27 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः

रावणंप्रतिसारणेनपृथक्पृथङ्नामनिर्देशेनतत्तस्पराक्रमादिप्रशंसनपूर्वकमृक्षवानरादियूथाध्यक्षप्रदर्शनम् ॥ १ ॥

 

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्
।। ।।

पुनरुक्तेभ्योप्युत्कृष्टान्प्रधानयूथपतीन्वक्तुं प्रतिजानीते – तांस्त्वित्यादि । ये राघवार्थे पराक्रान्ताः सन्तः जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्यामीयन्वयः ॥ १ ॥

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
।। ।।

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः
।। ।।

द्वाभ्यां हरं वर्णयति- वाला इति । वाला: रोमाणि । बहुव्यामा: बहुव्यामप्रमाणाः । व्यामो नाम प्रसारितबाहुद्वयप्रमाणं । प्रगृहीताः उत्क्षिप्ताः । प्रकीर्णाः विरलाः । सूर्यस्य मरीचय इव मेघेषु शक्रचापादिरूपेण प्रसृता रश्मय इव । प्रकाशन्ते । कदाचित् पृथिव्यामनुकृष्यन्ते । एष यूथपो हरो नाम ॥ २–३ ॥

 

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः
द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः

यूथपा हरिराजस्य किङ्करा  समुपस्थिताः ।। ।।

एष कोटीसहस्रेण वानराणां महौजसाम्
आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय
।। ।।

यमित्यादि सार्धश्लोक एकान्वयः ॥ यं हरं । हरस्य हरिराजकिङ्करत्वेन तदीया अपि यूथपा हरिराजकिंकरा एवेति न विरोधः ॥ ४ -५ ।।

 

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि
असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान्

असंख्येयाननिर्देश्यान्परं पारमिवोदधेः ।। ।।

ऋक्षसेना वर्णयति – नीलानित्यादि  अनिर्देश्यान् प्रत्येकं निर्देष्टुमशक्यान् । परं पारमिवोदधेः समुद्रस्यापरं तीरमिव स्थितमित्यर्थः ॥ ६ ॥

 

पर्वतेषु च ये केचिद्विषमेषु नदीषु च ।

एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ।। ।।

विषमेषु निम्नोन्नतप्रदेशेषु ॥ ७ ॥

 

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः
पर्जन्य इव जीमूतैः समन्तात्परिवारितः
।। ।।

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः
।। ।।

पर्जन्यः वर्षदेवता ।। ८ – ९ ।।

 

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे
।। १० ।।

यवीयान् कनिष्ठः । अयमिति शेषः । विशिष्टः अधिकः ॥ १० ॥

 

स एष जाम्बवान्नाम महायूथपयूथपः
प्र
क्रान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ।। ११ ।।

गुरुवर्ती गुरुशुश्रूषकः ।। ११ ।।

 

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता
देवासुरे जाम्बवता लब्धाश्च बहवो वराः
।। १२ ।।

दैवासुरे देवासुरयुद्धे ॥ १२ ॥

 

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च
।। १३ ।।

राक्षसानां च सदृशाः पिशाचानां च रोमशाः
एतस्य सै
न्या बहवो विचरन्त्यग्नितेजसः ।। १४ ।।

जाम्बवतः सैनिकान्वर्णयति द्वाभ्यां –आरुह्येत्यादि । पर्वताप्राणीत्यर्थात्सिद्धं । मुञ्चन्ति च्यावयन्ति । नोद्विजन्ति न बिभ्यति । राक्षसानां पिशाचानां च सदृशा इत्यन्वयः ॥ १३ – १४ ॥

 

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम्
प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्
।। १५ ।।

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः
बलेन बलसम्पन्नो
म्भो नामैष यूथपः ।। १६ ।।

द्वाभ्यां दम्भं वर्णयति — यं त्विति । अभिसंरब्धं कुपितं । प्लवमानमिव सदा लवमानमिव स्थितं प्रेक्षन्ते । आश्चर्येणेति शेषः । बलेन पर्युपास्ते बलेन प्रीणयतीत्यर्थः ॥ १५-१६ ।।

 

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्
।। १७ ।।

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते
श्रुतः संनादनो नाम वानराणां पितामहः
।। १८ ।।

येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः
।। १९ ।।

त्रिभिः सन्नादनं वर्णयति यः स्थितमिति ॥ यो गच्छन् योजने योजनदूरे । स्थितं शैलं पार्श्वन गच्छति । अस्य गमनकाले एकपदप्रक्षेपदशायां एकयोजनपरिमितः पर्वतः पार्श्वस्थो भवति । योजनायतशरीर इत्यर्थ: । कायेनोर्ध्वं गतः सन् योजनं प्राप्नोति । योजनोन्नतकायइत्यर्थः । अतएव चतुष्पादेषु यस्मात् परमं परं रूपं शरीरं । न विद्यते । शक्रस्य रणे शक्रस्यासुरैः सह युद्धे । येनासुरेभ्यो युद्धं दत्तं तदा पराजयश्चासुरेभ्यो न प्राप्तः सोयं सन्नादन इति श्रुतो नाम ।। १७ – १९ ।।


यस्य विक्रममाणस्य शक्रस्येव पराक्रमः

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ।। २० ।।

कस्यायं पुत्र इत्यत्राह – यस्येति ॥ विक्रममाणस्य पराक्रमं कुर्वतः । यस्य पराक्रमः शक्रस्येव । तत्पराक्रमसदृशपराक्रम इत्यर्थः ॥ २० ॥


पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्
।। २१ ।।

किमर्थमुत्पादित इत्यत्राह – तदेत्यर्धं ॥ तदा प्रसिद्धे ॥ २१ ॥

 

यस्य वैश्रवणो राजा जम्बूमुपनिषेवते
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्
।। २२ ।।

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप
तत्रैष वसति श्रीमान्बलवान्वानरर्षभः
।। २३ ।।
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः

वृतः कोटिसहस्रेण हरीणां समुपस्थितः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
।। २४ ।।

कथनं वर्णयति सार्वैस्त्रिभिः – यस्येत्यादिना । यस्य गिरे: वैश्रवणः कुबेरो राजा । योगिरिः जम्बू जम्बूवृक्षं । उपनिषेवते । जम्बूयुक्त इत्यर्थः । यः ते भ्रातुः कुबेरस्य विहारसुखदः । तत्र पर्वते । युद्धेष्वकत्थनः कथनो नामैषः यूथपो वसतीति संबन्धः ॥ २२ – २४ ॥

 

यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान्
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्
।। २५ ।।

यो गङ्गामित्यादि सार्धोकप्तकं प्रमाथिविषयं । हस्तिनां वानराणां च अन्योन्यं पूर्ववैरमनुस्मरन् यः गङ्गामनु गङ्गासमीपे । कर्मप्रवचनीययुक्ते द्वितीया इति द्वितीया । हस्तियूथपान् त्रासयन् पर्येति परितश्चरति । अत्रेयं पौराणिकी कथा – पुरा किल शम्बसादनो नामासुरो गजरूपेण मुनीन् बाधमानस्तैर्मुनिभिश्चोदितेन केसरिणा हनुमत्पित्रा हतः । तत्संतुष्टैर्मुनिभिर्महापराक्रमो हनुमान् पुत्रस्ते भविष्यतीति केसरिणे वरो दत्तः । ततःप्रभृति हस्तिनां वानराणां च परस्परं वैरमभूदिति ॥ २५ ॥

 

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः

गजान्योधयते वन्यान्गिरींश्चैवमहीरुहीन् ।। २६ ।।

गच्छन्नेव गमनकाल एव । रिपूणां नाशयिता । गिरिगुहायां शेते वर्तत इति गिरिगुहाशयः । गजानिति । गजैर्वृक्षान् वृक्षैर्गजांश्च हन्तीत्यर्थः ॥ २६ ॥


हरीणां वाहिनीमुख्यो नदीं हैमवतीम् अनु

उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम्
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्
।। २७ ।।

हैमवतीमनु गङ्गासमीपे । स्थितं उशीरबीजाख्यं पर्वतमाश्रित्य रमत इतियोजना । हरिवाहिनीमुख्यत्वेपि भिन्नजातीयत्वभ्रमव्युदासार्थं वानरश्रेष्ठ इत्युक्तं ।। २७ ।।

 

एनं शतसहस्राणां सहस्रमभिवर्तते

वीर्यविक्रमदृप्तानां नर्दतां बलशालिनाम् ।। २८ ।।

वीरस्य भावो वीर्यं । उत्साह इत्यर्थः । विक्रमः परान्प्रत्यभिभवः । वलशालिनां वानराणामित्यर्थसिद्धं । शतसहस्राणां सहस्रं सहस्रलक्षमित्यर्थः ॥ २८ ॥

 

स एष नेता चैतेषां वानराणां महात्मनाम् ।। २९ ।।

नेता नायकः ॥ २९ ॥


एष दुर्धरो राजन्प्रमाथी नाम यूथपः

वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ।। ३० ।।

प्रमाथिनं वर्णयति—स एष इति ॥ दुर्धरः दुर्धर्षः । प्रमाथी नाम । प्रमाथिनामकः । वातेनोद्धतं मेघमिव यमेनभनुपश्यसि एष प्रमाथीति संबन्धः ।। ३० ।।

 

अनीकमपि संरब्धं वानराणां तरस्विनाम् ।

उद्धूतमरुणाभासं पवनेन समन्ततः ।
विवर्तमानं बहु
धा यत्रैतद्बहुलं रजः ।। ३१ ।।

यत्र अनीके । समन्ततः पवनेनोद्भूतं अरुणाभासं अरुणकान्तिबहुलमेतद्रजः । बहुधा विवर्तमानं भवति । संरब्धं तत् तरस्विनां वानराणामनीकमपि पश्यसि । तदप्यस्य प्रमाथिनइत्यर्थः ॥ ३१ ॥

 

एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्
।। ३२ ।।

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा
।। ३३ ।।

गवाक्षमाह श्लोकद्वयेन – एत इति ॥ असितमुखाः गोलाङ्गूला: सेतुबन्धनं दृष्ट्वा उत्साहेन शतं शतसहस्राणि च सन्तः गवाक्षं नाम स्वयूथपतिं परिवार्य लङ्कां ओजसा स्वतेजसा । मर्दितुमभिवर्तन्ते । अत्र यूथपत्यपेक्षया यूथानां बलोत्साहाधिक्यं व्यज्यते ॥ ३२-३३ ॥

 

भ्रमराचरिता यत्र सर्वकामफलद्रुमाः
यं सूर्यतुल्यवर्णाभमनु
पर्येति पर्वतम् ।। ३४ ।।

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः
।। ३५ ।।

सर्वकामफला वृक्षाः सदा फलसमन्विताः ।

मधूनि च महार्हाणि यस्मिन्पर्वतसत्तमे ।। ३६ ।।

तत्रैष रमते राजन्रम्ये काञ्चनपर्वते
मुख्यो वानरमुख्यानां केसरी नाम यूथपः
।। ३७ ।।

अथ चतुर्भिः केसरिणं वर्णयति — भ्रमरेति ॥ यत्र पर्वते । सर्वकामफलाः सर्वैः काम्यन्त इति सर्वकामाः सर्वाभीष्टार्था: तान् फलन्तीति सर्वकामफलाः ते च ते द्रुमाश्च सर्वकामफलद्रुमाः । भ्रमरैः आचरिता:व्याप्ताः भवन्ति । अनेन वृक्षाणां सर्वापेक्षितप्रदत्वं सदा पुष्पितत्वं चोक्तं । यं पर्वतं सूर्य: तुल्यवर्णाभं तुल्यप्रकारकान्तिकं यथा तथा । अनु समीपे । पर्येति संचरति । दृश्यते हि सूर्यस्तत्सन्निधाने काञ्चनवर्ण: । यस्मिन्पर्वतसत्तमे सर्वकामफलाः सर्वैः काम्यमानफलाः । अनेन स्वादुफलत्वमुक्तं । सदा फलसमन्विताः सर्वकालं फलयुक्ता इत्यर्थः । काञ्चनपर्वते मेरौ ॥ ३४-३७ ॥

 

षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ।
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्
।। ३८ ।।

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा
नखायुधाः ।। ३९ ।।

अथ शतबलियानरसेनाश्लाघनपूर्वकं वर्णयति — षष्टिरित्यारभ्य हरिरित्यन्तेन ॥ गिरिसहस्राणां षष्टिरस्ति । ते रम्याः काञ्चनपर्वता भवन्ति । गिरिवरः मेरुः । अस्ति ह्यस्तगिरेः पूर्वतश्चपरो मेरुः ॥ ३८-३९ ॥

 

सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः
।। ४० ।।

वैश्वानरसमाः । वैश्वानरः अग्निः तद्वद्रुग्रा इत्यर्थः । ज्वलिताशीविषा: कुपितसर्पा: । आशिषि दंष्ट्रायां विषं येषां ते आशीविषा: । आशीरुरगदंष्ट्रायां प्रियवाक्याभिलाषयोः इत्यमरः । पृषोदरादित्वात् सलोपः । तद्वत्कोपना इत्यर्थः ।। ४० ।।

 

सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः
महापर्वतसङ्काशा महाजीमूतनिस्वनाः
।। ४१ ।।

अञ्चितलाङ्गूला: उचितलाङ्गूला: । मत्तेत्यादिना महाकायत्वमुक्तं । पर्वतसंकाशाइत्यनेन दार्ढ्यमुक्तं ॥ ४१ ॥

 

वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः ।

मर्दयन्तीव ते सर्वे तस्थर्लङ्का समीक्ष्य ते ।। ४२ ।।

भीमभीमा : भीमप्रकाराः । प्रकार: सादृश्यं । भीमसदृशाः ईषद्भीमा इत्यर्थः । प्रकारे गुणवचनस्य इति द्विर्भाव: । तादृशगमनस्वराः ते वानराः । ते तव । लङ्कां समीक्ष्य मर्दयन्तीव तस्थुः मर्दयन्तीव तिष्ठन्ति । आर्षो लिङ्गव्यत्ययः ॥ ४२ ॥

 

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।। ४३ ।।

उपतिष्ठति उपतिष्ठते ॥ ४३ ॥


नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
।। ४४ ।।

एषैवेति संधिरार्षः ॥ ४४ ॥

 

विक्रान्तो बलवाञ्शूरः पौरुषे स्वे व्यवस्तितः ।

रामप्रियारिर्थं प्राणानां दयां न कुरुते हरिः ।। ४५ ।।

गजो गवाक्षो गवयो नलो नीलश्च वानरः
एकैक एव यूथानां कोटिभिर्दशभिर्वृतः
।। ४६ ।।

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः
न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः
।। ४७ ।।

पौरुषे पराक्रमे । प्राणानां प्राणेषु ॥ ४५-४७ ।।

 

सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः
सर्वे समर्थाः पृथिवीं क्षणेन
कर्तुं प्रविध्वस्तविकीर्णशैलाम् ।। ४८ ।।

प्रविध्वस्तविकीर्णशैलां प्रविध्वस्ताः चूर्णिताः विकीर्णा विक्षिप्ताः शैलाः यस्याः सा तां तथा ॥ ४८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥ २

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.