125 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः

विभीषणेनरामंप्रति स्वसमानीतपुष्पकप्रदर्शनपूर्वकं स्वकर्तव्य निवेदनप्रार्थना ॥ १ ॥ रामेणतंप्रति वानरकृतोपकारस्मारणपूर्वकं वस्त्रालंकारादिभिस्तत्संमाननचोदना ॥ २ ॥ तथा विभीषणेनपूजितेषुसत्सुतेषु सीतालक्ष्मणाभ्यांसह पुष्पकारोहणेन सुग्रीवविभीषणादीनां स्वस्वावासेषुसुखावस्थानचोदनपूर्वकं स्वस्यायोध्यागमनाभ्यनुज्ञानयाचनम् ॥ ३ ॥ तथा सुग्रीवविभीषणादिभिः स्वेषामयोध्याऽऽगमनेन स्वाभिषेकावलोकनकुतूहलनिवेदने स्वाज्ञयापुष्पकारूढैस्तैस्सहायोध्यांप्रति प्रस्थानम् ॥ ४ ॥

 

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।

अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ १॥

अथ वानरसेनासंमाननं – उपस्थितमित्यादि ।। तं दृष्ट्वा दर्शयित्वा । तत्कृत्वेति वा पाठः । प्रत्युवाच विमानमागतमितीति शेषः । स त्विति द्वितीयश्लोकसंग्रहो वायं श्लोकः ॥ १ ॥

 

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।

अब्रवीत्वरयोपेतः किं करोमीति राघवम् ॥ २ ॥

त्वरयोपेतः आदरोपेत इत्यर्थः । किं करोमीति । इतः परं किं करवाणीत्यर्थः ॥ २ ॥

 

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।

विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ३ ॥

लक्ष्मणस्योपशृण्वतः लक्ष्मणसंमतिपूर्वकमित्यर्थः ॥ ३ ॥

 

कृतप्रयत्नकर्माणो विभीषण वनौकसः ।

रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ॥ ४ ॥

प्रयत्नकर्म प्रयत्नसाध्यं कर्मेत्यर्थः । अर्थैः प्रयोजनैः वस्त्रादिभिरित्यर्थः ॥ ४ ॥

 

सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।

हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ ५ ॥

अजिता पूर्वं सुरादिभिरप्यजिता । तव लङ्काराज्यप्राप्तिरेव तदधीत्यर्थ: । हृष्टैः मयि प्रीतिमद्भिरित्यर्थः ॥ ५ ॥

 

त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।

धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥ ६ ॥

त इम इत्यर्धोक्तं भङ्ग्यन्तरेणाह- धनरत्नेति ॥ ६ ॥

 

एवं संमानिताश्चैते मानार्हा मानद त्वया ।

भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ ७ ॥

निर्वृताः सुखिताः । निर्वृत्ता इति पाठे निष्पन्नाः । परिपूर्णा इति यावत् ॥ ७ ॥

 

त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् ।

सर्वे त्वामवगच्छन्ति ततः संबोधयाम्यहम् ॥ ८ ॥

अर्थव्ययेन खेदो मा भूदित्याह- त्यागिनमिति ॥ संग्रहीतारं घनप्रदानेन मित्रसंग्रहकारिणमित्यर्थः । संग्रहार्थं त्यागित्वमुक्त्वा दयया त्यागित्वमाह – सानुक्रोशमिति । यशस्विनं त्यागकृतयशोवन्तं । संबोधयामि न तु चोदयामीत्यर्थः ॥ ८ ॥

 

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।

त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥ ९ ॥

सैनिकसंमानाकरणे दोषमाह – हीनमिति ॥ नृपतिं स्वामिनमपि । रतिगुणैः प्रीतिकरैरौदार्यादिगुणैः हीनं । अभिहन्तारं हिंसनशीलं । प्रसादं विना क्रोधैकनिरतमिति यावत् । तं नरेश्वरं सैन्याः संविग्नाः आहवे त्यजन्तीति योजना ॥ ९ ॥

 

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।

रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥ १० ॥

संविभागेन यथार्हमंशकल्पनया । समतया प्रदाने अधिकानां कोपप्रसङ्गादिति भावः ॥ १० ॥

 

ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।

आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ ११ ॥

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।

लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १२ ॥

अब्रवीच्च विमानस्थः पूजयन्सर्ववानरान् ।

सुग्रीवं च महावीर्यं काकुत्स्थ: सविभीषणम् ॥ १३ ॥

तत इत्यादिश्लोकद्वयमेकान्वयं ॥ ततः पूजानन्तरं ततः पूजादर्शनादेव हेतोरिति ततःशब्दद्वययोजना । लज्जमानां सदस्यङ्कारोहणाय लज्जन्तीं । रामेणाङ्कारोपणं च स्त्रीसहायरहितत्वात् । धनुष्मता रामधनुर्धारिणा ॥ ११-१३ ॥

 

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।

अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ १४ ॥

अब्रवीच्चेत्यत्र संग्रहेणोक्तं विवृणोति – मित्रेत्यादिना ॥ वानरान्प्रत्याह – मित्रेति ॥ १४ ॥

 

यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।

कृतं सुग्रीव तत्सर्वं भवताऽधर्मभीरुणा ॥

किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥ १५ ॥

सुग्रीवं प्रत्याह- यत्त्वित्यादिना ॥ सुहृदा शोभनहृदयेन । वाशब्द एवकारार्थ: । अधर्मभीरुणेति च्छेदः ॥ १५ ॥

 

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।

न त्वां धर्पयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ १६ ॥

अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।

अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ॥ १७ ॥

एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।

ऊचुः प्राञ्जलयो रामं राक्षसञ्च विभीषणः ॥ १८ ॥

विभीषणं प्रत्याह- स्वेति ॥ स्वराज्ये वस । न तु परकीयं रावणवदाक्रमितव्यं । अतो जनस्थानरक्षिणः समानेतव्या इति भावः ॥ १६-१८ ॥

 

अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।

उद्युक्ता विचरिष्यामो वनानि नगराणि च ॥ १९ ॥

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।

अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत ॥ २० ॥

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।

अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् ॥ २१ ॥

उद्युक्ता: सावधानाः । जनपदपीडामकुर्वन्त इत्यर्थः ।। १९ – २१ ।।

 

प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ।

सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ २२ ॥

क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ।

त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ २३ ॥

प्रियात्प्रियतरमिति ॥ सीतालाभः प्रियं । भरतदर्शनं प्रियात्प्रियं । भवद्भिः सह पुरप्रवेशः प्रियात्प्रियतरमित्यर्थः ।। २२-२३ ।।

 

ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ।

अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः ॥ २४ ॥

शीघ्रं शीघ्रगमिति विमानविशेषणं । त्वरन्निति सुग्रीवविशेषणात् ॥ २४ ॥

 

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।

राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥ २५ ॥

आसनं वाहनं ॥ २५ ॥

 

ययौ तेन विमानेन हंसयुक्तेन भास्वता ।

प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २६ ॥

हंसयुक्तेन प्रतिमारूपहंसयुक्तेन । प्रतीतः श्लाघितः ॥ २६ ॥

 

ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।

यथासुखमसंबाधं दिव्ये तस्मिन्नुपाविशन् ॥ २७ ॥

यथासुखमसंबाधमिति पदद्वयेन दिव्यस्य पुष्पकस्य अपेक्षितावकाशप्रदत्वं गम्यते ॥ २७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.