98 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः

सुग्रीवेण महोदरवधः ॥ १ ॥

 

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।

सरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ १ ॥

स्वबलस्य विघातेन विरूपाक्षवधेन च ।

बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।

बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ।

उवाच च समीपस्थं महोदरमरिंदमम् ॥ ३ ॥

अथ महोदरवधः – हन्यमान इत्यादि । सरसी इवेति वक्तव्ये सरसीवेति संधिरार्षः ॥ १-३ ॥

 

अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ।

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।

भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ ४ ॥

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।

प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ ५ ॥

अस्मिन्काल इत्यादिसार्धश्लोक एकान्वयः ॥ भर्तृपिण्डस्येति संबन्धमात्रे षष्ठी । भर्तृपिण्डस्य निर्देष्टुं स्वामिदत्तवेतनमपाकर्तुमित्यर्थः ॥ ४-५ ॥

 

ततः स कदनं चक्रे वानराणां महाबलः ।

भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ६ ॥

वानराश्च महासत्वाः प्रगृह्य विपुलाः शिलाः ।

प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ ७ ॥

भर्तृवाक्येन चोदितः सन् स्वेन वीर्येण कदनं चक्र इत्यन्वयः ।। ६-७ ।।

 

महोदरस्तु संक्रुद्धः शरैः काञ्चनभूषणैः ।

चिच्छेद पाणिपादोरून्वानराणां महाहवे ॥ ८ ॥

ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।

दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ॥ ९ ॥

पाणिपादोरूनिति । एकवद्भावाभाव आर्ष: ।। ८-९ ।।

 

प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।

अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ १० ॥

प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।

चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ११ ॥

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।

असंभ्रान्तस्ततो बाणैनिर्विभेद दुरासदाम् ॥ १२ ॥

अनन्तरं समीपस्थं ॥ १०-१२ ।।

 

रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।

निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १३ ॥

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः ।

सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ १४ ॥

गृधचक्रं गृध्रसमूहः ॥ १३-१४ ।।

 

शरैश्च विददारैनं शूरः परपुरंजयः ॥ १५ ॥

शरैरित्यर्धं ।। शूरः महोदरः एनं च सालं च शरैः विददारेत्यन्वयः ॥ १५ ॥

 

स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।

आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।

परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १६ ॥

तस्माद्धतहयाद्वीरः सोवप्लुत्य महारथात् ।

गदां जग्राह संक्रुद्धो राक्षसोथ महोदरः ॥ १७ ॥

गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।

नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ १८ ॥

सः सुग्रीवः । आविध्येति । आदायेति शेषः । तस्य महोदरस्य दर्शयन् । पाणिलाघवमिति शेष: ॥ १६-१८ ॥

 

ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।

ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ १९ ॥

भास्कराभासां भास्करवद्भासमानां ॥ १९ ॥

 

गदां तां सुमहाघोरामापतन्तीं महाबलः ।

सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ।

आजधान गदां तस्य परिषेण हरीश्वरः ॥ २० ॥

गदां दृष्ट्वेति शेषः । समुद्यम्य । परिघमिति सिद्धं ॥ २० ॥

 

पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ २१ ॥

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।

आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २२ ॥

स तमुद्यम्य चिक्षेप सोप्यन्यां व्याक्षिपद्गदाम् ।

भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २३ ॥

ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।

तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २४ ॥

जघ्नुतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनः पुनः ।

तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २५ ॥

उत्पेततुस्ततस्तूर्णं जघ्नुतुश्च परस्परम् ।

भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ।

जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ ॥ २६ ॥

आजहार ततः खड्गमदूरपरिवर्तिनम् ।

राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ २७ ॥

तथैव च महाखङ्गं चर्मणा पतितं सह ।

जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २८ ॥

तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।

उद्यतासी रण हृष्टौ युधि शस्त्रविशारदौ ॥ २९ ॥

पपात स गदोद्भिन्न इत्यर्धं ॥ उभावपि परस्पराभिहतौ विशीर्णौ पेततुरिति भावः ॥ २१-२९ ॥

 

दक्षिणं मण्डलं चोभौ सुतूर्णं संपरीयतुः ।

अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ ३० ॥

दक्षिणं प्रदक्षिणं चकारात् सव्यं च । सुतूर्णं संपरीयतुः अकुर्वतां ॥ ३० ॥

 

स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।

महाचर्मणि तं खङ्गं पातयामास दुर्मतिः ॥ ३१ ॥

वीर्येण श्लाघत इति वीर्यश्लाघी ॥ ३१ ॥

 

लग्नमुत्कर्षतः खङ्गं खड्गेन कपिकुञ्जरः ।

जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ ३२ ॥

लग्नं चर्मलग्नं । उत्कर्षतः महोदरस्येति शेषः ॥ ३२ ॥

 

निकृत्तशिरसस्तस्य पतितस्य महीतले ।

तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ ३३ ॥

हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।

चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३४ ॥

तत् शिरः । न तिष्ठते नातिष्ठत ॥ ३३-३४ ॥

 

विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।

विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३५ ॥

विषण्णवदनाः अभवन्निति शेषः । अतः सर्वशब्दापौनरुत्त्यं ॥ ३५ ॥

 

महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् ।

सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ३६ ॥

अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः ।

अवनितलगतैश्च भूतसङ्घैर्हरुषसमांकुलितैः स्तुतो महात्मा ॥ ३७ ॥

लक्ष्म्या जयलक्ष्म्या ।। ३६-३७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.