107 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तोत्तरशततमः सर्गः

अगस्त्यर्षिणा श्रीरामायरावणवध सौकर्यायादित्यहृदयस्तोत्रोपदेशः ॥ १ ॥ श्रीराम -कृतादित्यहृदयजपतुष्टेनसूर्येण तंप्रति रावणवधत्वरणम् ॥ २ ॥

आदित्यहृदयप्रारम्भः ॥

 

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।

उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २ ॥

अथादित्यहृदयोपदेशः ॥ ततो युद्धपरिश्रान्तमित्यादिश्लोकद्वयमेकान्वयं ॥ रणं द्रष्टुं दैवतैः समागम्य आगतः दैवतैः सहागतः अगस्त्यः युद्धपरिश्रान्तं उपस्थितं रावणं दृष्ट्वा कथमेनं परत्वप्रकटनं विना जेष्यामीति चिन्तया स्थितं चिन्तयन्तं च रामं दृष्ट्वा उपागम्याब्रवीत् ॥ १-२ ॥

रामराम महाबाहो शृणु गुह्यं सनातनम् ।

येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३ ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।

जयावहं जपेन्नित्यमक्षुय्यं परमं शिवम् ॥ ४ ॥

सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।

चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥

राम रामेत्यादिश्लोकत्रयमेकान्वयं ।। रामस्य चिन्ताविष्टत्वात् स्वादरातिशयात्कार्य -त्वरया च द्विरुक्तिः । महाबाहो इत्यनेन पूर्वकृतपराक्रमप्रकटनं । सनातनं वेदवन्नित्यं । गुह्यं रहस्यं । शृणु । तदेव रहस्यमाह – आदित्यहृदयमित्यादि । आदित्यस्य हृदयं आदित्यमनःप्रसादकमित्यर्थः । पुण्यं पठतां पुण्यवर्धकं । सर्वशत्रुविनाशेपि तुल्यायव्ययन्यायेन कस्यचिन्न जय: स्यात् न तथा भवतीमित्याह – जयावहमिति । अक्षय्यं अक्षय्यफलकं । परमं शिवं परमपावनं । सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलानामपि मङ्गलं । मङ्गलानां च मङ्गलमितिवत् । स्वार्थे यत्प्रत्ययः । सर्वश्रेयः साधनमित्यर्थः । सर्वपापप्रणाशनं सर्वपूर्वाघविनाशनं । चिन्ताशोकप्रशमनं आधिव्याधिनिवर्तकं । आयुर्वर्धनं विहितायुषोप्यधिकायुःप्रदं उत्तमं जप्येषु श्रेष्ठं । आदित्यहृदयाख्यं स्तोत्रं जपेत् । आदित्यहृदयस्तोत्रजपे पुण्यादिवृद्धिर्भवति अतोवश्यं तत्कामस्तज्जपेदिति भावः ॥ ३–५ ॥

 

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥

स्तोतव्यदेवतास्वरूपमाह — रश्मिमन्तमिति ॥ रश्मिमन्तं स्वर्णवर्णतया प्रशस्तकिरणं । समुद्यन्तं अर्धोदयादिकं विना सम्यगुदयं प्राप्नुवन्तं । इदं च ध्येयाभिप्रायेणोक्तं । न तु तदानीं सूर्योदयकालः । अगस्त्यागमनकालस्यापराह्नत्वात् । अतएव लक्ष्मणवचनं – अहं तु वधमिच्छामि शीघ्रमस्य दुरामनः । यावदस्तं न यात्येष कृतकर्मा दिवाकरः इति । विवस्ते आच्छादयति तेजोन्तरमिति विवस्वान् तं । स्वभासा सर्वतेजसामाच्छादकमित्यर्थः । भास्करं भाः करोतीति भास्करः । दिवाविभानिशाप्रभाभास्कारा – इत्यादिना टः सकारश्च । भुवनेश्वरं वर्षातपाभ्यां समस्तभुवननियन्तारं । पूजयस्व आदित्यहृदयेन तोषयस्वेत्यर्थः ॥ ६ ॥

 

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।

एप देवासुरगणाँल्लोकान्पाति गभस्तिभिः ॥ ७ ॥

ननु सत्सु देवतान्तरेषु कथमस्यैव पूज्यत्वं तत्राह — सर्वदेवात्मक इति ॥ सर्वदेवात्मकः सर्वदेवानामात्मा । स्वार्थे कः । सूर्य आत्मा जगतस्तस्थुषश्च इति श्रुतेः । रश्मिभिर्लोकाननुभावयतीति रश्मिभावनः । रश्मिभिः रक्षतीत्यर्थः । एतदेवाह – एष इति । देवासुरगणान् लोकान् देवासुरगणरूपाज्जनानित्यर्थः । पाति रक्षति । याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति इति श्रुतेः ॥ ७ ॥

 

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।

महेन्द्रो धनदः कालोयमः सोमो ह्यपां-पतिः ॥ ८ ॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।

वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥

सर्वदेवात्मकत्वमाह – एष ब्रह्मेत्यादिना ।। अयमेव ब्रह्मादिसमस्तदेवताशरीरे वर्तत इत्यर्थः । प्रजापतिरिति जात्येकवचनं । नव प्रजापतय उच्यन्ते । कालशब्देन मृत्युरुच्यते । यमस्तु ततोन्यः । मरुतः आवहादिवायवः । वायुर्भूलोकसंचारी । प्राणः शरीरान्तःस्थो वायुः । ऋतुकर्तेति प्रभाकरविशेषणं । ऋतूनां वसन्तादीनां कर्ता एष प्रभाकरः ब्रह्मा चेत्यादिरीत्याऽन्वयः ॥ ८-९ ॥

 

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥

एवमादित्यस्वरूपमुपदिश्य तद्विषयमादित्यहृदयस्तोत्रमुपदिशति-आदित्यः सवितेत्या -दिना लोकसाक्षिण इत्यन्तेन ॥ तत्र आदित्यादिप्रथमान्तपदेषु त्वंपदमध्याहार्यं । अदितेरपत्यत्वेनावतीर्ण आदित्यः । दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः” इति ण्यप्रत्ययः । अदितेः अखण्डिताया भूमेरयं पतिरित्यादित्यः । सूते जगदिति सविता । सुवति प्रेरयति जनान् कर्मणीति सूर्य: । षू प्रेरण इति धातो: राजसूयसूर्य- इति निपातनात् क्यप्प्रत्ययो रुडागमञ्च ॥ खे गच्छतीति खगः । लोकोपकारार्थमाकाशे संचरन्नित्यर्थः । वर्षेण पुष्णाति जगदिति पूषा । श्वन्नुक्षन्नित्यादौ निपातितः । गभस्तयः किरणाः अस्य सन्तीति गभस्तिमान् । सुवर्णसदृशः सुवर्णवर्णः । हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्ण इति श्रुतेः । भातीति भानुः । दाभाभ्यां नुः इति नुप्रत्ययः । हिरण्यं रेतो यस्य स हिरण्यरेताः हिरण्मयब्रह्माण्डकर्तेत्यर्थः । अक्षराधिक्यमार्षत्वात् । दिवा करोतीति दिवाकरः, दिवा अह्नि प्राणिनः चेष्टां करोतीति वा दिवाकरः ॥ १० ॥

 

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।

तिमिरोन्मथनः शंभुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११ ।।

हरितः श्यामा अश्वा अस्य सन्तीति हरिदश्वः । सहस्रार्चिः सहस्रकिरणः । सप्तनामा सप्तिरश्वो यस्यासौ सप्तसप्तिः । एको अश्वो वहति सप्तनामा इति श्रुतेः । मरीचयोस्य सन्तीति मरीचिमान् । प्रकाशवानित्यर्थः । तिमिराण्युन्मथ्नातीति तिमिरोन्मथनः । शंसुखं भवत्यस्मादिति शंभुः । डुप्रकरणे मितद्रुदिभ्य उपसंख्यानम् इति डुः । सर्वाणि रूपाणि त्वष्टा । सर्वसंहारक इत्यर्थ: । मृतेण्डे जातो मार्तण्ड: । सर्वसंहारे तत्सृष्टये पुनः प्रादुर्भूत इत्यर्थ: । अंशवोस्य सन्तीत्यंशुमान् । प्रकाशमान इत्यर्थः ॥ ११ ॥

 

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।

अग्निगर्भोदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥

हिरण्यं हिरण्मयाण्डं । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् इति स्मृतेः । तस्य गर्भो हिरण्यगर्भः । ब्रह्माण्डोदरवर्तीत्यर्थः । यद्वा हिरण्यं हितरमणीयं गर्भमन्तःकरणं यस्यासौ हिरण्यगर्भः । तापत्रयतप्तानां विश्रमस्थानत्वाच्छिशिरः । तपतीति तपनः । भास: करोतीति भास्करः । रूयते स्तूयते सर्वैरिति रविः । अच इ: इतीप्रत्ययः । दिवा अग्निर्गर्भे यस्यासावग्निगर्भ: । उद्यन्तं वावादित्यमग्निरनुसमारोहति इति श्रुतेः । अदितेः पुत्रः अदितेः पुत्रत्वेनावतीर्णः । शाम्यति स्वयमेव सायंकाल इति शङ्खः । शिशिरं हिमं नाशयतीति शिशिरनाशनः ॥ १२ ॥

 

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।

घनवृष्टिरपां-मित्रो विन्ध्यवीथी प्लवङ्गमः ॥ १३ ॥

व्योम्नो नाथो व्योमनाथः । तमः राहुं भेत्तुं शीलमस्यास्तीति तमोभेदी । ऋग्यजुःसाम्नां पारं गच्छतीति ऋग्यजु:सामपारगः । ऋग्भिः पूर्वाह्ने दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः इति श्रुतेः । घना वृष्टिर्यस्मादसौ घनवृष्टिः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति स्मृतेः । अत एवापां मित्रः । पुलिङ्गत्वमार्षं । दक्षिणायने विन्ध्यो वीथी संचारभूमिर्यस्यासौ विन्ध्यवीथिः । प्लवं यथा तथा गच्छतीति प्लवङ्गमः । विन्ध्यवीथीप्लवङ्गम इत्येकपदत्वेन पाठे विन्ध्यवीथी गगनमार्गः ॥ १३ ॥

 

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।

कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥

आतपोस्यास्तीत्यातपी । मण्डलं वृत्ताकारो बिम्बोस्यास्तीति मण्डली । मृत्युः विरोधिनिवर्तकः । उदयसमये पिङ्गलवर्णत्वात् पिङ्गलः । सर्वानपि मध्याह्ने तापयतीति सर्वतापनः । कविः पण्डितः । व्याकरणादिसर्वशास्त्रप्रवर्तक इत्यर्थः । विश्वः विश्वनिर्वाहकः । महान्ति तेजांसि यस्य स महातेजः । रक्तः सर्वेष्वनुरक्तः । सर्वेषां भवः संसार : उद्भवत्यस्मादिति सर्वभवोद्भवः ॥ १४ ॥

 

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।

तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तु ते ॥ १५ ॥

नक्षत्राणां ग्रहाणां ताराणां चाधिपः । विश्वं भावयति स्थापयतीति विश्वभावनः । तेजसामग्न्यादीनां तेजसामपि तेजस्वी प्रशस्ततेजाः । द्वादश आत्मानो मूर्तयो यस्य स द्वादशात्मा । ते च दर्शिताः स्मृतौ – इन्द्रो धाता भगः पूषा मित्रोथ वरुणोर्यमा । अर्चिर्विवस्वांस्त्वष्टा च सविता विष्णुरेव च इति ॥ एवंभूतस्त्वमसि । अतस्तुभ्यं नम इति योजना ॥ १५ ॥

 

नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।

ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥

जयाय जयभद्राय हर्यश्वाय नमोनमः ।

नमोनमः सहस्रांशो आदित्याय नमोनमः ॥ १७ ॥

नम उग्राय वीराय सारङ्गाय नमोनमः ।

नमः पद्मप्रबोधाय मार्ताण्डाय नमोनमः ॥ १८ ॥

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।

भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥

तप्तचामीकराभाय वह्नये विश्वकर्मणे ।

नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥

नमः पूर्वायत्यादिश्लोकषट्कमेकान्वयं ॥ पूर्वाय गिरये पूर्वभागस्थगिर्युपलक्षिताय । पश्चिमे गिरये पश्चिमभागस्थपर्वतोपलक्षिताय । जयाय उपासकानां जयकराय । जयतीति जयः जयी तस्मा इति वा । जयभद्राय जयभद्रयोः प्रदात्रे । हर्यश्वाय श्यामाश्वाय । अत्र स्तुतित्वान्नपुनरुक्तिश्चिन्त्या । आदरातिशयेन नमःशब्दस्य द्विरुक्तिः । उग्राय अनुपासकानामुग्राय । विविधमीरयति प्रेरयति प्राणिनश्चेष्टयतीति वीरः तस्मै । सारं शीघ्रं गच्छतीति सारङ्गः तस्मै । एकेन निमिषार्धेन द्विसहस्रयोजनं गच्छतीति पुराणप्रसिद्धिः । ब्रह्मशानाच्युतेशाय ब्रह्मेशानाच्युतानां सृष्टिसंहारस्थितिकर्तॄणामीशाय । परब्रह्मरूपत्वेन स्तूयते असावादित्यो ब्रह्म इति श्रुतिः । अथवा ब्रह्मेशानयोः ब्रह्मरुद्रयोः अच्युतेशः अच्युतनियन्ता । सर्वापत्स्वपि पालक इत्यर्थः । वेदापहारगुरुपातकदैत्यपीडाद्यापद्विमोचनमहिष्ठफलप्रदाता’ इत्यर्थः । ब्रह्मेशायाच्युतेशायेत्यपि पाठः । तस्मै । आदित्यरूपं वर्चो दीप्तिर्यस्य तस्मै आदित्यवर्चसे । भा अस्यास्तीति भास्वान् तस्मै । सर्वभक्षाय सर्वसंहर्त्रे । अतएव तस्मिन्समये रौद्राय वपुषे । तमः अन्धकारं हन्तीति तमोघ्नः । आश्रितशत्रून् हन्तीति शत्रुघ्नः । अमित: अपरिच्छिन्न: आमा स्वरूपं यस्यासौ अभितामा । कृतघ्नं हन्तीतिकृतघ्नघ्नः । देवाय दीप्यमानाय । तप्तचामीकराभाय हिरण्यवपुषे । वह्नये अग्निरूपेण हव्यवाहनाय । विश्वं जगत् कर्म कर्तव्यं यस्य तस्मै विश्वकर्मणे । सर्वजगत्कर्त्रे इत्यर्थः । लोकसाक्षिणे लोकानां जनानां अन्तर्यामितया सुकृतदुष्कृतकर्मसाक्षिणे ॥ १६-२१ ॥

 

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।

पायत्येष तपत्येष वर्पत्येष गभस्तिभिः ॥ २२ ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।

एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥

वेदाश्च क्रतवश्चैव ऋतूनां फलमेव च ।

यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥

एवमादित्यहृदयमुपदिश्य पुनरपितत्प्रतिपाद्यदेवतांस्तौति-नाशयतीत्यादिना श्लोक -त्रयेण ॥ भवतीति भूतं जगत् नाशयति । महाप्रलये पुनस्तदेव सृजति । अत्ययकालनिवृत्तौ । प्रभुः पालकः । पालकत्वमेव प्रपञ्चति – पायतीति । पायति शोषयति । पै शोषणे इति धातुः । सुप्तेषु भूतेषु प्राणिषु परिनिष्ठितः अन्तर्यामित्वेन स्थितः जागर्ति । सकलयज्ञकर्तृत्वफलप्रदत्वान्याह – एष इति ॥ वेदवेद्यत्वमाह – वेदा इति ॥ सर्वकर्मसमाराध्यत्वमाह – क्रतव इति । ऋतुफलप्रदत्वमाह – क्रतूनामिति । लौकिककर्मफलप्रदत्वमाह – यानीति । तेषामिति शेषः । सर्वः सर्वात्मको रविरेव प्रभुर्नियन्ता ॥ २२ – २४ ॥

 

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।

कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।

एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥

अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।

एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७ ॥

इदानीं स्तोत्रस्य फलमाह – एनमिति ॥ कृच्छ्रेषु कष्टेषु । कान्तारेषु भयेषु दुर्गममार्गेषु । भयहेतुषु सत्सु । कश्चिदित्यधिकारिनियमाभावो दर्शितः ॥ २५-२७ ।।

 

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।

धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।

त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥

एतच्छ्रुत्वेत्यादिश्लोकद्वय मेकान्वयं ॥ त्रिराचम्येत्यन्त्याचमनमाद्याचमनस्याप्युपलक्षणं । धारयामास । जप्त्वे त्यत्र आदित्यहृदयमिति शेषः ॥ २८-२९ ॥

 

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।

सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥

युद्धाय युद्धं कर्तुं । तुमर्थाच्च भाववचनात् इति चतुर्थी । सर्वयत्नेन सर्वप्रकारेण यत्नेन ॥ ३० ॥

 

अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥

प्रहृष्यमाणः प्रहृष्यन् । पुलकित इति यावत् । निशिचरपतिरिति । तत्पुरुषे कृति बहुलं इति सप्तम्या अलुक् । रविः आत्मानं स्तुवन्तं रामं निरीक्ष्य मुदितमनाः स्तोत्रेण संतुष्टमनाः प्रहृष्यमाणः सन् निशिचरपतेः संक्षयं विदित्वा अनुगृह्य सुरगणमध्यगतः सन् त्वर रावणवधं प्रति त्वरस्वेति वचोवदत् । अत्र सुरगणमध्यगत इत्यनेन युद्धदर्शनार्थं स्वमण्डलावतीर्य रामसमीपे गगने स्थित्वा स्तोत्रफलमनुगृहीतवानित्युच्यते । ननूत्तरत्र ब्रह्मरुद्रादयः सर्वे एकवाक्यतया भवान्नारायणो देव इत्यादिना विष्णोरेव सर्वस्मात्परत्वं महता ग्रन्थेन प्रतिपादितवन्तः । अत्र सूर्यस्यैव सर्वोत्तरत्वमुच्यते कथमिदं संगच्छते । उच्यते । यथा मधुविद्यायामादित्यस्य परतया प्रतिपादनेपि तदन्तर्यामिण्येव परमात्मनि मधुविद्यायास्तात्पर्यमिति बादरायणो ब्रह्ममीमांसायामुक्तवान् । तथास्य मन्त्रस्यादित्यान्तर्यामिविषयतया सर्वमिदं संगच्छते । नारायणपरत्वं ह्युपक्रमप्रभृत्योपसंहारमविवादमिति पूर्वमेव बहुलं प्रतिपादितम् । ब्रह्मेशानाच्युतेशायेत्येतदपि मूर्तित्रयस्य परमात्मजन्यत्वादुपपद्यते । अयं च सर्गः केषुचित्कोशेषु न दृश्यते । उडारिणा न व्याख्यातश्च । आरम्भात्प्रभृति प्रबन्धप्रतिपादितनारायणपरत्वविरुद्धं चात्र प्रतिभाति सूर्यपरत्वं । अस्मिंश्चकाण्डे त्रिंशदुत्तरशतसर्गा उडारिणा गणिताः एतदन्तर्भावे एकत्रिंशदुत्तरशतसर्गास्तेन गणिता भवेयुः ॥ ३१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तोत्तरशततमः सर्गः ॥ १०७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.