणद्धा रश्मिजालैर्मणीनां दुरधिगमतमं नः पारमारोपयन्ती । कमलनयनमाद्यं कर्णधारं दधाना भवसि भवपयोधेः पादुके ! पोतपात्री।। 15.41
मणिगणकिरणैस्ते कल्पिते गुल्मभेदे मृगयुरिव कुरङ्गीं त्वां पुरस्कृत्य भव्याम् । हरति चरणरक्षे ! भक्तिपाशावरुद्धं हृदयहरिणयूथं प्राणिनां रङ्गनाथः।। 15.42
परिचितपदमूला पादुके ! रङ्गिणस्त्वं प्रभवति भुजमध्ये कौस्तुभोऽयं तथाऽपि । भवति भृशमधस्तात् तेजसा भव्यभूम्ना शलभितदुरितानां तावकानां मणीनाम्।। 15.43
कल्पश्रेणीदिनपरिणतौ जन्तुजाले प्रसुप्ते विष्वग्व्याप्ते जगति तमसा पादुके ! तादृशेन । स्त्यानालोकैस्तव मणिगणैर्वासगेहप्रदीपाः सम्पद्यन्ते सह कमलया जागरूकस्य यूनः।। 15.44
श्रीरङ्गेन्दोश्चरणकमलद्वन्द्वसेवावलेपात् आरूढायां त्वयि मखभुजामानतान् मौळिभागान् । तेषां चूडामणिभिरनघैस्तावकानां मणीनां केशाकेशि प्रभवति मिथस्त्रासलेशोज्झितानाम्।। 15.45
त्वद्रत्नोपलरश्मिपञ्जरतनुत्राणं स्थिरं बिभ्रतो मातः ! माधवपादुके ! न तु पुनर्हस्तैः स्पृशन्त्याकुलैः । दूरोत्सिक्तदुराढ्यजिह्मगबिलद्वाः पालकोपानल- ज्वालामित्रकठोरवेत्रलतिकादत्तार्धचन्द्रं वपुः।। 15.46
सं वर्तोदितसूर्यकोटिसदृशीं रङ्गेशपादावनि ! प्रस्तौषि प्रतियत्नरत्ननिकरज्योतिश्छटामुद्भटाम् । तन्मन्ये तदनन्यसूरिपरिषन्मध्ये निवेशाय नः तादृग्वासरसेऽपि भेत्तुमचिरादस्माकमन्धं तमः।। 15.47
सलीलं विन्यस्य त्वयि चरणरक्षे ! निजपदम् यदृच्छानिष्क्रान्ते विहरति हरौ रङ्गरसिके । दिशासौधानष्टौ जनयसि तदा निर्भरमिलन् मणिच्छायामायाघनघटितकेतुव्यतिकरान्।। 15.48
महार्घैराश्लिष्ट् आं मणिभिरवधूतद्युमणिभिः कथञ्चित् क्षेत्रज्ञैरधिगतपदामम्ब ! भवतीम् । मुकुन्देन त्रातुं पदकमलमूले विनिहितां निराबाधां मन्ये निधिमनघवाचां निरवधिम्।। 15.49
तापत्रयं निरुन्धे पचति कषायान् विशोषयति पङ्कम् । तेजस्त्रितयमिदं ते शङ्के रङ्गेन्द्रपादुके ! तेजः।। 15.50

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.