29 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः

शुकसारणकृतशत्रुपक्षप्रशंसनमसहमानेनरावणेन सभर्त्सनं तद्विसर्जनपूर्वकं यथावच्छयनासनादिरामाचरणावगमाय शार्दूलादिचारवरप्रेषणम् ॥ १ ॥ वेषान्तरधारणेनवानर सेनामध्यप्रविष्टैर्विभीषणदृष्टनिवेदितैर्वानरमुष्टिपिष्टैः कृपयारामविमोचितैः शार्दूलादिभिः पुनारावणसमीपगमनम् ॥ २ ॥

शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान्
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम्
।। ।।

लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
।। ।।

[गजं गवाक्षं गवयं मैन्दं द्विविदमेव च ।

अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम् ।। ।।

हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् ।

सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम् ।। ।।]

किंचिदाविग्नहृदयो जातक्रोधश्च रावणः
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ
।। ।।

अथ रावणेन चारप्रेषणादिप्रतिपाद्यत एकोनत्रिंशे – शुकेनेत्यादिश्लोकत्रयं  सर्ववानरराजंचेत्यत्र चकारो हनुमदादिसमुच्चयार्थ: । आविग्नहृदय: भीतहृदयः । तथापि जातक्रोधः परस्तवाकर्णनेन कुपित इत्यर्थः । कथान्ते वचनान्ते ॥ १ – ५ ॥

 

अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ
रोषगद्गदया वाचा संरब्धः परुषं वचः
।। ।।

रोषगद्गदया कोपस्स्वलितया । संरब्धः कुपितः ।। ६ ।।

 

न तावत्सदृशं नाम सचिवैरुपजीविभिः
विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे
प्रभोः ।। ।।

तावत् प्रथमतः । निग्रहप्रप्रहे निग्रहानुग्रहयोः । प्रभोः शक्तस्य । नृपतेः विप्रियं वक्तुं न सदृशं नाम । नामेति नीतिशास्त्रप्रसिद्धिः ॥ ७ ॥

 

रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्
उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्
।। ।।

विप्रियपदोक्तं विशयति रिपूणामिति ॥ अभिवर्ततां अभिवर्तमानानां । अप्रस्तवे अनवसरे । स्तवं वक्तुं सदृशं नाम सदृशं किमु । युद्धारम्भसमयो हि परस्तुत्यनर्ह इति भावः ॥ ८ ॥

 

आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः
सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते

गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्यते ।। ।।

यद्यस्मात् राजशास्त्राणां सारं प्रतिपाद्यसारभूतं । अनुजीव्यं अनुजीविकृत्यं । न गृह्यते न ज्ञायते । अतः वां युवाभ्यां गुरवः महान्तः । वृद्धाः ज्ञानवयश्शीलसंपन्नाः । आचार्या: नीतिशास्त्रोपदेष्टारः । वृथा पर्युपासिताः । तदुपासनफलादर्शनान्निरर्थकमाराधिताइत्यर्थः । ननु चिरोपासितगुरोरज्ञानं नसाम्प्रतं तत्राह – गृहीतो वेति । गृहीतोवार्थः । न विज्ञातः न विशेषेण ज्ञातः । विस्मृत इत्यर्थः । तर्हि कथं ज्ञातृत्वप्रवाद इत्यत्राह – भार इति । ज्ञानस्य भारः ऊह्यते वा । जातमपि ज्ञानं नानुष्ठानपर्यवसायीत्यर्थः । यद्वा ज्ञानस्य भार ऊह्यते । ज्ञानभारभरणाभिमान एव क्रियते न तु तत्कार्यमित्यर्थः ॥ ९ ॥


ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्
।। १० ।।

आवयोरज्ञत्वे कथमेतावत्पर्यन्तमस्मन्मत्यनुसारेण तव राज्यभरणं तत्राह — ईदृशैरिति ॥ ईदृशैः एवं नीतिशास्त्रलेशानभिज्ञैरित्यर्थः । धरामि राज्यमिति शेषः । धृञ् धारणे इति भौवादिको धातुः । धरामि जीवामीति वा ॥ १० ॥

 

किं नु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्
।। ११ ।।

मां परुषं वचो वक्तं युवयोर्मृत्योः सकाशात् भयं नास्ति किंतु । वक्तुं उद्यतयोर्युवयोरिति शेष इत्यप्याहु: । परुषोक्तिमात्रे कुतो मृत्युरित्यत्राह – यस्येति । शासतो मे जिह्वैव शुभाशुभं प्रयच्छति । शासने प्रवृत्तस्य मे जिह्वाचलनमेव मृत्युं श्रेयो वा प्रयच्छतीत्यर्थः ॥ ११ ॥

 

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः
राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः
।। १२ ।।

राजदोषः राजकोपः । दहनस्पृष्टवनपादपस्थितिसंभवादप्यसंभाविता राजदोषस्पृष्टजन -स्थितिरिति भावः । तिष्ठन्ते तिष्ठन्ति ॥ १२ ॥

 

हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसकौ
यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत्
।। १३ ।।

स्वमनः प्रत्याह- हन्यामिति ॥ १३ ॥

 

अपध्वंसत गच्छध्वं संनिकर्षादितो मम
न हि वां हन्तुमिच्छामि स्म
राम्युपकृतानि वाम् ।।१४ ।।

अपध्वंसत स्थानात्प्रच्यवध्वं । परस्मैपदं बहुवचनं चार्षं । गच्छध्वं गच्छत । सन्निकर्षात् दृष्टिविषयात् ॥ १४ ॥


हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ
।। १५ ।।

हतावित्यर्धं ॥ कृतघ्नत्वस्नेहपराङ्मुखत्वे एव तयोर्वधइति भावः ॥ १५ ॥

 

एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ
रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ
।। १६ ।।

प्रतिनन्द्य प्रशस्य । अभिनिस्तृतौ निर्गतौ ।। १६ ।।

 

अब्रवीत्तु दशग्रीवः समीपस्थं महोदरम्
उपस्थापय शीघ्रं मे चारान्नीतिविशारदान्

महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ।। १७ ।।

ततश्चराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात्
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा
।। १८ ।।

चारानुपस्थापयेत्यब्रवीदित्यन्वयः ॥ १७-१८ ॥

 

तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः
चारान्प्रत्ययि
ताञ्शूरान्भक्तान्विगतसाध्वसान् ।। १९ ।।

प्रत्यय एव प्रत्याय: तं प्राप्ताः प्रत्यायिताः तान् । विश्वसनीयानित्यर्थः । विगतसाध्वसान् विगतशत्रुभयान् ॥ १९ ॥

 

इतो गच्छत रामस्य व्यवसायं परीक्षथ
न्त्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ।। २० ।।

व्यवसायं कर्तव्यनिश्चयं । परीक्षथ परीक्षध्वं । शिथिलव्यवसायश्चेदमुं भीषयाम इति भावः । अस्य रामस्य मन्त्रिषु ये अभ्यन्तराः । अन्तरङ्गभूता इत्यर्थः । तेन रामेण प्रीत्या सङ्गताः । मित्रभूता इत्यर्थः । तानपि परीक्षध्वं । तच्छैथिल्ये तान् भेत्स्याम इत्याशयः ॥ २० ॥

 

कथं स्वपिति जागर्ति किमन्यच्च करिष्यति
विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः
।। २१ ।।

कथं स्वपिति किमेक: स्वपिति उत जाग्रद्भिरनेकैरावृतः स्वपिति । आद्ये सुप्ते युद्धं प्रवर्तयिष्याम इति हृदयं । कथंजागर्ति किं चिन्ताकुल: उतानाकुल इत्यर्थ: । आद्ये व्याक्षिप्तं प्रहरिष्यामीत्याकूतं । किमन्यच्च करिष्यति । किं कंचित्कालंविलम्ब्य नगरमुपरोत्स्यति उत सद्य इति । आद्ये क्रमेण वञ्चयिष्यामीति तात्पर्यं । निपुणं प्रच्छन्नमिति यावत् । क्रियाविशेषणमिदं । सर्वं उक्तं स्वापादिकं । अशेषतः सर्वप्रकारेण विज्ञायागन्तव्यं । अशेषतः अशेषैश्चारैरिति वार्थः । अशेषत इत्युत्तरशेषो वा ॥२१॥

 

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते
।। २२ ।।

उक्तमाशयं विवृणोति – चारेणेति ॥ पण्डितैः निपुणैः । वसुधाधिपैः । चारेण चारद्वारेण । अशेषतो विदितः शत्रुः युद्धे स्वल्पेन यत्नेन समासाद्यं निरस्यते ॥ २२ ॥

 

चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्

शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।। २३ ।।

चारा: शार्दूलमग्रतः कृत्वा प्रधानीकृत्य । राक्षसेश्वरं रावणं । प्रदक्षिणं चक्रुः ॥ २३ ॥

 

ततस्ते तं महात्मानं चारा राक्षससत्तमम् ।
कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः
।। २४ ।।

कृत्वा प्रदक्षिणमित्यनुवादो मध्ये विलम्बाभावद्योतनार्थं ॥ २४ ॥

 

ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ
प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ
।। २५ ।।

प्रच्छन्ना: वेषान्तरधारिणः ॥ २५ ॥

 

प्रेक्षमाणाश्चमूं तां च बभूवुर्भय विक्लिबाः ।

ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ।। २६ ।।

भयविक्लबा: भयेन दीनाः । धर्मात्मना राक्षसेन्द्रेण विभीषणेनेत्यर्थः ।। २६ ।।


विभीषणेन तत्रस्था निगृहीता यदृच्छया

शार्दूलो ग्राहितस्त्वेकः पापोयमिति राक्षसः ।। २७ ।।

निगृहीताः तर्जिताइत्यर्थः । ग्राहितः ग्रहणं प्रापितः ॥ २७ ॥

 

मोचितः सोपि रामेण वध्यमानः प्लवङ्गमैः ।

आनृशंस्येन  रामस्य मोचिता राक्षसाः परे ।। २८ ।।

मोचितः प्रहारादितिशेषः ॥ २८ ॥

 

वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः
पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः
।। ३९ ।।

अर्दिताः पीडिताः । विक्रान्तैरित्यत्र विक्रममात्रोक्तेर्लघुविक्रमैरित्यत्र जवमात्रं विक्रमस्य विशेष्यते ॥ २९ ॥

 

ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः
गिरेः सुवेलस्य समीपवासिनं
न्यवेदयन्भीमबलं महाबलाः ।। ३० ।।

बहिर्नित्यचराः परराष्ट्रेषु वृत्तान्तज्ञानाय सदा संचारशीलाः । समीपवासिनमिति पुंस्त्वमार्षं ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.