26 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः

          वानरबलावलोकनाय शुकसारणाभ्यांसहोच्चप्रासाद मारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तद्बलपराक्रमवर्णमपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्
निशम्य रावणो राजा प्रत्यभाषत सारणम्
।। ।।

अथ रावणाय सारणेन वानरयूथपतीनां वीर्यादिकथनपूर्वकं तत्प्रदर्शनं षड्विंशे-तदिति  अक्वीबं अकातरं । प्रत्यभाषत अनिन्ददित्यर्थः ॥ १ ॥

यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः
नैव सीतां प्रदास्यामि सर्वलोकभयादपि
।। ।।

अभियुञ्जीरन् युद्ध्येरन् । सर्वलोकभयात् सर्वलोकेभ्यो भयात् ।। २ ।।

 

त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम्
प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे

को हि नाम सपत्नो मां समरे जेतुमर्हति
।। ।।

त्वमित्यादिसार्धश्लोकः ॥ सपत्नः शत्रुः ।। ३ ।।

 

इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डरम्

बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
।। ।।

इत्युक्त्वेत्यादिसार्धश्लोकः ॥ ततः तस्मात्पूर्वस्थानात् । बहुतालसमुत्सेधं अनेकतालवृक्षतुल्यौन्नत्यं । यद्वा वितताङ्गुष्ठमध्यमामितस्तालः । तदाह सज्जनः – प्रादेशतालगोकर्णवितस्त्यश्च यथाक्रमम् । भवन्ति वितताङ्गुष्ठप्रदेशिन्यादिभिः सह इति  अत्र द्वितीयो रावणशब्दो रावयतीति व्युत्पत्त्या क्रियानिमित्तकः । दिदृक्षया वानरबलदिदृक्षया ॥ ४ ॥

 

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः
पश्यमानः समुद्रं च पर्वतांश्च वनानि च

ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः
।। ।।

चराभ्यां चाराभ्यां । क्रोधमूच्छितः क्रोधेन व्याप्तः । पृथिवीदेशं त्रिकूटाधः प्रदेशं ।। ५ ।।

 

तदपारमसङ्ख्येयं वानराणां महद्बलम्
आलोक्य रावणो राजा परिपप्रच्छ सारणम्
।। ।।

अपारं उत्तरावधिरहितं ॥ ६ ॥

 

एषां वानरमुख्यानां के शूराः के महाबलाः
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः
।। ।।

एषामिति । इयं निर्धारणेषष्ठी ॥ ७ ॥

 

केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
सारणाचक्ष्व
तत्त्वेन के प्रधानाः प्लवङ्गमाः ।। ।।

केषामिति । वचनमिति शेषः । प्रधानाः सेनापतयः ॥ ८ ॥

 

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः
।। ।।

वचनं निशम्येति शेषः ॥ ९ ॥

 

एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः
यूथपानां सहस्राणां शतेन परिवारितः
।। १० ।।

यस्य घोषेण महता सप्राकारा सतोरणा
लङ्का प्रवेपते सर्वा सशैलवनकानना
।। ११ ।।

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः
।। १२ ।।

त्रिभिर्नीलं वर्णयति- एष इत्यादि ॥ य एष इत्यन्वयः। तिष्ठते तिष्ठति ॥ १० – १२ ॥

 

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
लङ्कामभिमुखः
क्रोधादभीक्ष्णं च विजृम्भते ।। १३ ।।

अथाङ्गदं वर्णयति- बाहू इत्यादिना स्वेनानीकेन दुर्जय इत्यन्तेन ॥ बाहू प्रगृह्य उत्क्षिप्य । अभि उद्दिश्य मुखं यस्यासावभिमुखः । विजृम्भते जृम्भणं करोति ॥ १३ ॥

 

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः

यस्य लाङ्गूलशब्देन स्वनन्ती प्रदिशो दश ।। १४ ।।

पद्मकिञ्जल्कसन्निभः पद्मकेसरवत्पीतवर्ण इत्यर्थः । स्फोटयति भूमौ ताडयति । अभिसंरब्धः कुपितः । प्रस्वनन्तीत्यन्वयः ॥ १४ ॥


एष वानरराजेन सुर्ग्रीवेणाभिषेचितः

यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे
।। १५ ।।

अभिषेचितः अभिषिक्तः । आह्वयति आह्वयते । स्पर्धाविषयेऽप्यात्मनेपदाभाव आर्षः ॥ १५ ॥

 

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।

राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ।। १६ ।।

पराक्रान्तः पराक्रमितुमुद्यतः ।। १६ ।।

 

एतस्य सा मतिः सर्वा यदृष्टा जनकात्मजा ।

हनूमता वेगवता राघवस्य हितैषिणा ।। १७ ।।

एतस्येति ॥ हनूमता सीता दृष्टेति यत्सा मतिः एतस्य अङ्गदस्य । एतद्बुद्धिमूलं हनुमत: सीतादर्शन मितिभावः । अङ्गदपुरस्कारेण हनुमतः समागमात् ।। १७ ।।

 

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।

परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ।। १८ ।।

स्वेनानीकेनेति दुर्जयत्वकारणोक्तिः । अतो न पुनरुक्तिः ॥ १८ ॥

 

अनु वालिसुतस्यापि बलेन महता वृतः ।

वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ।। १९ ।।

अनु वालीति । एतस्योत्तरार्धं वीरस्तिष्ठति संग्राम इति । वालिसुतस्य अनु पश्चात् । सेतुहेतुः सेतुकर्ता । संग्रामे संग्रामनिमित्तं ॥ १९ ॥

 

ये तु विष्टभ्य गात्राणि क्ष्वेयन्ति नदन्ति च
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः
।। २० ।।

एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः
अष्टौ शतसहस्राणि दशकोटिशतानि च
।। २१ ।।

य एनमनुगच्छन्ति वीराश्चन्दनवासिनः
षैवांशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। २२ ।।

नलपरिवारानाह—ये त्वित्यादिना मर्दितुमित्यन्तेन ॥ लोकत्रयमेकान्वयं । विष्टभ्य उन्नम्य । क्ष्वेलयन्ति सिंहनादं कुर्वन्ति । नदन्ति गर्जन्ति । उत्थाय आसनादिति शेषः । विजृम्भन्ते कोपेन गात्रविना कुर्वन्ति । य एवंविधा वानराः ये च चन्दनवासिनः चन्दनवनवासिनः । एते एनं नलमनुगच्छन्तीति संबन्धः । चन्दनवानरा इति पाठे मध्यमपदलोपिसमासः । चन्दनवासिनो वानरा इति । एषैवेति सन्धिरार्ष: । आशंसते प्रार्थयते ॥ २० – २२ ।।

 

श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः
बुद्धिमान्वान
रो वीरस्त्रिषु लोकेषु विश्रुतः ।। २३ ।।

तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः
विभजन्वानरीं सेनामनीकानि प्रहर्षयन्
।। २४ ।।

अथ द्वाभ्यां श्वेताख्यं वानरं वर्णयति – श्वेत इत्यादि । अन्वर्थनामेत्याह – रजतेति । चपल: युद्धचपलः । अनीकानि पुनर्गच्छतीत्यन्वयः । विभजन् निबिडां सेनां भित्त्वा गच्छन्नित्यर्थः । अत्र चपल इत्यनेन अद्यैव लङ्कां ध्वंसयामीति निवेदनार्थं गत्वा तेन सान्त्वितः पुनर्गच्छतीत्यवगम्यते ॥ २३ – २४ ॥

 

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः
।। २५ ।।

चतुर्भिः कुमुदं वर्णयति – यः पुरेत्यादि । पुरेत्यनेनाद्य सुग्रीवसमीप एव वसतीति गम्यते । पर्येति परितः संचरति । नाम्ना संकोचनो नाम यः प्रसिद्धः तं पर्वतमित्यन्वयः ॥ २५ ॥

 

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः
योऽसौ शतसहस्राणां सहस्रं परिकर्षति
।। २६ ।।

तत्र गोमतीतीरे । परिकर्षति आनयति ॥ २६ ॥

 

यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णाघोरकर्मणः
।। २७ ।।

घोरकर्मणो यस्य लाङ्गूलमाश्रिताः वाला: रोमाणि । दैर्ध्यस्यावधिमाह – बहुव्यामा इति । व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरं इत्यमरः ॥ २७ ॥

 

अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति
षोप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। २८ ।।

अदीन इत्यत्र य इत्युपस्कार्यं ॥ २८ ॥

 

यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः
निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा
।। २९ ।।

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्
राजन्सततमध्यास्ते रम्भो नामैष यूथपः
।। ३० ।।

शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ।

यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः ।
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा
।। ३१ ।।

अथ सार्धैस्त्रिभी रम्भं वर्णयति — यस्त्वेष इत्यादि ।। २९ – ३१ ॥

 

यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः
न च संविजते मृत्योर्न च यू
द्धाद्विधावति ।। ३२ ।।

प्रकंपते च रोषेण तिर्यक्च पुनरीक्षते ।

पश्यँल्लाङ्गूलमपि च क्ष्वेलते च महाबलः ।। ३३ ।।

हाजवो वीतभयो रम्यं साल्वेयपर्वतम्
राजन्सततमध्यास्ते शरभो नाम यूथपः
।। ३४ ।।

एतस्य बलिनः सर्वे विहारा नाम यूथपाः
राजञ्शतसहस्राणि चत्वारिंशत्तथैव च
।। ३५ ।।

अथ शरभं वर्णयति – यस्तु कर्णावित्यादि ॥ संविजते बिभेति ॥ ३२-३५ ॥

 

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति
मध्ये वानरवीराणां सुराणामिव वासवः
।। ३६ ।।

भेरीणामिव संनादो यस्यैष श्रूयते महान्
घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम्
।। ३७ ।।

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः
।। ३८ ।।

अथ पनसं वर्णयति – यस्तु मेघ इत्यादिना ।। ३६-३८ ।।

 

एनं शतसहस्राणां शतार्धं पर्युपासते
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः
।। ३९ ।।

एनं पनसं । येषां यूथपानां यूथानि च भागशः स्वस्वांशासङ्करेण । एनं पर्युपासत इति संबन्धः ॥ ३९ ॥

 

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः
।। ४० ।।

एष दर्दरसङ्काशो विनतो नाम यूथपः
पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम्
।। ४१ ।।

विनतं वर्णयतियस्त्वित्यादि । प्रवल्गन्तीं उत्साहेन लवमानां समुद्रस्य पारे स्थितां । अतएव द्वितीयः सागर इव स्थितामिति शेषः । विनतविशेषणं वा । दर्दरो नाम गङ्गासमीपस्थः पर्वतः । पर्णासां पर्णासाख्यां नदीं ।। ४० – ४१ ॥

 

षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः ।। ४२ ।।

विनतसेनासङ्ख्यामाह – षष्टिरिति ।। षष्टिः शतसहस्राणि प्लवङ्गमाः अस्य विनतस्य बलं सेनेत्यर्थः ॥ ४२ ॥


त्वामाह्वयति युद्धाय
क्रोधनो नाम यूथपः

विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ।। ४३ ।।

एकेन क्रोधनमाह – त्वामिति ॥ उत्तरार्धे अस्येत्यध्याहार्यं । यथायूथानि यथायूथं । अमभावश्छान्दसः । भागशः भागत्वेन स्थिता वानराः विक्रान्ता बलवन्तश्चेति योजना ॥ ४३ ॥

 

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः

अवमत्य सदा सर्वान्वानरान्बलदर्पितान् ।। ४४ ।।
गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते

एनं शतसहस्राणि सप्ततिः पर्युपासते
षैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। ४५ ।।

शेषेण गवयं वर्णयति – यस्त्वित्यादिना । गैरिकं रक्तवर्णधातुविशेषः । धातुर्मनश्शिलाद्यद्रेर्गैरिकं तु विशेषत: इत्यमरः । तद्वर्ण इवाभा यस्येति विग्रहः । गैरिकवर्ण इवाभातीति गैरिकवर्णाभमिति वा । पुष्यति युद्धहर्षादभिवर्धयतीत्यर्थः ॥ ४४-४५ ॥

 

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः
यूथपा यूथपश्रेष्ठा
षां यूथानि भागशः ।। ४६ ।।

उपसंहरति — एत इति ॥ यूथपा : अङ्गदादयः । यूथपश्रेष्ठाः सुग्रीवादयः । एषां यूथपानां यूथानि भागशः पृथक् । विद्यन्त इति शेषः ॥ ४६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः ॥ २

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडिविंशः सर्गः ॥ २६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.