12 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः कुंभकर्णादिषुसभामागतेषु रावणेन प्रहस्तंप्रति विशेषतोनगररक्षाचोदना ॥ १ ॥ तथा स्वकृतसीतानयनाद्यनुवादेनसह रामस्य सेनाभिः सहसागरतीरागमन निवेदनपूर्वकं तद्वधोचितमन्त्रकरणचोदना ॥ २ ॥ कुंभकर्णेन सक्रोधंरावणप्रति सुहृद्भिः सहमन्त्र पूर्वकं सीताहरणस्य कर्तव्यस्वोक्त्या तद्वैपरीत्यस्यानौचित्योक्ति पूर्वकं दर्पाद्रामवधप्रतिज्ञानेनसमाश्वासनम् ॥ ३ ॥ स तां परिषदं कृत्स्नाम् समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् ॥ १ ॥ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः […]
11 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः रावणेन मन्त्रकरणाय सभाप्रवेशः ॥ १ ॥ रावणाज्ञयादूता हूतैराक्षसैर्नानायानैरावण सभाप्रवेशः ॥ २ ॥ रथारोहणेनसभामागतेनविभीषणेन रावणप्रणामपूर्वकं तन्नियोगेनपरमासने समुपवेशनम् ॥ ३ ॥ स बभुव कृशो राजा मैथिलीकाममोहितः । असंमानाच्च सुहृदां पापः पापेन कर्मणाः ॥ १ ॥ अथ परेद्युर्विभीषणाद्युपदेशेतिचिन्ताव्याकुलस्य रावणस्य निर्णयहेतुमन्त्रकरणाय सभाप्राप्तिं दर्शयति —स बभूवेत्यादि ॥ पापः पापी । गुणवचनेभ्यो मतुपो लुगिष्ट: […]
10 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशमः सर्गः विभीषणेन रावणगृहमेत्यतंप्रति सीतानयनकालप्रभृतिलङ्कायामनर्थसूचकदुर्निमित्त -प्रादुर्भावनिवेदनपूर्वकं तत्प्रायश्चित्त त्वेन रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ रावणेन विभीषणंप्रति रामस्यालक्ष्यत्वोक्त्या तद्वचनानादरणेनगृहंप्रति तद्विसर्जनम् ॥ २ ॥ ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥ शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ २ ॥ मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैश्चाप्तपर्याप्तैः सर्वतः परिरक्षितम् ॥ ३ ॥ मत्तमातङ्गनिश्वासैर्व्याकुलीकृतमारुतम् ॥ शङ्खघोषमहाघोषं तूर्यनादानुनादितम् […]
09 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः विभीषणेनरावणंप्रति रामवधप्रतिज्ञानेनसायुधग्रहणंसरभससमुत्थित निकुंभा दिनिवारणपूर्वकं रामपराक्रमप्रशंसनेन तस्मिन्दण्डस्यदुष्करत्वोक्त्या वैपरीत्येऽनर्थ -प्राप्तिकथनपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ ततःसायंरावणेन विभीषणादिसर्वजन विसर्जनपूर्वकं स्वगृहप्रतिगमनम् ॥ २ ॥ ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । सुप्तघ्नो यज्ञहारक्षो महापार्श्वो महोदरः ।। १ ।। अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलवान्रावणात्मजः ।। २ ।। प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव […]
08 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः प्रहस्तादिभीरावणंप्रत्यास्मश्लाघनपूर्वकं रामादिवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ।। १ ।। देवदानवगन्धर्वाः पिशाचपतगोरगाः । न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ।। २ ।। एवं मन्त्रिभिः सहसंमन्त्र्य भूयोभिहिते सकलसचिवप्रधानः प्रहस्तः स्वाभिमतमर्थं राज्ञे निवेदयति – तत इति ॥ १-२ ।। सर्वे प्रमत्ता […]
07 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः राक्षसैरावणंप्रति कुबेरविजयादितदपादानप्रशंसनपूर्वकं रामस्यततोप्यल्पबलत्वोक्त्या कैमुत्येनतत्पराजयस्यसुकरत्वोक्तिः ॥ १ ॥ तथेन्द्रजिदपादानप्रशंसनपूर्वकं रामविजयाय -तन्नियोजनोक्त्त्या समाश्वासनम् ॥ २ ॥ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् । द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।। १ ।। एवं रावणवचनमाकर्ण्य अविदितरघुनाथप्रभावा । मदोद्धता राक्षसास्तद्बलवर्णनपूर्वकं रावणं प्रशंसन्ति – इत्युक्ता इत्यादिना । सार्धश्लोक एकान्वयः । द्विषत्पक्षं द्विषद्बलं । पक्षो […]
06 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः रावणेन मन्त्रिणः प्रति हनुमत्कृतलकादहनादिदुष्करकर्मानुवाद पूर्वकं सैन्यैस्सहरा -मागमन -संभावनया तत्प्रतीकाराय मन्त्रिनियोजनम् ॥ १ ॥ लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः ।। १ ।। एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकालानन्तरकालिकं रावणवृत्तान्तं वक्तुमुपक्रमते-लङ्कायामिति ॥ घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं […]
05 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः समुद्रवेलावलोकनाद्युद्दीपकसमुद्दीपित विरहशोकेनरामेण लक्ष्मणप्रति सीतामुद्दिश्य -सपरिशोचनंबहुधाविलापः ॥ १ ॥ तथा लक्ष्मणसमाश्वासितेनतेन सायंसन्ध्योपासनम् ॥ २ ॥ सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ।। १ ।। एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्सा हत्वादयः शरण्यत्वौपयिका रामगुणा दर्शिताः । अथ रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गान्तरमारभते – सा त्विति ॥ स्वारक्षा आसमन्ताद्रक्षन्तीत्यारक्षा: शोभना: आरक्षाः […]
04 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः सुग्रीवेणरामचोदनयातदुक्तप्रकारेणवानर सैन्यानांसुमुहूर्तेलङ्कांप्रतिप्रस्थानायाज्ञापनम् ॥ १ ॥ सुग्रीवादिभिर्हनुमदङ्गदारूढाभ्यांरामलक्ष्मणाभ्यांसहरामोक्तप्रकारेण सर्वतः सेनारक्षण- पूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ २ ॥ प्रयाणसमयेलक्ष्मणेनरामंप्रति स्वपरजयापजयसूचक -शुभाशुभशकुनप्रदर्शनपूर्वकंसमाश्वासनम् ॥ ३ ॥ रामेणसुग्रीवादिभिःसह क्रमेणमलयाद्यति -क्रमेण महेन्द्रगिरिमेत्यतच्छिखरारोहणेनसागरावलोकनम् ॥ ४ ॥ हनुमदंसादवतीर्यसमुद्र -वेलावनमुपगतेनरामेणसुग्रीवं प्रतिसेनासंनिवेशन नियोजनपूर्वकं -सागरतरणोपाय निर्धारणायमन्त्रचोदना ॥ ५ ॥ श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। १ ।। एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता […]
03 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः श्रीरामेणहनुमन्तंप्रति स्वस्यसेतुबन्धाद्यन्यतमोपायेनवानराणांसागरतारणसामर्थ्योक्ति -पूर्वकं लङ्कायादुर्गादिभिः परिरक्षणप्रकारप्रश्नः ॥ १॥ हनुमता तंप्रति विस्तरेणतत्प्रकारनिवेदनेन सहस्वकृतसंक्रमादि विध्वंसन निवेदनपूर्वकं स्वस्याङ्गदादिकतिपय वीरसाहित्येन बाहुप्लवनेनैव लङ्कागमनपूर्वकं सर्वराक्षसविध्वंसनशक्तिनिवेदनेन तदर्थमाज्ञाप्रार्थनम् ॥ २ ॥ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ १ ॥ एवं मानुषभावनानुसारेण समुद्रस्य दुस्तरत्वेन शोकापन्नोपि सुहृदुपदेशेन प्रतिष्ठापितधैर्यो रामः नीतिशास्त्रानुसारेण संहार्यशत्रुदुर्गस्वरूपशोधनाय पृच्छति — सुग्रीवस्येत्यादिना ॥ सारग्राहित्वमाह – – […]