31 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः

रावणेनमन्त्रिमुखात्ससैन्यरामस्य सुवेलाचलागमनश्रवणान्मन्त्रिभिस्सहालोच्यकर्तव्य निर्धारणेन तद्विसर्जनम् ॥ १ ॥ तथा स्वचोदनया विद्युजिह्वेनमायानिर्मितरामशिरश्शरासनसदृश -शिरश्शरासनप्रदर्शनेन सीताविमोहनम् ॥ २ ॥

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
।। ।।

अथ सीतामोहनमेकत्रिंशे । कथासंघटनाय पूर्व सर्गोक्तमनुवदति – तत इति ॥ स्पष्टः ॥ १ ॥

 

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
जातोद्वेगोऽभवत्किंचित्सचिवा
निदमब्रवीत् ।। ।।

चाराणां चारेभ्यः । जातोद्वेग जातसंभ्रमः । सचिवान् मन्त्रिण: समीपस्थान् ।। २ ।।

 

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः
अयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः
।। ।।

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम्
ततः स
मन्त्रयामास सचिवै राक्षसैः सह ।। ।।

हे राक्षसाः अयं नो मन्त्रकाल: संप्राप्तः इति हेतोः मन्त्रिणः समायान्त्विति इदं वाक्यमब्रवीदिति पूर्वेण संबन्धः । यद्वा इदमब्रवीदित्यस्य वाक्यान्तस्थेनेतिशब्देन संबन्धः । राक्षसा इत्युत्तरशेषः । अथवा हे मन्त्रिणः भवन्तः आयान्तु समीपमिति सचिवानब्रवीत् । राक्षसा इति मन्त्रिविशेषणं । सचिवै राक्षसैरित्यनुवादात् । सुसमाहिताः नीतिकुशला इत्यर्थः ॥ ३-४ ॥

 

मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम्
विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम्
।। ।।

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्
मायाविदं महामायः प्राविशद्यत्र मैथिली
।। ।।

विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः
मोहयिष्यामहे सीतां मायया जनकात्मजाम्
।। ।।

समनन्तरं रामस्य समीपागमनानन्तरं । यत् क्षमं कर्तुमुचितं तन्मन्त्रयित्वेति योजना ॥ ५-७ ॥

 

शिरो मायामयं गृह्य राघवस्य निशाचर
त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ।। ।।

गृह्य गृहीत्वा ॥ ८ ॥

 

एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः

[दर्शयामास तां मायां सुप्रयुक्तां स रावणे ।]
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम्
।। ।।

तस्य तस्मिन् ॥ ९ ॥

 

अशोकवनिकायां तु सीतादर्शनलालसः

नैर्ऋतानामधिपतिः संविवेश महाबलः ।। १० ।।

ततो दीनामदैन्यार्हां ददर्श धनदानुजः
अधोमुखीं शोकपरामुपविष्टां महीतले
।। ११ ।।

लालसः साभिलाष: ॥ १०-११ ।।

 

भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्
उपास्यमानां घोराभी राक्षसीभि
रितस्तः ।। १२ ।।

राक्षसीभिर्वृतां सीतां पूर्णचन्द्रनिभाननाम् ।

उत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ।। १३ ।।

भूशणैरुत्तमैः कैश्चिन्मङ्गलार्थमलंकृताम् ।

चरन्तीं मारुतोद्धूतां क्षिप्तां पुष्पलतामिव ।। १४ ।।

हर्षशोकान्तरे मग्नां विषादस्य विलक्षणाम् ।

स्तिमितामिव गाम्भीर्यान्नदीं भागीरथीमिव ।। १५ ।।

उपास्यमानां अनुव्रतां ॥ १२-१५ ।।

 

उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन्
इदं च वचनं धृष्टमुवाच जनकात्मजाम्
।। १६ ।।

प्रहर्ष नाम कीर्तयन् प्रहर्षवात कीर्तयन्निव । नामेत्यपरमार्थे ॥ १६ ॥

 

सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे
खरहन्ता स ते भर्ता राघवः समरे हतः
।। १७ ।।

वल्गसे जल्पसि । मां निष्ठुरमवद इत्यर्थः ॥ १७ ॥

 

छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया
व्यसनेनात्मनः सीते मम भार्या भविष्यसि
।। १८ ।।

मूलं आधारभूतं । सर्वतः कार्येन व्यसनेन निमित्तेन । प्रार्थनां विनेत्यर्थः ॥१८॥

 

विसृजेमां मतिं मूढे किं मृतेन करिष्यसि ।

भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।। १९ ।।

मृतेन रामेण । भवस्वेत्यात्मनेपदमार्षं ॥ १९ ॥

 

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि
शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा
।। २० ।।

निवृत्तार्थे एतावत्पर्यन्तं निवृत्तपुरुषार्थे । पण्डितमानिनि । क्यङ्मानिनोश्च इति ह्रस्वत्वं ॥ २० ॥

 

समायातः समुद्रान्तं मां हन्तुं किल राघवः
वानरेन्द्रप्रणीतेन बलेन महता वृतः
।। २१ ।।

समुद्रान्तं समुद्रतीरं । प्रणीतेन आनीतेन ॥ २१ ॥

 

निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्
बलेन महता रामो व्रजत्यस्तं दिवाकरे
।। २२ ।।

स रामः समुद्रस्योत्तरं तीरं महता बलेन पीड्य पीडयित्वा । दिवाकरे अस्तं प्रयाति सति निविष्टः ।। २२ ।।

 

अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्
सुख
संसुप्तमासाद्य चारितं प्रथमं चरैः ।। २३ ।।

कार्त्स्न्येऽथशब्दः । अध्वनि परिश्रान्तं अतएव स्थितं । अर्धरात्रे सुखसंसुप्तं बलं प्रथममासाद्य चारैश्चारितमभूत् ॥ २३ ॥

 

तत्प्रहस्तप्रणीतेन बलेन महता मम
बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः
।। २४ ।।

यत्र बले । रामः सलक्ष्मणोवस्थितः । तदस्य बलं प्रहस्तप्रणीतेन महता बलेन हतं ॥ २४ ॥

 

ट्टिशान्परिघांश्चक्रान्दण्डान्खड्गांन्महायसान्
बाणजालानि शूलानि भास्वरान्कूटमुद्गरान्
।। २५ ।।

यष्टीश्च तोमराञ्शक्तीश्चक्राणि मुसलानि च  
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः
।। २६ ।।

पट्टिशानित्यादिश्लोकद्वयं ॥ पट्टिशान् असिविशेषान् । परिधान् अर्गलानि । चक्रान् क्षुद्रचक्राणि । महायसान् महायसनिर्मितान् । दण्डविशेषणमेतत् । कूटमुद्गरान् अयः कीलकीलितगदाः । यष्टीः केवलदण्डान् । तोमरान् स्थूलाग्रगदाः । प्रासान् क्षेपणी: । चक्राणि महाचक्राणि । पट्टिशादीनुद्यम्योद्यम्य वानरेषु निपातिताः । त इति शेषः ॥ २५-२६ ॥

 

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना
।। २७ ।।

प्रमथ्नाति प्रहरतीति प्रमाथिः तेन । कृतहस्तेन शिक्षितहस्तेन कर्त्रा । महासिना करणेन । असक्तं अविलम्बितंयथा भवति तथा । छिन्नमित्यन्वयः ॥ २७ ॥

 

विभीषणः समुत्पत्य निगृहीतो यदृच्छया
दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह
।। २८ ।।

विभीषणः समुत्पत्य गतोपि निगृहीत इत्यर्थः । प्रव्राजित: पलायितः ॥ २८ ॥

 

सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः
निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः
।। २९ ।।

श्रीवया उपलक्षित इति शेषः ॥ २९ ॥

 

जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि
ट्टिसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ।। ३० ।।

जानुभ्यां जानुनोः । निहतः । अथ पट्टिशैश्छिन्न : जाम्बवान् निकृत्तः पादपइवाभूत् ॥ ३० ॥

 

मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ
निश्वसन्तौ रुदन्तौ च रुधिरेण
परिप्लुतौ

असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ ।। ३१ ।।

व्यायतौ दीर्घशरीरौ । मध्ये कटिस्थाने ॥ ३१ ॥


नुतिष्ठति मेदिन्यां पनसः पनसो यथा ।। ३२ ।।

अनुतिष्ठति शेते । पनसः पनसफलं । तथा खण्डित इत्यर्थः ॥ ३२ ॥

 

नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः
कुमुदस्तु महातेजा निष्कू
जः साकैः कृतः ।। ३३ ।।

निष्कूजः निश्शब्दः ॥ ३३ ॥

 

अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः
पातितो रुधिरोद्गारी क्षितौ निपति
ताऽङ्गदः ।। ३४ ।।

राक्षसैरासाद्य शरैश्छिन्नः निपतिताङ्गदोङ्गदः क्षितौ पतित: ॥ ३४ ॥

 

हरयो मथिता नागै रथजातैस्तथापरे
शायिता मृदिता
श्चाश्वैर्वायुवेगैरिवाम्बुदाः ।। ३५ ।।

शायिताः शयानाः । अपरे हरयः वायुवेगैरम्बुदा इव नागै रथजातैश्च मृदिताः ॥ ३५ ॥

 

प्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः
अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः
।। ३६ ।।

सागरे पतिताः केचित्केचिद्गगनमाश्रिताः
ऋक्षा वृक्षानुपारूढा वान
रीं वृत्तिमाश्रिताः ।। ३७ ।।

त्रस्ताः अत एवाभिद्रुताः । जघन्यतः पृष्ठतः । हन्य माना: अपरे हरयः सिंहै: द्विपा इव प्रहृताः ।। ३६ – ३७ ।।

 

सागरस्य च तीरेषु शैलेषु वनेषु च
पिङ्ग
लास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ।। ३८ ।।

एवं तव हतो भर्ता ससैन्यो मम सेनया
क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः
।। ३९ ।।

पिङ्गलाः वानराः । विरूपाक्षैः वानरैः ॥ ३८-३९ ।

 

ततः परमदुर्धर्षो रावणो राक्षसाधिपः
सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत्
।। ४० ।।

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय
येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम्
।। ४१ ।।

राक्षसीं समीपवर्तिनीं कांचित् ॥ ४०-४१ ॥

 

विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम्
प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः
।। ४२ ।।

तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्
विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्
।। ४३ ।।

ततः राक्षसीं प्रत्याज्ञापनवचनश्रवणानन्तरमेव ॥ ४२-४३ ॥

 

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु
।। ४४ ।।

पश्चिमामस्थां । मरणमित्यर्थः ॥ ४४ ॥

 

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम्
उप
निक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ।। ४५ ।।

उप समीपे । अन्तरधीयत अपागच्छत् ॥ ४५ ॥

 

रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्
त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह
।। ४६ ।।

इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम्
इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम्
।। ४७ ।।

चिक्षेप आचकर्ष । विद्युजिह्वहस्तादित्यर्थः त्रिषु लोकेषु विख्यातं । वैष्णवत्वादितिभावः ॥ ४६–४७ ॥

 

स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः
विदेहराजस्य सुतां यशस्विनीं
ततोऽब्रवीत्तां भव मे वशानुगा ।। ४८ ।।

विद्युजिह्वेत्यत्र तलोप आर्ष: । सहैव युगपदेव । विनिकीर्य शिरोधनुश्च युगपत्सीतायाः पुरतः स्थापयित्वेत्यर्थ: । विद्युजिह्वः शिरः प्रक्षिप्तवान् स्वयं धनुरिति ज्ञेयं । वशानुगेत्यनन्तरमितिकरणं द्रष्टव्यं ॥ ४८ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥ ३१

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.