09 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः

विभीषणेनरावणंप्रति रामवधप्रतिज्ञानेनसायुधग्रहणंसरभससमुत्थित निकुंभा दिनिवारणपूर्वकं रामपराक्रमप्रशंसनेन तस्मिन्दण्डस्यदुष्करत्वोक्त्या वैपरीत्येऽनर्थ -प्राप्तिकथनपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ ततःसायंरावणेन विभीषणादिसर्वजन विसर्जनपूर्वकं स्वगृहप्रतिगमनम् ॥ २ ॥

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः
सुप्तघ्नो यज्ञ
हारक्षो महापार्श्वो महोदरः ।। ।।

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
इन्द्रजिच्च महातेजा बलवान्रावणात्मजः
।। ।।

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः
।। ।।

परिघान्पट्टिशान्प्रासाञ्शक्तिशूलपरश्वधान्
चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान्
।। ।।

अथ निकुम्भमतमेवानुसरन्तः सर्वेपि प्रधाना अहमहमिकया समुत्थाय शत्रुवधोद्युक्ताः । तमुद्योगं नीतिशास्त्रज्ञो विभीषणः  प्रतिषिद्धवानित्याह । तत इत्यादि श्लोकषट्कमेकं वाक्यं ॥ आदौ निकुम्भोपादानं निकुम्भमतानुसरणसूचनार्थं ॥ १-४ ॥

 

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः
अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा
।। ।।

समुत्पत्य आसनेभ्यः समुत्थाय ।। ५ ।।

 

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता
।। ।।

प्रधर्षितेत्यनन्तरमितिकरणं द्रष्टव्यं ॥ ६ ॥

 

तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः
अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्
।। ।।

क्रियाभेदात्तानित्यस्य न पुनरुक्ति: ॥ ७ ॥

 

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते
तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः
।। ।।

प्रहस्तादीनां प्रधानानां संनिहितत्वाद्रावणि वा रावणं वा प्रत्युक्ति: । मध्ये कचित्सचिवान्प्रति वोक्ति: । विक्रमस्य नायमवसर इति दर्शयितुं सामान्येन विक्रमकालानाह–अप्युपायैरिति ॥ तातेत्यभिमुखीकरणाय संबोधनं । त्रिभिः सामदानभेदरूपैः । उपायैरपि योर्थः लब्धुं न शक्यते तस्य सिद्धये । तान् नीतिशास्त्रप्रसिद्धान् । विक्रमकालान् युक्तानाहुः । तदुक्तं कामन्दकेन –  सामादीनामुपायानां त्रयाणां विफले नये । विनयेन्नयसंपन्नो दण्डं दण्ड्येषु दण्डभृत् इति ॥ तथाच नायं दण्डस्य काल इत्युक्तं ॥ ८ ॥

 

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च
विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः
।। ।।

न केवलं दण्डस्याकालिकत्वं दण्ड्यत्वं च ते शत्रोर्नास्तीत्यभिप्रायेणाह – प्रमत्तेष्विति ॥ प्रमत्तेषु अनवधानेषु । विषयासक्तेष्वित्यर्थः । अभियुक्तेषु ज्ञानिषु । विरक्तेष्विति यावत् । यद्वा सामन्तैराक्रान्तेषु । दैवेन भाग्येन । प्रहृतेषु क्षीयमाणसंपत्स्वित्यर्थः । चकाराद्बालवृद्धादिषु । विधिना नीतिशास्त्रोक्त रीत्या । परीक्ष्य मन्त्रिभिर्विचार्य । कृताः विक्रमाः विग्रहा: सिध्यन्ति । नान्यत्रेत्यर्थः । यथाह कामन्दकः— बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ।। दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंयुतः ॥ अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्म व्यपेतश्च विंशतिः पुरुषा अमी ॥ एतैः सन्धि न कुर्वीत विगृह्णीयात्तु केवलं इति ॥ ९ ॥

 

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्
जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ
।। १० ।।

रामस्तु न तादृश इत्याह – अप्रमत्तमिति । अप्रमत्तं सावधानं । तुशब्दोऽवधारणे । बले स्थितं स्थिरबलमित्यर्थः । जितरोषं अकाले रोषरहितमित्यर्थः । इच्छथेति । पूर्व रावणंप्रतिवचनं । अत्र सर्वान्प्रतीति बहुवचनं ॥ १० ॥

 

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्
कृतं हनुमता कर्म दुष्करं तर्कयेत
वा ।। ११ ।।

राम इदानीं दैवानुपहत इत्यत्र उदाहरणमाह—समुद्रमिति ।। ११ ।।

 

बलान्यपरिमेयानि वीर्याणि च निशाचराः
परेषां सहसाऽवज्ञा न कर्तव्या कथं चन
।। १२ ।।

परेषां रामादीनां ॥ १२ ॥

 

किं च राक्षसराजस्य रामेणापकृतं पुरा
आजहार जनस्थानाद्यस्य भार्यां यशस्विनः
।। १३ ।।

खरो यद्यतिवृत्तस्तु रामेण निहतो रणे
अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्
।। १४ ।।

अनपराधिनि निष्कारणवैरकरणमध्यपरमनुचितमित्याह – किं चेत्यादि । खरवध एव प्रथमापराध इत्याशङ्कयाह –खर इति ॥ दुर्वृत्ततया स्ववधप्रवृत्तखरवधे रामस्य नापकारगन्धोपीति भावः । निहतो यदि तत्र को दोष इति शेषः । दोषाभाषमाह – अवश्यमिति ॥ १३ – १४ ।।

 

अयशस्यमनायुष्यं परदाराभिमर्शनम् ।

अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ।। १५ ।।

प्रथमं रामेणापकृतत्वेप्यनेकदोषमूलं सीतापहरणं न कार्यमित्याह – अय शस्यमिति ॥ पुनर्भवं जन्मान्तरं । मूर्त्यन्तरमितियावत् ॥ १५ ॥

 

एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत्
आहृता सा परित्याज्या कलहार्थे कृते न किम्
।। १६ ।।

एवं सामान्यतः परदाराभिमर्शनस्यानर्थहेतुत्वमुक्त्वा प्रकृते तदर्शयति – एतदिति ॥ एतस्मान्निमित्तादित्यर्थ: । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् इति पञ्चम्यर्थे प्रथमा । अयशस्यत्वादिहेतोर्वैदेह्याः सकाशात्सुमहद्भयं भवेत् । तर्हि किमिदानीं कर्तव्यं तत्राह — आहृतेति ॥ उत्तमं वस्तु कथं त्यक्तव्यं तत्राह – कलहार्थे कृतेन किमिति । कलहार्थे विषये कृतेन कर्मणा किमित्यर्थः । अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रवस्तुहेतु निवृत्तिषु इति वैजयन्ती ॥ १६ ॥

 

न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली
।। १७ ।।

बहुदोषप्रदर्शनपूर्वकं सीताप्रदानस्यावश्यकर्तव्यतामाहन नः क्षममित्यादिना ॥ १७ ॥

 

यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्
पुरीं दारयते बाणैर्दीयतामस्य मैथिली
।। १८ ।।

यावद्दारयते दारयिष्यति । यावत्पुरानिपातयोर्लट् इतिभविष्यदर्थे लट् । राम इति शेषः ॥ १८ ॥

 

यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी
नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्
।। १९ ।।

यावत् यदा । तावत् तदा । नावस्कन्दति न रुणद्धि ॥ १९ ॥

 

विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः
रामस्य दयिता पत्नी स्वयं
यदि दीयते ।। २० ।।

शूरा इति । विनश्येयुरिति व्यत्ययेन योजनीयं । स्वयं न यदि दीयत इति पाठः ॥ २० ॥

 

प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम
हितं पथ्य
हं ब्रूमि दीयतामस्य मैथिली ।। २१ ।।

ब्रूमि ब्रवीमि । अस्य अस्मै ॥ २१ ॥

पुरा शरत्सूर्यमरीचिसंनिभान्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः
सृजत्यमोघान्विशिखान्वधाय ते
प्रदीयतां दाशरथाय मैथिली ।। २२ ।।

अयं शल्यं पुङ्गं शरमूलं नवे अग्रपुङ्खे यषां ते । अतएव सुदृढान् पुरा सृजति स्रक्ष्यति । दशरथस्यायं दाशरथः । तस्येदम् इति संबन्धार्थे अण् । संबन्धश्चात्र पुत्रत्वं । दाशरथाय दाशरथये ॥ २२ ॥

 

त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां दाशरथाय मैथिली ।। २३ ।।

रतिः सुखं ॥ २३ ॥

 

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।

विसर्जयित्वा तान्सर्वान्प्रविवेश स्वकं गृहम् ।। २४ ।।

विभीषणेति । सर्व प्रातरालोचयिष्याम इति विभीषणप्रमुखान् विसृज्येत्यर्थः ।। २४ ।।

 

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.