04 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः

सुग्रीवेणरामचोदनयातदुक्तप्रकारेणवानर सैन्यानांसुमुहूर्तेलङ्कांप्रतिप्रस्थानायाज्ञापनम् ॥ १ ॥ सुग्रीवादिभिर्हनुमदङ्गदारूढाभ्यांरामलक्ष्मणाभ्यांसहरामोक्तप्रकारेण सर्वतः सेनारक्षण- पूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ २ ॥ प्रयाणसमयेलक्ष्मणेनरामंप्रति स्वपरजयापजयसूचक -शुभाशुभशकुनप्रदर्शनपूर्वकंसमाश्वासनम् ॥ ३ ॥ रामेणसुग्रीवादिभिःसह क्रमेणमलयाद्यति -क्रमेण महेन्द्रगिरिमेत्यतच्छिखरारोहणेनसागरावलोकनम् ॥ ४ ॥ हनुमदंसादवतीर्यसमुद्र -वेलावनमुपगतेनरामेणसुग्रीवं प्रतिसेनासंनिवेशन नियोजनपूर्वकं -सागरतरणोपाय निर्धारणायमन्त्रचोदना ॥ ५ ॥

श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः
।। ।।

एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता कथिते रामः कियन्मात्रमिदमिति न्यकृत्य तदानीमेव दण्डयात्रामाज्ञापयति- श्रुत्वेति ॥ महातेजाः महाबलः । सत्यपराक्रमः अमोघविक्रमः । आभ्यां निर्भयले हेतुरुक्तः । अब्रवीत् सुप्रीवमिति शेषः ॥ १ ॥

 

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः
क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते
।। ।।

निवेदयसे हनुमन्मुखेन निवेदयसि । मथिष्यामि शरैर्ध्वंसयिष्यामि ॥ २ ॥

 

अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः
।। ।।

कुत इत्यत्राह – युक्त इति । युक्तः यात्रार्हः । तत्र हेतुः । विजय: विजयावहः । विजयावहत्वे हेतुमाह – दिवाकरः । मध्यं दिने मध्यं प्राप्तः । अभिजिन्मुहूर्त इत्यर्थः । तदुक्तं विद्यामाधवीये—आर्द्रोरगमित्रमखावसुजलविश्वाभिजिद्विरिञ्चेन्द्राः । ऐन्द्राग्निमूलवरुणार्यमभगतारा दिवा मुहूर्ताः स्युः इति ॥ नन्वभिजिन्मुहूर्ता दक्षिणयात्रासु निषिद्धाः । यथा ज्यौतिष्क रत्नाकरे –  भुक्तौ दक्षिणयात्रायां प्रतिष्ठायां द्विजन्मनि । आधाने च ध्वजारोहे मृत्युदः स्यात्सदाभिजित् इति ॥ उच्यते । लङ्का हि दक्षिणपूर्वस्यां किष्किन्धायाः । अतो नेयं दक्षिणयात्रेति नोक्तदोषः ॥ ३ ॥

 

अस्मिन्मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे ।

सीतां हृत्वा तु मे क्कासौ यास्यति यास्यतः ।। ।।

मुहूर्तविशेषे प्रयाणस्य फलं दर्शयति — अस्मिन्निति ।। दिवाकरे मध्यं प्राप्ते विजयाख्ये अस्मिन्मुहूर्ते यास्यतो मे यास्यति मयि । असौ रावणः । सीतां हृत्वा जातु कदाचित् क्व यास्यति । यत्र कुत्रापि यान्तं तं हनिष्यामीत्यर्थ: । सीतां हृत्वा तु मे यात्विति पाठे यातु राक्षस: नैर्ऋतो यातुरक्षसी इत्यमरः । यद्वा यातु गच्छतु । के यास्यतीत्यन्वयः ॥ ४ ॥

 

सीता श्रुत्वाभियानं मे आशामेष्यति जीविते ।

जीवितान्तेमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ।। ।।

अद्यैव सागर तरणोपायचिन्तां विना निर्गमस्य फलमाह -सीतेति ॥ मे अभियानं प्रस्थानं । सीता श्रुत्वा जीविते आशामेष्यति । श्रवणं च त्रिजटादिभ्य इति ज्ञेयं । निर्गमं विना केवलं विचाराकुलेष्वस्मासु जीविते सा निराशा स्यादिति भावः । कथमिव । विषं पीत्वा आतुरः पीडितः । पुरुषः जीवितान्ते प्राणात्यये प्राप्ते । अमृतं स्पृष्ट्वेव ॥ ५ ॥

 

उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
।। ।।

तर्हि कदाऽस्माभिः प्रस्थाप्यं तत्राह – उत्तरेति ॥ अद्य दिने उत्तराफल्गुनीनक्षत्रं वर्तते । श्वः उत्तरदिने । हस्तेन योक्ष्यते । चन्द्र इति शेषः । हस्तो रामस्य निधनतारा । उत्तराफल्गुनी तु साधनतारा । अतोऽद्यैव सर्वानीकसमावृताः सन्तः अभिप्रयाम गच्छेम । अत्रोत्तराफल्गुनीत्यनेन स दिवसः फाल्गुनपौर्णमासीत्यवगम्यते । इदमुत्तरत्र प्रतिपादयिष्यते ॥ ६ ॥

 

[मुहूर्तेन च युक्तेन प्रस्थानमभिरोचय] ।

निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे
निहत्य रावणं सीतामानयिष्यामि जानकीम्
।। ।।

यानि निमित्तानि धन्यानि तानि प्रादुर्भवन्ति । अतो रावणं निहत्य सीतामानयिष्यामि । जानकीमिति विशेषणेन जनकप्रीत्यर्थं चावश्यं सा आनेतव्येति व्यज्यते ॥ ७ ॥

 

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम
विजयं समनुप्राप्तं शंसतीव मनोरथम्
।। ।।

उपरिष्टात् उपरि । स्फुरमाणमिदं मम नयनं । मनोरथं मनोरथविषयभूतं जयं । समनुप्राप्तं सम्यक्समीपे प्राप्तं । शंसतीव । स्पष्टं बोधयतीत्यर्थः । तथोक्तं ज्योतिश्शास्त्रे नेत्रस्याधरस्फुरणमसकृत्सङ्गरे भङ्गहेतुर्नेत्रोपान्ते हरति नयनं नेत्रमूले च मृत्युः । नेत्रस्योर्ध्वं हरति सकलं मानसं दुःखजातं वामे चैवं फलमविकलं दक्षिणे वैपरीत्यं इति ॥ एवं वचने विद्यमाने दक्षिणनयनमिति व्याख्यानं चिन्त्यं ॥ ८ ॥

 

ततो वानरराजेन लक्ष्मणेन च पूजितः ।

उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।। ।।

पूजितः युक्तमिति श्लाघितः । अर्थकोविदः नीतिशास्त्रनिपुणः – ॥ ९ ॥

 

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्
वृतः शतसहस्रेण वानराणां तरस्विनाम्
।। १० ।।

नीतिशास्त्रमनुस्मरन् सेनासंविधानं दर्शयति — अग्र इति ॥ १० ॥

 

फलमूलवता नील शीतकाननवारिणा
पथा मधुमता चाशु सेनां सेनापते नय
।। ११ ।।

मार्गमवेक्षितुं यात्विति सुग्रीवं प्रत्युक्तमात्रेण सन्निहितं नीलं प्रत्याह – फलेति ॥ ११ ॥

 

दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः
।। १२ ।।

मार्गशोधनप्रकारमाह दूषयेयुरिति । विषादिनेति शेषः । परिरक्षेथा इत्यात्मनेपदमार्षं । उद्यत: सावधान इत्यर्थः ॥ १२ ॥

 

निम्नेषु वनदुर्गेषु वनेषु च वनौकसः
अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्
।। १३ ।।

शोधनान्तरमाह – निम्नेष्विति ॥ निम्नेषु गर्तप्रदेशेषु वनदुर्गेषु वनैःजलै: दुर्गेषु दुर्गमप्रदेशेषु । जीवनं भुवनं वनं इत्यमरः । वनेषु काननेषु च । निहितं रन्ध्रे प्रहारार्थं स्थापितं । बलं परसैन्यं । वनौकसः वानराः । अभिप्लुत्य अभित उत्प्लुत्य । पश्येयुः ॥ १३ ॥

 

यच्च फल्गु बलं किंचित्तदत्रैवोपयुज्यताम् ।

एतद्धि कृत्यं धोरं नो विक्रमेण प्रयुध्यताम् ।। १४ ।।

शोधमान्तरमाह – यदिति ॥ यत्किंचिद्बलं फल्गु असारं । तत् अत्रैव किष्किन्धायामेव । उपयुज्यतां स्थाप्यतां । किंचिदित्यनेन तादृशं बलमत्र दुर्लभमिति सूचितं । अत्र युक्तिंवक्ति – एतदिति । एतत् घोरं कृत्यं विक्रमेण प्रयुध्यतां । आर्षः शतृप्रत्ययः । विक्रमेण शक्त्या । ये युध्यन्ते तेषामेव नान्येषामित्यर्थः । विक्रमेणोपयुज्यतामिति पाठे विक्रमेणोपयुज्यमानानां । विक्रमयुक्तानामित्यर्थः । क्रियापदत्वे संप्रधारणायां लोड्वेदितव्यः ॥ १४ ॥

 

सागरौघनिभं भीममग्रानीकं महाबलाः
कपिसिं
हाः प्रकर्षन्तु शतशोऽथ सहस्रशः ।। १५ ।।

अथ ” यतश्च बलमाशङ्की ततो विस्तारयेद्बलं ” इत्युक्तरीत्या बहवो बलिनो सेनां कर्षन्त्वित्याह – सागरेति ॥ सागरौघनिभं सागरस्य प्रवाहो यदि भवेत्तत्तुल्यमित्यर्थः । शतशोथ सहस्रशः । शतशः सहस्रशश्च संधीभूयेत्यर्थः ॥ १५ ॥

 

गजश्च गिरिसङ्काशो गवयश्च महाबलः
गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः
।। १६ ।।

अथ सेनाबलाध्यक्षौ सर्वदिक्षु निवेशयेत् इत्युक्तरीत्या निवेशयति — गज इति ॥ गवामग्रे दृप्ता: वृषभा इवेति संबन्धः ॥ १६ ॥

 

यातु वानरवाहिन्या वानरः प्लवतां पतिः
पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः
।। १७ ।।

दक्षिण पश्चिमपार्श्वमित्यर्थः । यतश्च भयमाशङ्कि तां प्राचीं परिकल्पयेत् इति कामन्दकोक्तेः । प्लवतां वानराणां ॥ १७ ॥

 

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
।। १८ ।।

गन्धहस्ती मत्तगज: । तरस्वी बलवान् । सव्यं प्राचीभागं । अधिष्ठितः अधिष्ठाता । कर्तरिक्तः ॥ १८ ॥

 

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः
।। १९ ।।

मध्यगमनप्रयोजनमाह – अभिहर्षयन्निति । प्रहर्षयेद्बलं व्यूह्य इत्युक्तेः । ईश्वरः इन्द्रः । तथैवौचित्यात् । गवां पतिमिवेश्वर इति वा पाठः ॥ १९ ॥

 

अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः
सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा
।। २० ।।

अङ्गदेन संयातु अङ्गदमारुह्य संयात्वित्यर्थः । सार्वभौमेन उत्तर दिग्गजेन । भूतेश: यक्षेशः । द्रविणाधिपतिः धनाधिपतिः । अत्र त्वं च शिविकामारुह्य आवाभ्यामा गच्छेति सिद्धम् ।। २० ।।

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः
।। २१ ।।

[ पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ।

जघनं कपिसेनायाः कपिराजोभिरक्षतु ] ।। २२ ।।

ऋक्षराज: जाम्बवन्द्भ्राता । कुक्षि पश्चाद्भागं । जाम्बवान् सुषेण: वेगदर्शी चेति त्रयः महासत्त्वः ऋक्षराजश्च कुक्षि रक्षन्त्वित्यन्वयः ।। २१ – २२

 

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः
व्यादिदेश महावीर्यान्वानरान्वानरर्षभः
।। २३ ।।

व्यादिदेश रामोक्तं सर्वं कुरुतेत्या ज्ञापयामास  ।। २३ ।।

 

ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा
।। २४ ।।

पुप्लुविरे प्लुतगतिं चक्रिरे ॥ २४ ॥

 

ततो वानरराजेन लक्ष्मणेन च पूजितः
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्
।। २५ ।।

पूजितः पुरस्कृत इत्यर्थः । धर्मात्मा नीतिरूपधर्मज्ञ इत्यर्थः ॥ २५ ॥

 

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि
वारणा
भैश्च हरिभिर्ययौ परिवृतस्तदा

तं यान्तमनुयाति स्म महती हरिवाहिनी ।। २६ ।।

ययौ राम इतिशेषः । हरिवाहिनी पूर्वोक्तबलवानरभिन्ना ॥ २६ ॥

 

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः

क्ष्वेलन्तो निनदन्त
स्ते जग्मुर्वै दक्षिणां दिशम् ।। २७ ।।

भक्षयन्तः सुगन्धीनि मधूनि च फलानि च
उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः
।। २८ ।।

गच्छतथाविशेषान् दर्शयति- दृप्ता इत्यादिना ॥ दृप्ता: गर्विता: । आप्लवन्त: मण्डलाकारं भ्रमन्त इत्यर्थः । गर्जन्तः मेघध्वनिं कुर्वन्त: । घनगर्जितमिति प्रसिद्धि: । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । क्ष्वेला तु सिंहनादः स्यात् इत्यमरः । निनदन्तः अव्यक्तं शब्दायमानाः । णद अव्यक्ते शब्दे इति धातुः । भक्षयन्तः पिबन्तः । उद्वहन्त: विलासार्थं हस्ते धारयन्तः ॥ २७ – २८ ॥

 

अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्
।। २९ ।।

सहसा । तरसा । निर्वहन्ति उद्वहन्ति । क्षिपन्ति पातयन्ति । अन्ये पतन्तः सन्तः । परान् पातयितॄन् । आक्षिपन्ति । प्रतीकारकरणासामर्थ्येन परिभाषणं कुर्वन्तीत्यर्थः । अपरे शक्ताः । परान् पातयितॄन् । पातयन्ति ॥ २९ ॥

 

रावणो नो निहन्तव्यः सर्वे च रजनीचराः
इति गर्जन्ति हरयो राघवस्य समीपतः
।। ३० ।।

नः अस्माभिरित्यर्थः ॥ ३० ॥

 

पुरस्तादृषभो वीरो नीलः कुमुद एव च
न्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ।। ३१ ।।

अत्र पूर्वं रामेण मार्गरक्षणाय ये नीलादयो नियुक्ताः ततोन्ये कुमुदादयस्तु रामभक्त्युत्साहेन स्वयमेव प्रवृत्ता इति ज्ञेयं । ऋषभोदक्षिणपार्श्वरक्षणाय नियुक्तो भक्त्या पराक्रमातिशयेन च अत्रापि रक्षणं कृतवानिति ज्ञेयं ॥ ३१ ॥

 

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च
बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः
।। ३२ ।।

मध्ये त्विति । जग्मुरिति शेषः ॥ ३२ ॥

 

हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्
।। ३३ ।।

अवष्टभ्य अधिष्ठाय ॥ ३३ ॥

 

कोटीशतपरीवारः केसरी पनसो गजः
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति
।। ३४ ।।

गजस्याग्रभागनियुक्तस्यापि पार्श्वरक्षणं भक्त्यतिशयात् । अत्र कार्यकरणात्कसर्यादयश्च पूर्वं नियुक्ता एवेत्याहुः । अत्र पूर्वनियुक्तानां गन्धमादनादीनामप्युपलक्षणं । एकं पार्श्वं सव्यं पार्श्वं । अभिरक्षतीत्यस्य प्रत्येकममिसंबन्धः । व्यत्ययेनलट् ॥ ३४ ॥

सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः
।। ३५ ।।

ऋक्षैरावृतत्वं जाम्बवत एव । तत्संबन्धात् सुषेणस्यापि । जघनं पश्चाद्भागम् ।। ३५ ।।

 

तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः
सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत्
।। ३६ ।।

दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान्
।। ३७ ।।

संपतन् । मार्गशोधनाय पुरो गच्छन्नपि पर्यपालयत् । सेनापतित्वात्सर्वतो ररक्षेत्यर्थः ॥ ३६-३७ ॥

 

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः
अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम्

सरांसि च सुफुल्लानि तटकानि वनानि च ।। ३८ ।।

अपश्यन् दूरादिति शेषः । सुफुल्लानि सुफुल्लपद्मकह्लाराणि ॥ ३८ ॥

 

रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ।

वर्जयन्नगराभ्याशांस्तथा जनपदानपि ।। ३९ ।।

सागरौघनिभं भीमं तद्वानरबलं महत्
उत्ससर्प महाघोषं भीमघोष इवार्णवः ।। ४० ।।

भीतवत् भीतं । कर्तरि क्तप्रत्ययः । वर्जयत् दूरतः परिहरत् । उत्ससर्प जगामेति संबन्ध: । सागरौघनिभमिति विपुलतायां साम्यं । भीमघोष इवार्णव इति घोषे ॥ ३९-४० ॥

 

तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः
।। ४१ ।।

दाशरथेः पार्श्व इति । तन्मुखोल्लासायेति भावः ॥ ४१ ॥

 

कपिभ्यामूह्यमानौ तौ शुशुभाते नरोत्तमौ
महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ
।। ४२ ।।

हनुमदङ्गदाभ्यामूह्यमानौ रामलक्ष्मणौ । महाग्रहाभ्यां शुक्रबृहस्पतिभ्यां । संस्पृष्टौ संयुक्तौ । चन्द्रसूर्याविव । शुशुभाते । अत्र उपमाने चतुर्ग्रहसंयोगस्य बहुजनविनाशहेतुत्वात् हनुमदङ्गदाभ्यां रामलक्ष्मणयोगस्य महासेनाविनाशकत्वं गम्यत इत्यलंकारेण वस्तुध्वनिः । संस्पृष्टपदेन हनुमदङ्गदयोर्लाघवातिशयकथनात् पदगतवस्तुना वस्तुध्वनिः ॥ ४२ ॥

 

ततो वानरराजेन लक्ष्मणेन च पूजितः ।

जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।। ४३ ।।

पुनः सुदूरगमनसूचनायाह -तत इति ॥ ४३ ॥

 

तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा
उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान्
।। ४४ ।।

परिपूरणार्थ: परिपूर्णमनोरथः । स्मृतिमान् निमित्तशास्त्रार्थस्मरणवान् । प्रतिभानवान् तात्कालिकबुद्धिमान् ॥ ४४ ॥

 

हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्
समृद्धार्थः समृद्धार्थामयोध्यां प्रति
यास्यसि ।। ४५ ।।

वक्ष्यमाणनिमित्तश्रवणे श्रद्धामुत्पादयितुं प्रथमं तत्फलं दर्शयति — हृतामिति ॥ रावणं हत्वा वैदेहीमवाप्स्यसीतिक्रमः ॥ ४५ ॥

महान्ति च निमित्तानि दिवि भूमौ च राघव
शुभा
नि तव पश्यामि सर्वाण्येवार्थसिद्धये ।। ४६ ।।

कुतोयं निश्चय इत्यत्राह – महान्तीति ॥ महान्ति दुर्लभानि । दिवि भूमौ च यानि शुभानि निमित्तानि सर्वाणि तवार्थसिद्धये पश्यामि । अर्थसिद्धिकराणि पश्यामीत्यर्थः ॥ ४६ ॥

 

अनु वाति शुभो वायुः सेनां मृदुहितः सुखः
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः
।। ४७ ।।

सुखःसुखकरः । शीत इत्यर्थः । मृदुहितः मृदुः मार्दवयुक्तः । हित अनुकूल इत्यर्थः । शुभः भाविशुभसूचकः वायुः सेनां अनुवाति अनुसृत्य वाति । पूर्णवल्गुस्वरा: अन्यूनापरुषस्वराः सन्तः प्रवदन्ति ॥ ४७ ॥

प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः
उशना
श्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ।। ४८ ।।

भौमनिमित्तान्युक्त्वा दिव्यनिमित्तान्याह – त्वामनु- गतः । तवानुकूलदिशि स्थित इत्यर्थः । यद्वा अनुगतः पश्चाद्भागं गतः । पुरः शुक्रस्य यात्रासु प्रतिषेधादिति भावः । तथोक्तं ज्योतिषे —  प्रतिशुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः । अपि शक्रेण सदृशो हतसैन्यो निवर्तते इति ॥ उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गत इत्यनेनावतारकाले जातकफलसूचनवद्रामस्यानुकूलं गोचारफलं दर्शयति विपरीतफलं राक्षसानां च । तथाहि किष्किन्धात: आग्नेयदिग्वर्तिनीं लङ्कां प्रति गच्छतो रामस्यानुकूल: शुक्र इत्युच्यते । सूर्यस्थराशेः पुरोराशिस्थो हि भवति शुक्रः । सूर्यश्च तदानीं मीनस्थः । उत्तराफल्गुनी ह्यद्येति प्रयाणदिनकथनात् । फाल्गुनपौर्णमास्यां हि रामस्य दण्डयात्रेति पूर्वमुक्तं । तदाच शुक्रो मेषस्थ: । अतो रामस्य कर्कटराशेर्मेषो हि दशमोनुकूलः । पूर्वोक्तदिग्वर्तिनीं लङ्कां प्रति गच्छतो रामस्य पञ्चात्स्थितत्वाच्च शुक्रोऽनुकूल एव । शुक्रानुकूल्योक्तिर्बृहस्पत्याद्यानुकूल्योपलक्षणं । सह्यवतारकाले कर्कटकस्थः । तदपेक्षयाष्टत्रिंशद्वर्षयुद्धयात्राकालः । तथाच त्रिरावृत्त्या षट्- त्रिंशद्वर्षेषु गतेषु रामस्याष्टत्रिंशद्वर्षे युद्धारम्भे गुरोः सिंहस्थितिः सिद्धा । गुरुद्वितीयता रामस्यानुकूला । शनिश्चावतारकाले तुलावर्गोत्तमस्थः । द्वितीयावृत्तौ तुलावृश्चिकयोः पञ्चवर्षेण गतयोः सार्धवर्षद्वयेनाती- तेन धनुरतीत्य तदानीं मकरस्थितियोग्योपि कथंचिद्ध- नुर्वर्गोत्तमस्थ एव शनिः । राहुस्तु अवतारकाले । सिंहस्थ: । ततोष्टत्रिंशद्वर्षेस्मिन्कटकस्थितियोग्योप्यतिचारादिमिर्मिथुनस्थः । तत्सप्तमे धनुषि केतुः । उक्तं चात्रापि – मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना इति । धूमाकारः केतुर्धूमकेतुः । तथाच धनुषि शनिकेतू रामस्य षष्ठस्थावनुकूलौ । अङ्गारकस्तु रामरावणयुद्धप्रसङ्गे, आक्रम्याङ्गारकस्तस्थौ विशाखे अपि चाम्बरे इत्युक्त्या विशाखाचतुर्थपादे वृश्चिकराशौ तिष्ठति । रामस्य पञ्चमाङ्गारकत्वफलमिदं । यदेतद्ब्रह्मास्त्रबन्धरुधिरमोहादि, बुधस्य प्रतिभासं रोहिणीस्थत्वयोगेपि रामरावणयुद्धप्रसङ्गे, प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् । समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः इत्युक्तं प्रजानामशुभावहत्वमतिचारवशादेव । स च रामस्य दशमस्थोऽनुकूल: । चन्द्रश्च उत्तराफल्गुनीस्थत्वात्कन्यास्थः । अतस्तृतीयचन्द्रो रामस्यानुकूल: । सूर्यो नवमस्थो रामस्यानुकूल: । राहुस्तु मिथुनस्थत्वाद्वादशस्थ इति किंचिद्बाधकः । राक्षसानामिदं सर्वं विपरीतं । तथाहिराक्षसानां हि नक्षत्रं मूलं । तथाच धनू राशिः । तदपेक्षया पञ्चमस्थः शुक्रः प्रतिकूलः । जन्मराशिस्थौ शनिकेतू च प्रतिकूलौ । राहुस्तु सप्तमस्थ: किंचिदनुकूल: । द्वादशस्थाङ्गारकश्च प्रतिकूलः । गुरुस्तु नवमस्थोनुकूलः । चतुर्थस्थ: सूर्य: पञ्चमस्थो बुधश्च नानुकूलौ । दशमस्थश्चन्द्र: किंचिदनुकूलः । एवं प्रायेण ग्रहगोचारफलं राक्षसानां विपरीतमेवेति ॥ ४८ ॥

 

ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्
।। ४९ ।।

ब्रह्मराशिः अधीतसर्ववेद इत्यर्थः । विशुद्धः पापग्रहासंयुक्तः । इदं द्वयमपि भार्गवविशेषणं । परमर्षय: सप्तर्षयः । दक्षिणां दिशं प्रति गताः । प्रदक्षिणं तिष्ठद्गुप्रभृतित्वात्साधुः । आवर्तमाना इति शेष : ॥ ४९ ॥

 

त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः
पितामहवरोऽस्माकमि
क्ष्वाकूणां महात्मनाम् ।। ५० ।।

पुरोहितः विश्वामित्रः । सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः इति बालकाण्डोक्तरीत्या विश्वामित्रसृष्टसप्तर्ष्यन्तर्गतवसिष्ठो वा । पितामहवर: पितामहेषु कूटस्थेषु श्रेष्ठ: । इक्ष्वाकूणां प्रधानकूटस्थ इत्यर्थः ॥ ५० ॥

 

विमले च प्रकाशेते विशाखे निरुपद्रवे
नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्
।। ५१ ।।

निरुप्लवे क्रूरग्रहानाक्रान्ते । विशाखे इति द्विवचनं नक्षत्रद्वयात्मकत्वात् । विशाखाख्यं नक्षत्रवरमित्यर्थः । विशाखाया इक्ष्वाकुनक्ष- त्रत्वंज्यौतिषदर्पणे दर्शितं — अश्विन्यां यदि केतुः इत्यारभ्य इक्ष्वाकुकुलनाथस्तु ह्यन्यतो यदि भनेद्विशाखास्थस्तु इति ॥ ५१ ॥

 

नैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीड्यते
मूलं मूलवता स्पृ
ष्टो धूप्यते धूमकेतुना ।। ५२ ।।

स्वानुकूल्यमुक्त्वा परप्रातिकूल्यमाह-नैर्ऋतमिति ॥ नैर्ऋतं नैर्ऋतदैवतं । नैर्ऋतानां राक्षसानाम् । किं तन्नैर्ऋतं तस्य पीडा केनेत्याकाङ्क्षायामाह – मूल इति । मूलवता अन्तिकवता । मूलं वशीकृतौ स्वीये शीर्षे तारान्तिकादिषु इति वैजयन्ती । तेन धूमकेतुना स्पृष्टो मूलः मूलनक्षत्रं । धूप्यते संताप्यते । धूप संतापे इति धातुः ॥ ५२ ॥

 

र्वं चैतद्विनाशाय राक्षसानामुपस्थितम्
काले कालगृहीतानां न
क्षत्रं ग्रहपीडितम् ।। ५३ ।।

ततः किमित्यत्राह – सर्वमिति ॥ एतन्नक्षत्रपीडनमेव राक्षसानां विनाशाय सर्वं अशु- भसूचकनिमित्तजातं । समुपस्थितमित्यर्थः । तदेवोपपादयति-काल इति । कालगृहीतानां मृत्युगृहीतानां नक्षत्रं । काले अन्तकाले । ग्रहपीडितं भवति ॥ ५३ ॥

 

प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च
प्रवान्त्यभ्यधिकं गन्धा
न्यथर्तुकुसुमा द्रुमाः ।। ५४ ।।

पुनरपि विजयसूचकान्याह – प्रसन्ना इत्यादिना ॥ द्रुमाः यथर्तुकुसुमाः ऋतुमनतिक्रम्य जातानि कुसुमानि येषां ते तथोक्ताः । अकालकुसुमोत्पत्तिर्ह्युत्पातः । स इदानीं नास्तीत्यर्थः । तथोक्तं वराहमिहिरेण शीतोष्णानां विपर्यास: फलपुष्पमकालजम् । अशोष्याणां विशोषश्च फलं षाण्मासिकं भवेत् इति ॥ ५४ ॥

 

व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो
देवानामिव सैन्यानि सङ्ग्रामे तारकामये
।।  ५५ ।।

व्यूढानि कृतव्यूहानि । तारकस्य तारकासुरस्य आमयो बधो यस्मिन् सः तारकामयः तस्मिन् । यद्वा तारकाया: बृहस्पतिपत्नया: आमयो । मनोव्याधिः यस्मिन् । तादृशसंग्रामसंज्ञेयं । तथोक्तं श्रीविष्णुपुराणे – एवंच तयोरतीवोग्रः संग्रामस्तारकानिमित्तस्तारकामयो नामाभवदिति ॥ ५५ ॥

 

एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्
।। ५६ ।।

आश्वास्याब्रवीत् आश्वासनपूर्वकमब्रवीत् । अनेन प्रथमसर्गान्तोक्त: श्लोकोनुवृत्त इति ज्ञायते ॥ ५६ ॥

अथावृत्य महीं कृत्स्नां जगाम महती चमूः
ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता
।। ५७ ।।

पुनरपि सेनायाः दूरगमनमाह – अथेति ॥ ऋक्षवानरशार्दूलै: ऋक्षशार्दूलैः वानरशार्दूलश्च । शार्दूलशब्दः श्रेष्ठवाची ॥ ५७ ।।

कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः
भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्
।। ५८ ।।

अन्तर्दघे आच्छादयामास ॥ ५८ ॥

सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ।

छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः ।। ५९ ।।

हरिवाहिनी दक्षिणां महीं अम्बुदसंततिर्द्यामिव छादयन्ती यथाविति संबन्धः ॥ ५९ ॥

 

उत्तरन्त्यां च सेनायां संततं बहुयोजनम्

नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ ६० ॥

संततं निरन्तरं यथा भवति तथा उत्तरन्त्यां । विपरीतवत् वैपरीत्यवत् । भावप्रधानो निर्देश: । बहुयोजनं च यथा भवति तथा सस्यन्दुः ॥ ६० ॥

सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान्

समान्भूमिप्रदेशांश्च वनानि फलवन्ति च

मध्येन च समन्ताच्च तिर्यक्चाघश्च साऽविशत् ॥ ६१ ॥

सरांसीत्यादिसार्धश्लोक एकान्वयः ॥ यथायोग्यं च संबन्धः । सरांसि शीतलसलिलतया मध्येनाविशत् । पर्वतान् द्रुमाकीर्णतया तिर्यगाविशत् । समान् भूमिप्रदेशान् समन्तादाविशत् । वनानि फलवत्तया अध आविशत् ।। ६१ ॥

 

समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ ६२ ॥

समावृत्यर्धं ।। ६२ ।।

 

ते हृष्टमनसः सर्वे जम्मुर्मारुतरंहसः

हरयो राघवस्यार्थे समारोपितविक्रमाः ॥ ६३ ॥

हर्षवीर्यबलोद्रेकान्दर्शयन्तः परस्परम्

यौवनोत्सेकजान्दर्पान्विविधांचक्रुरध्वनि ॥ ६४ ॥

मारुतरंहसः वायुवेगा: । समारोपितविक्रमा: अभिवृद्धविक्रमा इत्यर्थः । उद्रेकशब्दोतिशयवाची । दर्पान् दर्पजव्यापारान् ॥ ६३-६४ ॥

 

तत्र केचिद्रुतं जग्मुरुत्पेतुश्च तथाऽपरे

केचित्किलकिलां चक्रुर्वानरा नगोचराः ॥ ६५ ॥

तान्विवृणोति — तत्रेत्यादिना ॥ किलकिलेति वानरशब्दानुकरणं ॥ ६५ ।।

 

प्रास्फोटयंच पुच्छानि सन्निजघ्नुः पदान्यपि

भुजान्विक्षिप्य ‘शैलांश्च द्रुमानन्ये बभञ्जिरे ॥ ६६

प्रास्फोटयन् भूमावनास्फालयन् । सन्निजघ्नुः । भूमाविति शेषः । भुजान् विक्षिप्य प्रसार्य द्रुमान् शैलांश्च बभञ्जिरे । ६६ ।।

 

आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः

महानादान्विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे ॥ ६७ ॥

गिरिगोचराः गिरिचराः । क्ष्वेलां सिंहनादं ॥ ६७ ॥

 

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः

जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥ ६८ ॥

ममृदुः मर्दनं चक्रुः ॥ ६८ ॥

 

शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः

वानराणां तु घोराणां श्रीमंत्परिवृता मही ॥ ६९ ॥

श्रीमद्यथा भवति तथा परिवृता आसीदिति संबन्ध: ॥ ६९ ॥

 

सा स्म याति दिवारात्रं महती हरिवाहिनी
हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता
।। ७० ।।

सेना इनेन स्वामिना सहिता ॥ ७० ॥

 

वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः
मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत
।। ७१ ।।

प्रमोक्षयिषवः मोचयितुमिच्छवः । सनि द्विर्वचनाभाव आर्ष: । मोक्ष निरसने ” इत्यस्माद्धातोः सन् ॥ ७१ ॥

 

ततः पादपसम्बाधं नानामृगसमायुतम्
सह्यपर्वतमासेदुर्मलयं च मही धरम्
।। ७२ ।।

ततः दिवारात्रान्ते ॥ ७२ ॥

 

काननानि विचित्राणि नदीप्रस्रवणानि च
पश्यन्न
ति ययौ रामः सह्यस्य मलयस्य च ।। ७३ ।।

सह्यस्य मलयस्य च काननानीत्यन्वयः । सामलयौ नाम मार्गवर्तिनौ कौचित्पर्वतौ ।।७३।।

 

बंकुलांस्तिलकांश्चूतानशोकान्सिन्दुवारकान्
करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवङ्गमाः
।। ७४ ।।

बकुलान् केशरवृक्षान् । तिलकान् क्षुरकवृक्षान् । चूताः प्रसिद्धाः अशोकाश्च । सिन्धुवा- रकान् निर्गुण्डीवृक्षान् । करवीराः प्रसिद्धाः । तिमिशान् नेमिवृक्षान् ॥ ७४ ॥

 

अंकोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान् ।

जम्बूकामलकान्नीपान्भञ्जन्ति स्म प्लवङ्गमाः ॥ ७५ ॥

अङ्कोलान् निकोचकवृक्षान् । करञ्जान् नक्तमालवृक्षान् । प्लक्षान् जटीवृक्षान् । न्यग्रोधान् वटान् । तिन्दुकान् स्फूर्जकवृक्षान् । जम्बूकामलकाः प्रसिद्धाः । नीपाः कदम्बाः ॥ ७५ ॥

 

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।

वायुवेगप्रचलिताः पुष्पैरव किरन्ति तान् ।। ७६ ॥

मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः ।

षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७७ ॥

प्रस्तरेषु शिलासु । स्थिता इति शेषः । वायुवेग: वानरसेनावेगजवायुवेगः ॥ ७६-७७ ॥

 

अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ ७८ ॥

वानराणां धातुरेणुरूपितत्वं वक्तुं पर्वतस्य धातुमत्तामाह – अधिकमिति ॥ अर्धमेकं वाक्यं । शैलराज: सह्यः ॥ ७८ ॥

 

धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः ।

सुमहद्वानरानीकं छादयामास सर्वतः ॥ ७९ ॥

विघट्टितः उत्थापितः ॥ ७९ ॥

 

गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः ।

केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः ॥ ८० ॥

माधव्यो गन्धपूर्णाश्च कुन्दगुल्माच पुष्पिताः ।

चिरिबिल्वा मधूकाश्च बकुलाः प्रियकास्तथा ॥ ८१ ॥

गिरिप्रस्थे- त्यादिसार्धपञ्चश्लोक्येकान्वया ॥ पुष्पिता इत्येतत्सर्वविशेषणं । अतस्तस्य बहुश: प्रयोगः । वसन्ते पुष्पयन्तीति वासन्त्यः । इदं माधवीविशेषणं । कालात्साधुपुष्प्यत्पच्यमानेषु इत्यण् । गन्धैः पूर्णाः गन्धपूर्णाः । कुन्दाः । चिरिबिल्वाः नक्तमालाः । मधूका: गुडपुष्पाः । वञ्जुलाः वानीराः । प्रियकाः बन्धूकाः ॥ ८०-८१ ॥

 

स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ।

चूताः पोटलयश्चैव कोविदाराश्च पुष्पिताः ॥ ८२ ॥

स्फूर्जका तिन्दुकवृक्षाः । नागवृक्षाः नागकेसराः । पाटलयः पाटलाः । कोविदाराः चमरकाः ॥ ८२ ॥

 

मुचुलिन्दार्जुनाश्चैशिंशुपाः कुटजास्तथा ।

धवाः शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ ८३ ॥

मुचुलिन्दाः खर्जूरविशेषाः । अर्जुनाः ककुभाः । शिंशुपाः पिच्छिला: । कुटजा: जयवृक्षाः । धवाः धुन्धुरवृक्षाः । शाल्मलय: मोचा: । पिच्छिला पूरणी मोचा चिरायुः शाल्मलिर्द्वयोः इत्यमरः ॥ ८३ ।।

 

हिन्तालास्तिमिशाश्चैव चूर्णका नीपकास्तथा ।

नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ।

प्लवमानैः प्लङ्गैस्तु सर्वे पर्याकुलीकृताः ॥ ८४ ॥

हिन्तालाः तालविशेषाः । चूर्णकाः आमलकविशेषाः। नीपकाः कदम्बाः। वरणाः वारुणाः । पद्मका: सुगन्धिपुष्पा वृक्षविशेषाः । एवंभूतावृक्षाः प्लवमानैः प्लवंगै : पर्याकुलीकृता इत्यन्वयः ॥ ८४ ।।

वाप्यस्तसिन्गिरौ शीताः पल्वलानि तथैव च ।

चक्रवाकानुचरिताः कारण्डवनिषेविताः ।

प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः ॥ ८५ ॥

ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः ।

व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ ८६ ॥

पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा ।

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः॥ ८७ ॥

वाप्य इत्यादि जलाशया इत्यन्तमेकं वाक्यं ॥ जलाशया: जलपूर्णा इति वापीविशेषणं । अत्रापि पर्याकुलीकृता इत्यनुषज्यते । कारण्डवा: जलकुक्कुटाः । प्लवै: जलकाकैः । क्रौच्चैः प्रसिद्धैः । तीरवनमृगानाह – वराहेत्यादिना । तरक्षुभिः मृगादनैः । व्यालैः दुष्टगजै: । सौगन्धिकैः कहारैः । वारिजैरिति । एवमिति शेषः ॥ ८५-८७ ॥

 

तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ ८८ ॥

तस्य सानुष्वित्यर्धमेकं वाक्यं । कूजन्ति चुकूजुः । तत्सैन्यदर्शनादिति भावः ॥ ८८ ॥

 

स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ।

अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ॥ ८९ ॥

अत्र जले वापीजले । प्लावयन्ति सिञ्चन्ति ॥ ८९ ॥

फलान्यमृतगन्धीनि मूलानि कुसुमानि च
बुभुजुर्वानरास्तत्र पादपानां मदोत्कटाः
।। ९० ।।

शैलमारुह्येत्युत्तरशेषः । अमृतगन्धीनि अमृतस्वादूनि । मदोत्कटा: मदमत्ताः ॥९० ॥

 

द्रोणमात्रप्रमाणानि लम्बमानानि वानराः
ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः
।। ९१ ।।

द्रोणमात्रप्रमाणानि द्रोणं शिवद्वयं तत्प्रमाणमधुपूर्णानि । मधूनि मधुपटलानि । मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः ॥ ९१ ॥

 

पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः
विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः
।। ९२ ।।

विधमन्तः दहन्तः । ध्मा शब्दाग्निसंयोगयो: इति धातुः ॥ ९२ ॥

 

वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः
अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे
।। ९३ ।।

अन्ये वृक्षेभ्यः । वृक्षेभ्योन्यत्र । अत्रापि ययुरित्यनुषज्यते ॥ ९३ ॥

 

बभूव वसुधा तैस्तु सम्पूर्णा हरियुथपैः ।
यथा कमलकेदारैः पक्वैरिव वसुन्धरा ।। ९४ ।।

इवशब्दो वाक्यालंकारे । अन्ये तु । तत्र तदानीं पक्वैः कलमकेदारैः पक्वशालिक्षेत्रैः । संपूर्णा वसुन्धरेव यथा भवेत् तथा तैर्हरिपुङ्गवैः संपूर्णा वसुधा बभूवेति योजयन्ति । अपरेतु कलमकेदारैर्यथा कलमकेदारसदृशैः हरिपुङ्गवै: संपूर्णा वसुधा वसुन्धरेव कलमकेदारभूरिव बभूवेत्याहु: । उपमानद्वित्वं व्यञ्जयितुमुपमावाचकद्वयं प्रयुञ्जते कवयः । यथा उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः । आलोकयामास हरिः पतन्तीर्नदी: स्मृतीर्वेदमिवाम्बुराशि इति ॥ ९४ ॥

 

महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः
अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्
।। ९५ ।।

ततः शिखरमारुह्य रामो दशरथात्मजः
कूर्ममीनसमाकीर्णमपश्यत्सलिलाकरम्
।। ९६ ।।

ते सह्यं समतिक्रम्य मलयं च महागिरिम्
आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्
।। ९७ ।।

अथ साह्यमलयातिक्रमणानन्तरं । राजीवलोचन इति समुद्रदर्शनाय महेन्द्रशिखरारोहणकुतूहलित्वमुक्तं ॥ ९५-९७ ॥

 

अवरुह्य जगामाशु वेलावनमनुत्तमम्
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः
।। ९८ ।।

अथ धौतोपलतलां तोयौघैः सहसोत्थितैः
वेलामासाद्य विपुलां रामो वचनमब्रवीत्
।। ९९ ।।

वेलावनस्योन्नतत्वादवरुह्येस्युक्तं । रमयतां श्रेष्ठ इत्यनेन समुद्रसंभ्रमप्रदर्शनेन लक्ष्मणादिरञ्जकत्वं व्यञ्जितं ॥ ९८-९९ ॥

 

एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्
इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता
।। १०० ।।

चिन्ता समुद्रतरणोपायचिन्ता । ॥ १०० ॥

 

अतः परमतीरोऽयं सागरः सरितां पतिः
न चायमनुपायेन शक्यस्तरितुमर्णवः
।। १०१ ।।

अतीरः अविद्यमानतीरः । जलप्राय इतियावत् । अनुपायेन उपायं विनेत्यर्थः । प्रसज्य प्रतिषेधे नञ्समासः ॥ १०१ ॥

 

तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति
यथेदं वानरबलं परं पारमवाप्नुयात्
।। १०२ ।।

मन्त्रः कार्यविचारः । प्रस्तूयतां आरभ्यतां । इति वक्ष्यमाणप्रकारेण ।। १०२ ।।

 

इतीव स महाबाहुः सीताहरणकर्शितः
रामः सागरमासाद्य वासमाज्ञापयत्तदा
।। १०३ ।।

सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गवः ।

सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने ।। १०४ ।।

इतिवेत्यनेन सेनानिवेशनियोगे सागरतरणोपाय विचार: अहृदयो हेतुः । वस्तुतस्तु सीताहरणवेश एवं हेतुरिति व्यज्यते ॥ १०३ – १०४ ॥


स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत्

गच्छन्तु वानराः शूरा ज्ञेयं छन्नं बलं च नः
।। १०५ ।।

कुतः कुतश्चिद्धेतोः । शूराः वानराः गच्छन्तु सर्वतः सञ्चरन्तु । किमर्थमित्याह – ज्ञेयमिति नः अस्माकं । भयं भयनिमित्तं । छन्नं ज्ञेयं तत्र तत्र निलीनैः शत्रुभिः प्रायशः प्रहारसंभवादिति भावः ।। १०५ ।।

 

रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः
सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते
।। १०६ ।।

द्रुमायुते द्रुमैर्युक्ते । मिश्रणार्थाद्यौतेर्निष्ठा ॥ १०६ ।।

 

विरराज समीपस्थं सागरस्य तु तद्बलम्
मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः
।। १०७ ।।

वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः
विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः
।। १०८ ।।

सागरस्य समीपस्थं तद्बलं मधुपाण्डुजल: मधुवत्पिङ्गलजल: । द्वितीय: सागर इव विरराजे- व्युत्प्रेक्षा ॥ १०७ – १०८ ॥

 

तेषां निविशमानानां सैन्यसन्नाहनिस्वनः ।

अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ।। १०९ ।।

अन्तर्घाय स्थित इतिशेषः ॥ १०९ ॥

 

सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ।

त्रिधा निविष्टा महती रामस्यार्थपराभवत् ।। ११० ।।

त्रेधा त्रिप्रकारैः वलयत्रयाकारेणेति यावत् । वानरगोपुच्छभल्लूकभेदेन त्रेधेति वा ॥ ११० ॥

 

सा महार्णवमासाद्य हृष्टा वानरवाहिनी
वायुवेगसमाधूतं पश्यमाना महार्णवम्
।। १११ ।।

पश्यमाना पश्यन्ती सती । हृष्टा अभूदिति शेषः ॥ १११ ॥

 

दूरपारमसम्बाधं रक्षोगणनिषेवितम्
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः
।। ११२ ।।

दूरं पारं यस्य दूरपारं विशालमित्यर्थः । असंबाधं संबाधरहितं । अक्षोभ्यमित्यर्थः । रक्षोगणनिषेवितं समुद्रे रक्षांसि वसन्तीति प्रसिद्धिः ॥ ११२ ॥

 

चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये

हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः । ११३ ।।

चण्डनक्रै: करणैः ग्रहः ग्रहणं यस्य स तथोक्तः तं । सूर्यादौ ग्रहणे युद्धे पूतनादावनुग्रहे । उपरागे च निर्बन्धे स्वर्भानौ च ग्रहः स्मृतः इति निघण्टुः ॥ दिवसक्षये क्षपादौ सन्ध्यायामित्यर्थः । घोरं वर्धमानत्वाद्भयङ्करं ।। ११३ ॥


चन्द्रोदय समद्भूतं प्रतिचन्द्रसमाकुलम्

चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ।। ११४ ।।

समुद्भूतं उल्ललितं । प्रतिवीचि प्रतिविम्बितचन्द्रत्वात् प्रतिचन्द्रैः समाकुलं । चण्डानिलमहाग्राहैः चण्डानिलसदृशवेगमहाग्राहैरित्यर्थः । तिमय: शतयोजनायता महामत्स्याः । तानपि भक्षयितुं क्षमास्तिमिङ्गिलाः । तिमीन्निगिरतीति व्युत्पत्तेः । गृ निगरणे इति धातुः । ग्रोचि इति लत्वं । तदुक्तं पुराणे अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायत: । तिमिङ्गिलगिलोप्यस्ति तद्गिलोप्यस्ति सागरे इति ।। ११४ ।।


दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् ।

अवगाढं महासत्वैर्नानाशैलसमाकुलम् ।
सुदुर्गं द्रुगममार्गं तमगाधमसुरालयम् ।। ११५ ।।

दीप्तभोगैः शिरोरत्नकान्त्या प्रकाशितफणैरिव स्थितैः । महासत्त्वैः जलगजशिंशुमारादिभिः । सुदुर्ग यादोभिः । दुर्गमार्गं दुर्गमं । नौपथसञ्चारायोग्यमित्यर्थः । योगरूढिभ्यां वरुणावासवरुणालय- पदद्वयनिर्वाहः ॥ ११५ ॥

 

मकरैर्नागभोगैश्च विगाढा वातलोहिताः ।
उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ।। ११६ ।।

तदानीं सागरमुत्प्रेक्षते- मकरैरिति ॥ नागभोगैः सर्पकायैः । विगाढा: प्रविष्टाः । वातलोलिताः वायुचलिताः । अतएव प्रवृद्धा: जलराशयः तरङ्गाः । उत्पेतुश्च निपेतुश्च । उत्पत्य निपेतुरिति भावः ॥ ११६ ॥

 

अग्निचूर्णमिवाविद्धं भास्कराम्बु मनोरगम् ।
सुरारिविषयं घोरं पातालविषमं सदा ।। ११७ ।।

सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत ।। ११८ ।।

अथ सागराम्बरयोः सर्वथा साम्यं वर्णयति – ग्निचूर्णमित्यादिना ॥ रात्रौ सागरस्य सलिलशीकरा: अग्निचूर्णा इव दृश्यन्त इति प्रसिद्धिः । अतो भाखराण्यम्बूनि शीकररूपाणि यस्य तथोक्तं । अतएवाविद्धं आकीर्णं । अग्निचूर्णमिव सागरे दृश्यते । अम्बरं च कीर्णैर्नक्षत्रैस्तथा दृश्यते । भास्वराम्बु विमलतुहिनं च । महान्त उरगा यस्मिन् तन्महोरगं । इदमप्युभयत्रापि समानं । आकाशे गन्धर्वादीनामिव नागानामपि सञ्चारसम्भवात् । राह्वादिरूपोरगसंभवाद्वा । सुरारयः असुरा राक्षसाश्च तेषां विषयं आवासभूतं । इदमप्युभयत्र तुल्यं । पातालविषमं पातालवत् गम्भीरं । इदमप्युभयत्र तुल्यं । घोरं भयङ्करं । इदमप्युभयत्र तुल्यं । एवमुक्तविशेषणविशिष्टं सागरं सागरः । अम्बरप्रख्यं अम्बरामं । उक्तविशेषणविशिष्टमम्बरं च सागरोपममदृश्यतेत्याकृष्य योजना । न केवलं साम्यं सर्वथा साम्यं चेत्याह – सागरमिति ॥ क्लीबत्वमार्षं ॥ ११७ – ११८ ॥

 

सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा ।
तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ।। ११९ ।।

प्रकारान्तरेणापि उक्तं साम्यं दर्शयति – संपृक्तमिति ॥ संपृक्त संसृष्टं । तुल्यवर्णमितियावत् । हिशब्दो हेतौ । तादृग्रूपे अन्योन्यतुल्यरूपे । तारारत्नसमाकुले सागराम्बरे दृश्येते स्म ॥ ११९ ॥

 

समुत्पतितमेघस्य वीचि मालाकुलस्य च ।
विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ।। १२० ।।

समुत्पतितेति । मेघवीचिमालयोर्बिम्बप्रतिबिम्बभावेनोपमानत्वं ।। १२०॥

 

अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ।। १२१ ।।

प्रथमं सक्ताः अथ आहताः इत्यन्वयः ॥ १२१ ॥

 

रत्नौघजलसंनादं विषक्तमिव वायुना ।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ।। १२२ ।।

ददृशुस्ते महोत्साहा वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ।। १२३ ।।

रत्नौघेत्यादिश्लोकद्वयं ॥ रत्नौघजलयोः सन्नादो यस्मिन् । अनेन वेगवद्वायुजनितक्षोभातिशयादन्तर्गतरत्नानामुद्गमनमवगम्यते । वायुना विषक्तमिव वायुना एकीभूतमिव । यादोगणसमाकुलं यादांसि जलजन्तवः तेषां गणेन समाकुलं । वाताहतजलाशयं जलाशय: समुद्रः वाताहतश्चासौ जलाशयश्चेति कर्मधारयः तं ऊर्मिभिः आकाशे वल्गन्तमिव स्थितं । एतन्निरूपणार्थमेव अनिलोद्धतमिति पुनरुक्तिः ॥ १२२ -१२३॥

 

ततो विस्मयमापन्ना ददृशुर्हरयस्तदा ।
भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ।। १२४ ।।

ततइति विशेषाभिधानार्थत्वान्न पुनरुक्ति: । आन्तोर्मिजलसन्नादमिति । घूर्णिततरङ्गजलसन्नादो यस्मिन् तं प्रलोलमिव उद्धान्तमिव ॥ १२४ ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः ॥ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.