18 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः

रामेणसुग्रीवंप्रति विभीषणस्यमित्र भावेनप्राप्तत्वरूपहेतुना त्यागानर्हत्वोक्तौ सुग्रीवेणतंप्रतिसप्रणामंतस्मिन्दोषोद्भावनेन प्रिहप्रार्थना ॥ १ ॥ रामेणतंप्रति विभीषणस्य निर्दोषत्वसमर्थनपूर्वकं शरणागतरक्षणस्यावश्यंकर्तव्यत्वे कपोतोपाख्यानस्यदृष्टान्तीकरणेनसह कण्डुमुनिवचनस्यप्रमाणीकरणेन शत्रुत्वेपिशरणागतरक्षणस्य स्वव्रतत्वोत्या तस्माअभयप्रदानोक्तिपूर्वकं तदानयनचोदना ॥ २ ॥

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्
।। ।।

एवं सुग्रीवादिभिः स्वस्वमते प्रतिपादिते स्वाभिमतमपि रामो वक्तुं प्रारभते – अथेति ॥ वायुसुतस्य वचनमिति शेषः । प्रसन्नात्मा सुग्रीवादिवाक्यैः कलुषीकृते मनसि सति हनुमद्वाक्येन प्रसन्नमनाः । दुर्धर्षः पूर्वपक्षैरक्षोभ्यः । तनहेतुमाह – श्रुतवानिति । वसिष्ठादिभ्यः श्रुतकपोतकण्डूपाख्यानादिमान् । आमनिस्थितं चित्तावस्थितं ॥ १ ॥

ममापि तु विवक्षास्ति का चित्प्रति विभीषणम्
श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः
।। ।।

सर्वमतप्रतिक्षेपरूपेण स्ववाक्येन किमेते व्याकुलितमनसो भवेयुरिति शङ्कया राम: सचिवानुपच्छन्दयति – ममापीति । तुशब्द: पक्षान्तरवद्धनुमत्पक्षमपि व्यावर्तयति । ममापि विभीषणंप्रति काचिद्युष्मत्पक्षैः सह परिगणनायोग्या विवक्षा अस्ति । अतः तत्सर्वं मद्विवक्षितं वा तु साध्यरूपं सर्वमर्थजातं । श्रेयसि स्थितैः अस्मच्छ्रेयोनिरतैः । भवद्भिः युष्माभिः । श्रोतुमिच्छामि । भवद्भिः श्रुत्वा परीक्षणं कार्यमितिममेच्छास्तीत्यर्थः ॥ २ ॥

 

मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन
दोषो यद्यपि तस्य स्यात्सता
मेतदगर्हितम् ।। ।।

एवं सचिवाननुगुणीकृत्य स्वस्वभावकथनव्याजेन स्वविवक्षितुं सहेतुकं दर्शयति—मित्रभावेनेति ॥ मतान्तरेषु सदोषत्वान्न परिग्राह्य इति हेतुसाध्ये अपि दुष्टे । मारुतिमतेतु । परिग्राह्यत्वरूपे साध्येसमीचीनेपि निर्दोषत्वादिति च हेतुरसमीचीन: । किंतु शरणागतोहमितिवाक्यप्रयोक्तृत्वमेव तत्र मुख्यहेतुरित्यभिप्रायेण मित्रभावेनेति हेतुनिर्देश: । मित्रभावेन वास्तवमित्रत्वाभावेपि मित्रत्वाभिनयमात्रेणापीत्यर्थ: । मित्रभावः शरणागतत्वं । राघवं शरणं गतः शरण्यं शरणं गत इति पूर्वोत्तरत्र च तस्यैव कथनात् । अन्यत्रापि – विदितः स हि धर्मज्ञः शरणागतवत्सलः इति शरणागतिशब्देनोपक्रम्य तेन मैत्री भवतु ते यदि जीवितुमिच्छसि इति मैत्रीशब्देन परिसमापनात् । यद्वा । मित्रशब्दः स्वाभिप्रायेण शरणागते गौरवारोपायुज्यते । न त्यजेयं त्यक्तुं न शक्नोमि । सर्वशक्तेरपि मम शरणागतशब्दश्राविणः परित्यागे शक्तिसंभावनामपिन पश्यामीत्यर्थ: । कथंचन दृष्टादृष्टानर्थशतानुबन्धित्वे तत्परिग्रहस्य सुहृदामनभिमतत्वे मत्प्राणपरित्यागे प्रस्तुतेपीत्यर्थः । दोषो यद्यपि तस्य स्यात् । यद्यपि सुग्रीवादिभिरुक्ता दोषा नास्मिन्सन्ति । सन्तु वाततोपि भूयांसः । अथाप्यशक्यमहं कथं करोमीत्यर्थः । स्याच्छन्दः दुष्टोपि शरणागतशब्दप्रयोक्ता मया परिगृहीत इति मम महद्यशो भवेदित्येवमर्थं । अदुष्टपरिग्रहे गुणो मन्दः । दुष्टपरिग्रहे तु मम शरणागतरक्षणधर्म उत्तेजितोभवतीतिभावः । करुणयादुष्टपरिग्रहे शिष्टगर्हास्यादित्यत्राह–सतामेतदिति एतद्दुष्टस्यापि शरणागतस्यसंग्रहणं । सतां शिष्टानां । अगर्हितं गर्हितादन्यत् । पूजितमित्यर्थः । पूजितत्वं कपोतोपाख्यानादिभिः प्रपञ्चयिष्यते । एवंच शास्त्रेषु दोषाणां परित्यागहेतुत्वोक्तिः शरणागतव्यतिरिक्तविषयेति विषयव्यवस्थाऽभिप्रेता । अतएव दोषाधिक्येनवधार्हस्यापि शरणागतस्यरक्षणमेवकार्यमितिश्रुतिराह – तस्मादपिवध्यं प्रपन्नं न प्रतिप्रयच्छन्तीति । आचार्ययोजना । मित्रस्य स्नेहिनो भावो मित्रत्वं । तेन आशालेशमात्रेण । अद्वेषमाभिमुख्यमात्रंवाऽस्मदङ्गीकारे प्रयोजकं न तु पूर्णभक्तिरिति भावः । तथोक्तं – त्वामामनन्ति कवयः करुणामृताब्धे ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्था: पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वां इति ॥ यद्वा मित्रभावेन मित्रक्रियया । भावो लीलास्वभावयोः । जन्त्वभिप्रायचेष्टासु भूतौ विद्वत्पदार्थयोः । क्रियायामात्मनि इति नानार्थरत्नमाला । मित्रभावनयेतियावत् । अहृदयशरणोक्तयेत्यर्थः । तदप्युक्तं –  शरणवरणवागियं योदिता न भवति बत सापि धीपूर्विका इति । शरणागतभावेनेति वक्तव्ये मित्रभावेनेत्युक्तिः स्वाश्रयणाय कतिचित्पदानि कुर्वत्यपि स्वसदृशबुद्धिकारिणोभगवतोभि -प्रायेण । देव्यापि शरणागतिमभिधत्या तेन मैत्री भवतु ते यदि जीवितुमिच्छसि  इत्युक्तं । यद्वा मित्रभावेन मित्रत्वेन हेतुना । सुहृदं सर्वभूतानां इत्युक्तरीत्या अस्मदीयसहजसौहार्द -पुरस्कृत्येत्यर्थ: । यद्वा मित्रभावेन आनुकूल्यसंकल्पादिपूर्वकमित्यर्थः । यद्वा मितान्त्रायतइति मित्रं । ईश्वरोपकारं परिच्छिद्य तत्सदृशोपकारप्रवृत्तस्य भावेनेत्यर्थः । यद्वा विश्वसनीयस्थलं मित्रं । तन्मित्रं यत्र विश्वास : इत्युक्तत्वात् । विश्वासिनो भावेनेत्यर्थः । संप्राप्तं तस्याशालेशमात्रेण ह्रीरेषाहिममातुला इत्युक्तरीत्या मम तन्निवासगमने प्राप्तेपि स्वयमेव प्राप्तं कथं त्यजेयं । संप्राप्तं सम्यक्प्राप्तं । पादुके द्वारि विन्यस्य । देववन्दनकारिन्यायेनान्यत्रचित्तप्राप्तिमन्तरेण परिव्यक्ता मया लङ्का मित्राणि च धनानि च इति विरोधिनिवृत्तिपूर्वकं प्राप्तमित्यर्थः । यद्वा संप्राप्तं माता पिता भ्राता निवासः शरणं सुहृद्भतिर्नारायण इति न्यायेन मयि त्यक्तसकलविधबन्धुभावमाचरन्तं । यद्वा मदन्तरङ्गानुचरपुरस्कारेण प्राप्तं । यद्वा संप्राप्तं लङ्कायां स्थित्वा राघवं शरणं गतोस्मीत्युक्तंचेत् अतन्द्रितचमूपतीत्याद्युक्तन्यायेन मम तत्र गन्तव्यतायामपि तस्यागमनेन पङ्गोरुपरि गङ्गानिपतनवदस्मत्प्रयोजनमेवकृतं । संप्राप्तं प्राप्तिरेवास्माकमपेक्षितं न तु स्तुत्यर्चनध्यानप्रणामादिः । समित्यनेन मानसवाचिककायिकरूपपूर्णप्रपदनमुच्यते । न त्यजेयं त्यक्तुं न शक्नोमि । सर्वशक्तेरपि मम शरणागतशब्दश्राविणः परित्यागे शक्तिसंभावनामपि न पश्यामीत्यर्थः । संप्राप्तं न त्यजेयं, शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति इत्युक्तरीत्या रक्षापेक्षां प्रतीक्षमाणोहं कथं संप्राप्तं त्यजेयं । न त्यजेयं तत्संबन्धेन रावणविषयाकारापेक्षी कथं तमेव त्यजेयं । अतएव हि घण्टाकर्णपक्षपातेन तदनुजस्यापि मुक्तिं ददौ । अतएव च मालाकारविषयपक्षपातेन । युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति इत्युक्तवान् । न त्यजेयं । आगमनमात्रेण श्लाघनीये त्यागसंभावना कुतः संभावनायां लिङ् । त्यागसंभावनायां खलु साधनोद्योगः । तस्य त्यागे स्वसत्ताचेत् साधनोद्योग: स्यात् । सैव न निर्वहति कथमुद्योगः तत्स्वीकाराभावे स्वसत्ता न सिद्ध्यति चेत् तत्स्वीकारेऽस्मत्सत्ता न सिद्ध्यतीत्यस्मयोगः स्यात् स कथमुपपद्यत इति चेत्तत्राह — कथंचन । अप्यहं जीवितं जह्यां इत्युक्तरीत्या नवप्रसववात्सल्येन वत्सला गौ: पूर्ववत्सानिव युष्मानपि यक्ष्यामि नातं । यद्वा कथंचन सर्वदेशसर्वकालसर्वावस्थास्वपीत्यर्थ: । यद्वा कथंचन शरणागतस्य गुणाभावेपि दोषप्राचुर्येपि तत्परिग्रहस्य सर्वानभिमतत्वेपि दृष्टादृष्टानिष्टशतानुबन्धित्वेपि मत्प्राणपरित्यागे प्रस्तुतेपीत्यर्थ: । किंच दोषो यद्यपि तस्य स्यात् । अस्मदभिप्रायेण दोषो नास्त्येव अस्थानभयशङ्किनो भवतोभिप्रायेण तस्य दोषोस्ति चेत्स्यात् । अङ्गीकारेऽव्यय मिदं । दोषभोग्य त्वरूपवात्सल्यैकस्वभावस्य मे आश्रितदोषो ह्युपादेयइतिभावः । सुकुमारस्य राजकुमारस्य सुगन्धिमूलमृल्लेशवदस्य दोषभोग्यत्वं । यद्वा दोषो यद्यपि स्यात् । तस्य शरणागतस्य नदोषः । यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते इत्युक्तरीत्या दोषो लिष्येदित्याशयः । यद्वा दोषो यद्यपि स्यात् । स तस्य हि शरणागतिरूपनिरतिशयगुणशालिनो दोषो न त्याज्यकोटिमाटीकते । सुगन्धिमूलमृल्लेशवत् । यद्वा दोषो यद्यपि तस्य दोषोस्ति चेत्तत्संबन्धी खलुदोषः । स तस्मादपि श्लाघ्य: स्यात् । प्रार्थनायां लिङ् । अस्माभिः प्रार्थितः खलु । गुणवान्रक्षितश्चेत् गुणवक्ताप्रतिकरः । दोषवान्रक्षितश्चेदतिशयोस्माकमिति भावः । यद्वा दोषो यद्यपि अस्मद्वधापेक्षया तस्य स्यात् तस्या पेक्षितफलसिद्धिः स्यात् । कपोतोपाख्यानानुगुणेयं योजनेति श्रीवत्समिश्रा आहुः । कथं तर्हेतन्महामन्त्रिणो निन्दन्तीत्यत्राह —– सतामेतद्गर्हितं । एतत् आश्रितदोषाङ्गीकरणं । सतां अगर्हितं अनिन्दितं । अस्मत्पक्षपातिनामस्थानभयशङ्किनां निन्दितत्वेपि परमार्थदर्शिनां कपोतादीनांच न निन्दितमिति भावः । यद्वा एवं दुष्टापरित्यागे प्रत्यवायपरिहारो वा पुरुषार्थसिद्धिर्वा पापक्षयो वेति चेन्नैतदित्याह – सतामिति । सद्गोष्ठीष्वस्मद्गर्हापरिहारएव फलं स्वमारणोद्योगवतामपि रक्षकाः कपोतादयः तेषामगर्हितं । यद्वा दुष्ट जनपरिग्रहस्य शिष्टगर्हितत्वाच्छास्त्रनिन्दितत्वाच्चायुक्तमित्याशय सत्यमेतद्दुष्टजनत्याज्यत्ववचनं सामान्यविषयं । तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्तीत्येवमादिशरणागतापरित्यागविषय विशेषशास्त्रस्य सद्भावात् । दुष्टस्यापि शरणागतस्य संरक्षणे शिष्टगर्हणा नास्ति प्रत्युत श्रेय एवेत्याह- सतामेतद्गर्हितमिति । एतत् दुष्टशरणागतपरिग्रहणं । सतां सामान्यविशेषशास्त्रविदां । अगर्हितं गर्हितादन्यत् । पूजनीयमित्यर्थः । सर्वशक्तेः काचिदशक्तिः । सर्वज्ञस्य किंचिदज्ञानं च मित्रभावेनेति लोकेन दर्शितमिति गोविन्दयतिनः प्रत्यवदन् ॥ ३ ॥

 

सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च

ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ४ ॥

अथ सुग्रीवो राम- प्रकृतिमाकर्ण्य अतिसाहसमेतदित्यन्तं भीतभीतः प्राह – सुग्रीव इति ॥ आभाष्य अनूद्य । शुभतरं नीतिशास्त्ररहस्यमूलत्वात्स्वामिविषयप्रेमातिशयनिबन्धन -त्वाच्च शुभतरं । वाक्यमुवाच । अत्र लक्ष्मणमित्युक्तत्वादुपसंहारे सहलक्ष्मण इत्युक्त्वाचोभयोरपि वचनमुभावपिप्रति प्रतिवचनं च बोध्यम् ॥ ४ ॥

 

सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ॥ ५ ॥

सुदुष्ट इत्यर्धमेकं वाक्यं ॥ अस्माभिः पूर्वमुक्कैछिद्रान्वेषित्वादिदोषैर्युक्तो भवतु वा मा वा कृतनः स एष रजनीचर: । किं किमर्थं । परित्याज्य एवेत्यर्थः ॥ ५ ॥

 

ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत्

को नाम स भवेत्तस्य यमेष न परित्यजेत् ॥ ६॥

कृतघ्नतामेवाह – ईदृशमिति ॥ यं बन्धुं । एष व्यसने प्राप्ते न परित्यजेत्स कस्तस्य भवेत् नकोपीत्यर्थः । भ्रातरं परित्यजन् सर्वानपि परित्यजेदेवेति भावः । ईदृशं व्यसनं । लङ्कादहनपुत्रवधादिकमारभ्य समुद्रतीरनिवेशपर्यन्तं व्यसनमित्यर्थः ॥ ६ ॥

 

वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च

ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्

इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥ ७ ॥

अथ सूक्ष्मधर्मानभिज्ञस्य सुग्रीवस्य नीतिमर्यादयैवोत्तरं बक्कुमारभते – वानराधिपतेरिति सार्धश्लोकः ।। ईषदुत्स्मयमानः धर्मरहस्यमिदं मम परमशक्ति शरणागतसंरक्षणव्रतं च सम्यगपरिज्ञाय यत्किंचिद्वदत्ययमिति मन्दस्मयंकुर्वन् ॥ ७ ॥

 

अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च

न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥ ८ ॥

प्रथमं तद्वचनमुपलालयति – अनधीत्येति ॥ ८ ॥

 

अस्ति सूक्ष्मतरं किंचिद्यदत्र प्रतिभाति मे

प्रत्यक्षं लौकिकं वाऽपि विद्यते सर्वराजसु ॥ ९ ॥

सूक्ष्मतरं किंचित् अर्थस्वरूपमितिशेषः । तदेवार्थस्वरूपं विशिनष्टि – प्रत्यक्षमिति । प्रत्यक्षं दृष्टं । लौकिकं लोकसिद्धं । यत्सर्वेष्वपि राजसु विद्यते मे प्रतिभाति च तत्सूक्ष्मतरं किंचिद्धर्मस्वरूपमस्तीतिसंबन्धः ॥ ९ ॥

 

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः

व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥ १० ॥

तदेवार्थस्वरूपमाह – अमित्रा इति ॥ तत्कुलीनाः ज्ञातयः । प्रातिदेश्याः समनन्तरदेशाधिपाश्च । व्यसनेषु समुपस्थितेषु प्रहर्तारः अमित्राः शत्रवः कीर्तिताः । तस्माद्व्यसनप्रहर्तृज्ञातित्वात् ॥१०॥

 

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान्हितान्

प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ११ ॥

व्यसनिनं रावणं परित्यज्यागमने कारणान्तरमस्तीत्याह- अपापा इति ॥ अपापास्तत्कुलीना नरेन्द्राः । हितान् हितपरान् । स्वकान् ज्ञातीन् मानयन्त्येव । तेषामपि नरेन्द्राणां शोभनो गुणवानेष ज्ञातिः प्रायः शङ्कनीयः । लोके पापभूयिष्ठतया शोभनोपि प्रायेण शङ्कनीयः । पापिनस्तु नरेन्द्रस्य तादृशो ज्ञातिः शङ्कनीय इति किमु वक्तव्यम् । अतोयं रावणेन शङ्कितस्तेन सह विरुध्यैवागत इत्यर्थः ॥ ११ ॥

 

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिलस्य च

तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु

न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ॥ १२ ॥

एवं रावणपरित्यागे हेतुमुक्त्वा स्वापरित्यागे हेतुं वक्तुं प्रतिजानीते यस्त्विति ॥ अरिबलस्य विभीषणस्य । दोषः को नाम स भवेत्तस्येत्यादिनोक्तः । तत्र विषये । यथाशास्त्रं नीतिशास्त्रमनतिक्रम्य । इदमुत्तरं – न वयमिति । न वयं तत्कुलीना: राक्षसराज्यानः । अस्माकं तद्राज्ये आकाङ्क्षाभावात् । मम रावणस्येव तस्मिन्नरित्वशङ्काप्रसक्तिर्नास्ति । अतो नास्मांस्त्यक्ष्यतीति भावः । किंच राक्षसो विभीषणस्तु राज्यकाङ्क्षी अस्मन्मुखेन रावणं घातयति । अतः स्वकार्यविघातभयादपिनास्माकमपकारं करोतीत्यर्थः ॥ १२ ॥

 

पण्डिता हि भविष्यन्ति तस्माद्बाह्यो विभीषणः ॥ १३ ॥

ननु मूर्खा राक्षसाः कथमेवं विमृश्यकारिण इत्याशय नायं नियम इत्याह – पण्डिता इति ॥ अर्धमेकं वाक्यं । राक्षसा अपीत्यर्थः  ।। १३ ।।

 

अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति संगताः

प्रणादश्च महानेष ततोस्य भयमागतम्

इति भेदं गमिष्यन्ति तस्माद्बाह्यो विभीषणः ॥ १४ ॥

पुनरप्यस्य रावणेन विरुध्यागमनमेव प्रतिपादयन् परिग्राह्यत्वं निगमयति- अव्यग्रा इति सार्धश्लोकेन ॥ ते ज्ञातयः अव्यग्राः प्रहृष्टाश्च सन्तः कदाचिदप्यन्योन्यसंगताः न भविष्यन्ति न भवन्तीति । अनेनैव हेतुना ज्ञातयोवसरे भेदं गमिष्यन्ति गच्छन्ति । अस्य च भीतस्यैव महान् प्रणादः श्रूयते । अतो बलीयसो रावणात् अस्य भयमागतं तेन च भयेनात्मत्राणार्थमागत इति परिप्राह्योयमित्यर्थः ॥ १४ ॥

 

न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः

मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥ १५ ॥

ननु दुष्टोपि ज्येष्ठोनुवर्तनीय एवेत्याशय यद्यप्ययं धर्म: तथापि न सर्वत्र संभवतीत्याह न सर्व इति ॥ मद्विधा वा पितुः पुत्रा: इति भूतार्थकथनत्वान्नात्मप्रशंसादोषः यथा । कृपावानविकत्थनः इत्युक्तलक्षणेन धीरोदात्तेन दुष्यन्तेन सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः इत्युक्तं । यथा च हनुमता पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेय महं शक्त: परिगन्तुं सहस्रधा इति । दण्डिना च काव्यादर्शे प्रथमपरिच्छेदे । स्वगुणाविष्क्रियादोषो मात्र भूतार्थशंसिनः । अपि त्वनियमो दृष्टस्तथा वन्यैरुदीरणात् इति ॥ यद्वा पूर्वश्लोकार्थस्य भरतेति प्रसङ्गं परिहरति — सर्व इति । तातेति सान्त्वोक्तिः । सर्वे भ्रातरः भरतोपमा न भवन्ति । कैकेयीवरप्राप्तं पित्रा दत्तमपि राज्यं परित्यज्य वनं गतं मामनुसृत्य तवैव राज्यं त्वमेव गृहाण । अहं त्वद्दास्यं करिष्यामीति वदन्भरतादन्यः कश्चिदस्ति किमिति भावः । एवंविधप्रसक्त्यभावालक्ष्मणस्यानुपादानं । अत्र दृष्टान्तमाह – मद्विधा इत्यादिना । मद्विरहमात्रेण लोकान्तरं गतः पिता । तत्तुल्यपितृमानस्मत्सदृश: कश्चिदस्ति किमित्यर्थः । यद्वा मद्विधाः पितुः पुत्राः सन्तुवा मा वा भरतसमा भ्रातरस्त्वत्समा: सुहृदश्च न सन्तीत्यर्थः । सुहृदो वा भवद्विधाः । वर्षरात्रसमये स्थितेन मयाऽत्यन्तकुपितेन लक्ष्मणेन चात्यन्तं परुषमुक्तेपि अस्मासु प्रेमातिशयमेव प्रकटयन् त्वत्समः कोवास्तीति भावः । यद्वा मद्विधा वा पितुः पुत्रा न भवन्ति । निरतिशयपितृवात्सल्यभूतोस्मत्तुल्यो नास्तीत्यर्थः ॥ १५ ॥

 

एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः

उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥ १६ ॥

रावणेन प्रणिहितं तमवेमि विभीषणम्

तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ १७ ॥

अथ सुग्रीवो नीतिमुखेन विभीषणस्य त्याज्यतां प्रतिपादयितुमशक्तः परिग्रहे चाविदितभावोयं रामे कमनर्थमुत्पादयिष्यतीति प्रेमवशेन व्याकुलो विभीषण शरणागतेरेकस्याः सलक्ष्मणेन स्वेन क्रियमाणं शरणागतिद्वयं प्रबलमभिमन्यमानः शरणागतिपूर्वकं विभीषणनिग्रहं प्रार्थयते – एवमित्यादिचतुःश्लोकैः ॥ १६-१७ ॥

 

राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः

प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वाऽनघ ॥१८॥

लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह

रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ १९ ॥

राक्षस इत्यादि । अत्र मयि लक्ष्मण इति स्वस्य लक्ष्मणस्य चानर्थकथनं स्वव्यसनादपि स्वाश्रितव्यसनं रामस्यात्यन्तारुन्तुदमिति तत्प्रदर्शनेन विभीषणापरिग्रहसमर्थनार्थं ॥ १८-१९ ॥

 

एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः

वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ २० ॥

मौनमुपागमत् । प्रणयरोषादितिभावः ॥ २० ॥

सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्
।। २१ ।।

अथ रामः स्वस्य सर्वशक्तित्वप्रदर्शनेन सुग्रीवस्यातिशङ्कांनिवार्य शरणागतरक्षणरूपस्य स्वव्रतस्य । स्वव्रतस्य धर्मशास्त्र – सिद्धत्वात्तस्यापरित्याज्यतां प्रतिपादयति — सुप्रीवस्य त्वित्यादिना ।। विमृश्य मयि प्रेमातिशयेनैवमुक्तमिति विचार्य ॥ २१ ॥

 

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन
।। २२ ।।

सुग्रीवस्य भयं निवर्तयति – सुदुष्ट इति ॥ स एष रजनीचर: सुदुष्टो वा अदुष्टो वा भवतु किं करिष्यति । तदेव विवृणोति – सूक्ष्ममिति । सूक्ष्ममपीत्यनेन साक्षान्मयि मदाश्रितेषु मत्संबन्धि- संबन्धिष्वपि न शक्त इति भावः ॥ २२ ॥

 

पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान्
अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर
।। २३ ।।

कथं न शक्त इत्याकाङ्क्षायां स्वशक्ति दर्शयति-पिशाचानिति ॥ पृथिव्यां विद्यमानानितिशेषः । त्वं तावत्सकलैः स्वबळै: सह तिष्ठ अहमेक एव पर्याप्तइत्यभिप्रायेणाह- हरिगणेश्वरेति । अङ्गुल्यग्रेण शस्त्रास्त्रादिप्र- सङ्गशून्येनअङ्गुल्यन्तरनिरपेक्षेण एकस्यामप्यङ्गुल्यामंशान्तरव्यापारवर्जितेन । तत्रापि हस्तपादादिविशेषविवक्षाशून्येन अग्रमात्रेण । हन्यां हन्तुंशक्तः । नकेवलं लङ्कामात्रनिवासिनो राक्षसान् किन्तु स्थानान्तरनिवासिनोपीतिविवक्षया पृथिव्यांचैवेति निर्देशः । न केवलमेकजातीयानामेव लक्ष्यत्वं किन्तु सर्वेषामपीत्यभिप्रायेणाह- तानिति । तर्हि लङ्कामा त्रनिवासिनो राक्षसान्किमिति न हंसीत्यत्राह-इच्छन्निति । इच्छाभावादेव तद्वधाभावः । न त्वशक्त्येतिभावः ॥ २३ ॥

 

श्रूयते हि कपोतेन शत्रुः शरणमागतः
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः
।। २४ ।।

एवमस्मादपकारशङ्का नास्तीत्युक्त्वा भवतुवाऽयमपकारी तस्मादेवापकारान्मम प्राणा गच्छन्तु वा । अथापि नायंनिग्राह्यः नापिपरित्याज्य: । किन्त्ववश्यं रक्ष्यएवेति कपोतोपाख्यानेन प्रतिपादयति — श्रूयतेहीति ॥ हीतिप्रसिद्धेयमाख्यायिकेत्यर्थः । कपोतेन धर्माधिकारशून्येन तिर्यङ्मात्रेण । एतेनाप्यनुष्ठितत्वे किमु वक्तव्यमस्माकं कपोतेन एकेनासहायेन कृतं किमुत ससहायैरस्माभिः । शत्रुः कपोतस्य मृगयुः स्वयं भार्यापहारी वैरी । विभीषणस्त्वस्माकं नतथा । तथाप्यरक्षणे किमस्मत्पौरुषेण । शरणमागतः कपोताध्युषितद्रुमस्थलं यदृच्छयाप्राप्तः । सोञ्जलिं शिरसा बद्धा वाक्यमाह वनस्पतिम् । शरणं हि गतोस्म्यद्य देवतामिहवासिनीं इति ॥ स्वावासवनस्पतिदेवतां प्रत्युक्तवान् नतुकपोतं । विभीषणस्तु राघवं शरणं गत इति अस्मत्कूटस्थरघुराक्षससंवादोक्तशरणागतराक्षसरक्षणं पुरस्कृत्य मांप्राप्तः । यद्वा शरणं । शाखिनः पक्षिणां गृहं इत्युक्तरीत्या वनस्पतिरूपं गृहं प्राप्तः । न तु शरणागतिं चक्रे । शरणं गृहरक्षित्रो: । इत्यमरः । अर्चितश्च लुब्धकत्वात्सहजशत्रुत्वात् भार्यापहर्तृत्वाञ्चापन्नोप्यसावित्युपेक्षणस्य तद्वधोपायान्वेषणस्य च कर्तव्यत्वे प्राप्तेण्यतिथिंदेवत्वेनमत्वा शीतनिवारणायाभिमानीय पूजितः । वयंतु वध्यतामेष तीव्रेण दण्डेन सचिवैः सह इत्यनुबन्धिपर्यन्तं सम्यगर्चयामः । यथान्यायं । यावत्नुनिवृत्ति सन्मित्रागम इव समग्राद् रेणान्तर्विषादलेशं विना आहतः । यद्वा प्रियवचनादिभिः वचनांविनेत्यर्थः । स्वैश्च मांसैर्निमश्रितः । बहिः कतिचिदाहारानानीय स्वकीयद्रव्यान्तराणि कतिपयानि शरीरैकदेशान्वा दत्त्वा नोपचचार । किन्त्वज्ञैरात्मत्वेनाभिमन्यमानैः प्राज्ञैरप्याद्यं धर्मसा धनमित्यादरणीयैः शरीरमांसैः शरभङ्ग इव । इदमेकं महत्तपः इति मत्वा वह्नावह्नाय पतति स्म । निमन्त्रितः भोजनार्थनियोजितः ॥ २४ ॥

 

स हि तं प्रतिजग्राह भार्याहर्तारमागतम्
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः
।। २५ ।।

उक्तमेवार्थं दृढीकुर्वन् स्वस्य कैमुत्यमाह – स हि तमिति ॥ सः कपोतः । वयमिव धर्मानुष्ठानयोग्यजातौ शरण्यवंशे वा नोत्पन्नः । तं जात्या स्वभावेन च क्षुद्रसमाचारं पक्षिणां कालसंमित इत्यखिलपक्षिजातिविरोधिनं । तस्य कपोतस्यान्तिकंप्रति यदृच्छयाभ्येत्य पतितं उपायान्तरशून्यं विपरीतानुष्ठानैकनिरतं अनुतापलेशेन वा अनुकूलवादप्रसङ्गेन वाऽनन्वितं प्रति जग्राह । स्वात्मत्यागेनाङ्गीकृत्यावति स्म । पूर्वश्लोके शत्रुरिति सामान्येनोक्तमर्थं तद्वृत्तिप्रदर्शनेन विशिनष्टि — भार्याहर्तारमिति । एवमेव रावण आगतश्चेदस्माभिः कार्य इत्यभिप्रायः । आगतं अस्याङ्गीकाराय कृतमुपायानुष्ठानं कपोतावासद्रुमस्थलं प्रत्यागमनमा नमेव । तद्विना वनस्पतिदेवतां प्रत्युक्तं शरणशब्दं कपोतोनाशृणोत् । अत्र स हीत्यनेनैव कपोतानुवादे लब्धेपि पुनः कपोतग्रहणं श्येनकपोतोपाख्यानइव नायं परिगृहीतकपोतशरीरो देवो मुनिर्वा । किन्तु प्राकृतः कपोत इति ज्ञापनार्थं । अयं कपोतः प्राक्तनधर्मविशेषैर्गजेन्द्रादिवत्तिर्यक्त्वेप्येवंधर्मानुष्ठानयोग्यो बभूव । कपोत इत्यनेन तिर्यक्त्वं शास्त्रानधिकारित्वं बुद्धिमान्द्यं च सूचितं । वानरश्रेष्ठ पुनरप्येकस्तिर्यक् शत्रं रत्ना कथां शृणु । वानरः कश्चिद्व्याघ्राद्भीतं स्वावासद्रुममागतं किरातं ररक्ष । तदानीं वृक्ष मूलस्थो व्याघ्रस्तस्मिन्वानरे सुप्ते निषादं समीक्ष्य त्वां रक्षामि वानरं पातयेत्युवाच । ततः पापैकनिरतः किरातः स्वरक्षणकारिणं वानरं पातयामास । अनन्तरं वानरं पतितं गृहीत्वा व्याघ्रः त्वां जह्यां स्वोपकारिद्रोहिणं निषादं जहीति मनुष्यमांसलुब्धत्वादुवाच । ततो धर्मवित्स वानरः प्राणात्ययदशात्वादहृदयं तत्त्यागमङ्गीकृत्य व्याघ्रमुक्तस्तरुमा रुह्य स्वस्यापकर्तारं किरातं पश्चादपि गत्यन्तराभावान्निजवासद्रुमस्थितिहेतुना शरणागत इत्यरक्षत् । भवान्वानराधिपत्ये स्थितः सन् स्वजातिधर्म इति शरणागतरक्षणं किंनावलम्बते । किं पुनर्मद्विधो जनः । कपोतचरितं पश्यतां मादृशां किं वक्तव्यं । मद्विधः शरणागतरक्षणाय समुच्छ्रितध्वजे रघुवंशे जातः । षष्टिर्वर्षसहस्राणि लोकस्य चरता हितम् । पाण्डुरस्यातपत्रस्य छायायां जरितं मया इत्युक्तरीत्या लोकरक्षणदीक्षितस्य दशरथस्य पुत्रः । वसिष्ठविश्वामित्रादिशिष्यः महायोगिना जनकेन कृतसंबन्धः रामो विग्रहवान्धर्मः इति प्रसिद्धः । मर्यादानां च लोकस्य कर्ता कारयिता च सः इति सर्वलोकानुकृतधर्मानुष्ठान: अहं संप्रति शरणागत – हिंसां कुर्यां चेल्लोकः कीदृग्विधः स्यात् । मद्विधः मम वृत्तं पश्चाद्वक्ष्यते । सामान्येन धर्मसेतुर्नृपाणामिति मादृशानां संमतत्वेन स्थितः । मद्विधः मादृश: शरणागतत्यागं न करोति । अवध्यवधोन्मुखानां रावणादीनां खल्वीदृशं कार्यं रोचते । जनः शरणागतत्यागकृत्कीदृशोत्पत्तिमान्स्यात् ॥ २५ ॥

 

ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादि
नीम् ।। २६ ।।

ननु शास्त्रानधिकारिणस्तिरचोनुष्ठानमनुपादेयं न च चोदनामन्तरेण प्रकृतिमात्रेण धर्मत्वं सिध्यतीत्याशङ्ख्य । कण्डुमुनिगाथया विधानं दर्शयति — ऋषेरिति ॥ कण्वस्य पुत्रेणेत्यनेन महाकुलप्रसूतत्वं परमर्षिणेति यथार्थदर्शित्वं सत्यवादिनेति यथादृष्टार्थवादित्वं चोच्यते । तेन परमाप्तत्वं दर्शितं । वेदवचनादिसिद्धं । पुरा गीतां । कण्डुकल्पितेयमिति न मन्तव्यं । ऋच एव सामत्वात्पुरा विद्यमानामेवेदानीं गीयमानां गीतां एतत्कृतत्वेपि सामध्वनिवत्समस्तपापापनोदनक्षमां । धर्मिष्ठां वेदोक्तधर्मोपमेयस्मृत्युक्तप्रतिपादिकां । अनेन परमप्रयोजनत्वमुक्तं । सत्यवादिनीमितिपाठे अबाधितार्थप्रतिपादिनीं गाथां । अनेकार्थोचितसुलभाभ्यसनीयत्वाय संकुचितशब्दां शृणु । इतः पूर्वमेतद्गाथानाकर्णनेन खलु त्वमेवमाविलात्मासि एनामवहितमनाः शृणु ॥ २६ ॥

 

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्
न हन्यादानृशंस्यार्थमपि शत्रुं परंपत
।। २७ ।।

अथ कण्डुगाथायां चतुःश्लोक्यमाद्यश्लोकेन पूर्णप्रपत्त्यसिद्धावपि गत्यन्तरशून्यतयाऽऽमनिक्षेपाभिप्रायव्यञ्जकशरणागति शकलतुल्या अलिबन्धादिमात्र -विधानमपि हानिं ननयेत् तत्करणमनुग्रहावहमित्याह – बद्धाञ्जलिपुटमिति ॥ अनुकूलबुद्धिवाग्वृत्त्यभावेप्यञ्जलिमात्रमेवालं । अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी इति स्वतन्त्र स्याप्याशु दयाजननी मुद्रा खल्वियं । दीनं एवमञ्जलिबन्धमात्रं विनापि कार्पण्यद्योतनावस्थानमेवालं । याचन्तं अञ्जल्यायभावेपि कार्पण्ययोतनेप्यहृदयप्रार्थनैवालं शरणागतं । अञ्जलिबन्धादित्रयेप्यविद्यमाने रक्षकनिवासस्थलाभिगमनमेवालं । पूर्व स्वरक्षाभरनिक्षेपरूपशरणागतिशकलान्युक्त्वा शरणागतमिति पूर्णप्रपत्तिरुत्तेतिवा स्यात् । अपि शत्रुं साक्षाच्छत्रुमपि । न हन्यात् । अयं शास्त्रार्थ ऐहि- काभ्युदयार्थो वा परलोकार्थो वा प्रत्यवायपरिहारार्थो वेत्युक्ते सति तेभ्य: प्राक्प्रयोजनान्तरमाह – आनृशंस्यार्थमिति । अघातुकत्वसिद्ध्यर्थमित्यर्थः । नृशंसोयमिति लोकापवादपरिहारार्थमितियावत् । यद्वा आनृशंस्यं सकलधर्मसारभूतो दयागुणः तद्रक्षणार्थंवा । यथोक्तं सीतया – आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः इति । परंतपेति कण्डुरपि कंचिद्राजानं प्रत्युक्तवानितिगम्यते । परंतप । शरणागते किं पौरुषप्रकटनेन प्रत्यर्थिषु खलु तत्कर्तव्यमितिभावः ।। २७ ।।

 

आर्तो वा यदि वा दृप्तः परेषां शरणागतः
अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना
।। २८ ।।

पूर्वं न हन्यादिति स्वेन क्रियमाणं हननमात्रं प्रतिषिद्धं । अत्र स्वेतरक्रियमाणशरणागतपीडायामपि शरणागते आर्तत्वदृप्तत्वविभागानालोचनेन प्राणान्हित्वा तद्रक्षणं कार्यमित्याह – आर्तो वेति ॥ आर्त: स्वाभिमतसंभवे विलम्बाक्षमतीव्र संवेगवान्वा । शरणागमनवेलायामपि स्वापराधनिमित्तभयादिमान्वेत्यर्थ: । दृप्तस्तु विलम्बाविलम्बावनादृत्य फलसिद्धिमात्रसक्तः । अस्यां वेलायां विनयस्वापराधभयशून्यो वा । मुमुक्षुपक्षे संसारजुगुप्सानुसंधानेन सद्य एव देहनिवृत्तिकाम आर्त: । दृप्तः शरीरावसाने मुक्तिकामः । यद्वा आकिंचन्यानन्यगतित्वपुरस्सरं प्रपन्न आर्त: । स्तोभहेलनादिरूपेण शरणागतोस्मीति ब्रुवन् दृप्तः परेषां शरणागतः स्वव्यतिरिक्तशरणागतः । यद्वा परेषामिति निर्धारणे षष्ठी । परेषां मध्ये शरणागतोरिः वैरे हृदि विद्यमानेपि शरणागतिशब्दमात्रमभिदधानः पुरुषः कृतासना निश्चितमनस्केन । धर्मशास्त्र विश्वासशालिनेत्यर्थः । प्राणान्परित्यज्य रक्षितव्यः । अस्थिरान्प्राणान्परित्यज्य स्थिरं शरणागतरक्षणं कर्तव्यं । कृतात्मनेति विशेषणेन विदुषोतिक्रमे दण्डभूयस्त्वमुक्तं । शरणागतरक्षणशास्त्रस्य निरवकाशत्वात् । सर्वथैवालानं गोपायेदिति शास्त्रस्य सावकाशत्वात्तद्व्यतिरिक्तविषयेप्यवस्थाप्यमितिभावः ॥ २८ ॥

 

स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति
स्वया शक्त्या यथा
त्त्वं तत्पापं लोकगर्हितम् ।। २९ ।।

एवं शरणागतरक्षणधर्मे चोदनामभिधाय तदरक्षणे प्रत्यवायमाह सचेदिति ॥ भयात् तद्रक्षणे तच्छत्रुसकाशात् तस्माद्वा । किरात न्यायेन स्वस्यापि भयमुत्प्रेक्ष्य ततोहेतोः । मोहात् शास्त्रार्थापरिज्ञानात् । कामात् स्वच्छन्दवृत्तिस्वाभाव्यात् तच्छत्रुसकाशात्किचिल्लाभापेक्षणाद्वा । स्वयाशक्त्या स्वकीयेन केनचित्सामर्थ्यप्रकारेण । स्वसहायसंपादनस्वकीयद्रव्यदानादिना शरीरत्यागपर्यन्तेनोपायकलापेनेत्यर्थः । यथासत्त्वं सत्त्वमनतिक्रम्य । शक्तौ सत्यामपि येन केनचिच्छलेन शक्तिवचनामकृत्वा । तत् अरक्षणं । पापप्रत्यवायहेतुः । अनेन निरयहेतुलमुक्तं । न केवलं परलोकबाधकं । इह लोकेपि सर्वजनगर्हितमित्याह – लोकगतिमिति ॥ २९ ॥

 

विनष्टः पश्यतस्तस्यारक्षिणः शरणागतः
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः
।। ।।

न केवलमैहिकानर्थहेतुत्वमात्रं पूर्वसंचितसकलसुकृत विनाशकमपीत्याह-विनष्ट इति ॥ यः कश्चिद्यं कंचिच्छरणमागतः । तमरक्षिणस्तस्य पश्यतः रक्षकत्वेन वृते समर्थे च तस्मिन्पश्यति । तेनारक्षणेनैव स्वशत्रुसकाशाद्विनष्टश्चेत् तस्य अरक्षकस्यसंबन्धि अनादिकालसंचितं सर्वे सुकृतमादाय गच्छति । अस्यारक्षकस्य समार्जितसकलसुकृतक्षयोभवतीत्यर्थः ।। ३० ।।

 

एवं दोषो महानत्र प्रपन्नानामरक्षणे ।। ।।

कण्डुवचनचतुःश्लोकीतात्पर्यं संग्रहेणाह- एवं दोषो महानत्र प्रपन्नानामरक्षण इत्यर्धेन ॥ ३१ ॥
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये
।। ।।

विस्तरेणाह-अस्वर्ग्यमित्यादिना ।। अस्वर्ग्यं स्वर्गविरुद्धं । नरकहेतुभूतमित्यर्थः । अयशस्यं अकीर्तिकरं । बलवीर्यविनाशनं । ययोः शारीरबलवीर्ययोः संतोरेव शरणागतो न रक्षितः तयोर्विनाशकमित्यर्थः । अत्र अरक्षणमिति विशेष्यमनुषज्यते । एवं शरणागतरक्षणे कण्डुवचनं प्रमाणयित्वा धर्मसंस्थापनप्रवृतस्य ममैतदवश्यंपालनीयमित्याह – करिष्यामीति ॥ उत्तमं लोकाहतं । न केवलमकरणे प्रत्यवायबाहुल्यं करणे दृष्टादृष्टाभ्युदया बहवः सन्तीत्यपि कण्डुवचनतात्पर्यमिति रामः स्वयमाह – धर्मिष्ठमिति ॥ पापनिवर्तकधर्मोपेतत्वं विवक्षितं । फलहेतुर्धर्मोपेतत्वस्य स्वर्ग्यमित्यनेनैव सिद्धत्वात् । फलोदये फलप्रदानकालेसमुपस्थिते । स्वर्ग्यं । स्वर्गहेतुरित्यर्थः । अत्र प्रतिपायगतं धर्मिष्ठत्वादिकं प्रतिपादकवचने समुपचर्यते ॥ ३२ ॥

 

सकृदेव प्रपन्नाय तवास्मीति च याचते
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम
।। ३३ ।।

एवं श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्संकल्पज: कामोधर्ममूलमिदं स्मृतं । इति याज्ञवल्क्योक्तधर्मप्रमाणेषु श्रूयत इत्यनेन, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्तीत्यादिना श्रुतिः । कण्डुगाथामुखेन स्मृतिः । कपोतादिना शिष्टाचारः । प्रतिपक्षनिरसनपूर्वकबलवदुपपादनेन स्वप्रियत्वं चेत्येवं चतुर्षु प्रमाणेषु प्रपन्नरक्षणरूपपरमधर्मविषयेषु दर्शितेषु संप्रति तत्र प्रमाणं पञ्चमं दर्शयति — सकृदेवेति ॥ सकृदेव एकवारमेव । उपायान्तरेष्वावृत्तिः शास्त्रार्थः प्रपत्तौ त्वनावृत्तिः सकृदेव हि शास्त्रार्थः कृतोयं तारयेन्नरं इत्युक्तेः । प्रपन्नाय गत्यर्था ज्ञानार्था इति न्यायेनात्र मानसप्रपतिरुच्यते । तवास्मीति तु वाचिकी । उभयोरन्यतरेण युक्तायापीत्यर्थः । यद्वा प्रपन्नायेत्युपायः कथ्यते । तवास्मीति च याचत इति तच्छेषवृत्तिलक्षणफलविशेषप्रार्थना । एवंभूतायाधिकारिणे । सर्वभूतेभ्य इति भीत्रार्थानां भयहेतुः इत्यपादानत्वं । भयहेतुतया शङ्कितेभ्यः सर्वभूतेभ्यः । अभयं भयाभाव । ददामि । अभयमेव मोक्षो नाम । अथ सोभयं गतो भवति आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति इति ब्रह्मविद्याफलत्वेन श्रवणात् । एतत् तवास्मीति फलविशेषयाच्ञेति पक्षस्यानुकूलं । पक्षान्तरे त्रैवर्गिकफलानामप्येतदुपलक्षणं । स्वस्य सकलफलप्रदत्वात् । एतद्वतं मम व्रतवदिदं कस्यांचिदपिदशायां परित्यागायोग्यमित्यर्थः । अत्र सर्वभूतेभ्य इत्यपि चतुर्थी प्रपन्नसंबन्धिभ्योपि सर्वभूतेभ्योभयं ददामि । पशुर्मनुष्य: पक्षी वा ये च वैष्णवसं श्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदं इत्युक्तेः ।। ३३ ॥

 

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्
।। ।।

एवमुक्ते सत्यसंभवदुत्तरं प्रशान्तप्रेमान्ध्यतया प्रसन्नमुखं विभीषणाभिमुखं सुग्रीवमालोक्य तमेव तदानयने नियुङ्गे – आनयैनमिति ॥ निवेदयतेति सपरिवारान्युष्मान् । पुरुषकारतया वृतवन्तमेनं यूयमेवानयत । तथा सत्येतावत्पर्यन्तमस्वीकारकृतदुःखमस्य निवर्तेत । हरिश्रेष्ठ तस्य दुःख निवृत्तये त्वमेव गत्वानयसि चेन्मयि स्नेहवद्भ्यो हरिभ्यः श्रेष्ठं भवन्तमतिक्रम्य किमहं स्वीकरोमि । दत्तमस्याभयं मया । अस्य स्वबन्धुत्यागपूर्वकं स्वनिकर्षकीर्तनपुरःसरं चागतस्य मया मित्रभावेनैवालमिति मन्यमानेन अभयं दत्तं । शरणशब्दश्रवणकाल एवेति शेषः । कथमानयेयमित्याकुलितं समाधत्ते – विभीषणो वेत्यादिना । विभीषणो वा । विभीषणस्तु धर्मात्मा इति विभीषणस्वीकारो धर्मवत्स्वीकारतया नोत्कर्षाय । रावणस्य नृशंसस्येति रावणस्वीकारएवोत्कर्षः स्यादिति । विभीषणस्वीकारे तत्परिकराः चत्वार एवरक्षिताः स्युः । रावणस्वीकारेतु लङ्कास्थाः सर्वेपि रक्षिताः स्युरितिमहाल्लाभः । सुग्रीव । अस्माकमागतोतिशयो युष्माकं तुल्यः खलु । एकं दुःखं सुखं च नौ इत्युक्तेः । यदि वा रावणः स्वयं यत्संबन्धेन विभीषणेप्यतिशङ्का स एवास्तु स्वयं । सीतामपुरस्कृत्य स्वयमागतो रावणो वास्तु । यद्वा स्वयं अयं यदि विभीषणो न भवति किंतु कामरूपी रावण एव विभीषणभूमिकां परिगृह्य यद्यागतः तथाप्यस्याभयं मया दत्तं । त्वमपि रावणोयं न तु विभीषण इति विज्ञापनायापि पुनर्नागच्छेः । किंत्वानयैवेत्यर्थः॥ ३४ ॥

 

रामस्य तु चः श्रुत्वा सुग्रीवः प्लवगेश्वरः
प्रत्यभाषत काकुत्स्थं सौहार्देन
प्रचोदितः ।। ।।

अथ सुग्रीवः ॥ क्वचिदप्यसंभावितं रामस्य शरणागते स्वस्मिंश्च सौहादार्तिशयमालोच्य विस्मयपरवश आह -रामस्येति ॥ सौहार्देन प्रचोदितः । सर्वानपि दोषाननालोच्य विपरीतप्रवृत्तान् पूर्वसुहृदो नानाप्रकारैरनुनीय यदि वा रावणः स्वयमिति वदतो रामचन्द्रस्य कोयं सौहादतिशय इति विस्मयेन प्रेरित इत्यर्थः ॥ ३५ ॥

 

किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्स
त्पथे स्थितः ।। ।।

एवं विस्मयातिशयाद्वक्तुमुपक्रान्तो रामस्य स्वाभाविकान्कल्याणगुणौघानालोच्य सहजधर्मत्वादेतद्रामे नाश्चर्यकरमित्याह – किमिति ॥ धर्मज्ञ । धर्मसूक्ष्मतत्त्वज्ञस्य तव धर्मानुष्ठानं किमाश्चर्य । लोकनाथ । भृत्य – वर्गसंरक्षणं स्वामिनः किं चित्रं सुखावह स्वय मवाप्तसमस्तकामत्वेन परप्रयोजनैकपरायणस्य सर्वसुखकारिणस्तव शरणागतेषु समाश्रितेष्वस्मासु सुखकारित्वे कोवा विस्मयः । आर्यं समीचीनं । सत्रवान् प्रशस्ताध्यवसायवान् । द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु इत्यमरः । दृढव्रतस्य व्रतपरिपालनंकिमद्भुतं । यद्वा सत्त्वं बलं सर्वशक्तेस्तव समाश्रितभयनिवारणं किमाश्चर्यं । सत्पथे स्थितः । धर्मसंस्थापनार्थमेवावतीर्णस्य शरणागतरक्षणरूपविशेषधर्मानुष्ठानं नाश्चर्यमित्यर्थः । प्रपन्नसंरक्षणे धर्मज्ञत्वादिष्वन्यतम एव गुणः पर्याप्तः । किमुत सर्वेपि समुदिता इतिभावः ॥ ३६ ॥

 

मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्
अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः
।। ।।

किमस्मत्प्रशंसनेन त्वन्मनः प्रवृत्तौ खलु विभीषणो ग्राह्य: स्यात्तत्राह-ममेति ॥ मम । वध्यतामेष तीव्रेण दण्डेन इत्युक्तवतोपि । न केवलमस्मिन्नर्थे मदन्तःकरणप्रवृतिरेकमेव प्रमाणं । प्रमाणान्तराण्यपि सन्तीत्याहअनुमानादिति । अनुमानात् त्वया हनुमता चोक्तयुक्तिकदम्बात् । भावात् भावबोधकान्मुखप्रसादादिलिङ्गात् । सर्वतः सर्वत्र । अन्तर्बहिश्चेत्यर्थः । यद्वा अनुमानात् हृदयप्रकाशकमुखविकासादिलिङ्गात् । भावात् आर्तध्वनिप्रकाशितमृदुस्वभावात् । चशब्देन वध्यतामपीत्युक्तावस्थायां न त्यजेयमिति कालेप्येक रूपत्वं समुचीयते । सुपरीक्षितः संशयविपर्ययराहित्येन परीक्षितः । अन्तरात्मा अन्तःकरणं । चापीति रामान्तः करणसमुच्चयार्थः ॥ ३७ ॥

 

तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः
।। ३८ ।।

पूर्वमानयैनमिति नियुक्तमनुतिष्ठति – तस्मादिति । क्षिप्रं पूर्वमज्ञान वशान्मया पापमाचरितं । तत्त्वविचारे त्वयं क्षणमात्रं विलम्बानर्ह इतिभावः । तुल्यो भवतु । निवेदयत मामिति पुरुषकारकरणायाभ्यर्थितानां नृशंसानामस्माकं पुरुषकारत्वं  संपादयितुमेव तवायं प्रयासश्च सिद्धः । इतः परमस्माभिः पुरुषकाव्यापारः क्रियत इत्यर्थः । एवं विभीषणस्य पुरुषार्थमर्थयित्वा तत्सख्यरूपं स्वेषां पुरुषार्थमर्थयते – विभीषण इति । महाप्राज्ञः फलसाधनोपयोगिज्ञानवान् । न केवलं ममैव सर्वेषामिदं फलं समानमिति दर्शयितुं नः सखित्वमित्युक्तं ॥ ३८ ॥

 

ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः
विभीषणेनाशु जगाम सङ्गमं
पतत्रिराजेन यथा पुरन्दरः ।। ३९ ।।

एवं सुहृत्तरसुग्रीवाभ्यनुज्ञानानन्तरं शरण्यस्य शरणागतसंगमविशेष दर्शयति — तत इति ॥ सुग्रीववचो निशम्य ततो हरीश्वरेणामिहितं विभीषणेन संगमं जगामेत्यन्वयः । अभिहितं हे विभीषण राघवस्तवाभयं दत्तवान् राघवमुपयाहीत्येवं सुग्रीवोक्तं । नरेश्वरः संगमं जगामेति संगमोपि कर्तुरीप्सिततमत्वकथनेन रामस्यायं लाभ इति गम्यते । न त्यजेयं कथंचनेत्यादिभिः सुग्रीवादिवाक्यरूपविरोधिनिरसनपूर्वकं श्रीविभीषणस्वीकारं प्रतिश्रुत्य कथंचित्सुग्रीवादिवाक्यजनितं विलम्बमविषह्य त्वरया रक्षितुं स्वयमेव तेन संगत इत्याहविभीषणेनाशु जगाम संगममिति । आशु त्वरितं । आश्रितसंश्लेषे स्वयं त्वरातिशयवानितिभावः । पुरंदरो यथा पतन्त्रिराजेन संगमं स्वलाभममन्यत तथाऽयमपीति दृष्टान्ताभिप्राय: । यद्वा सुग्रीवस्य बुद्धिः पुनर्विपरीता चेत्कार्यहानिरिति शीघ्रं जगाम ॥ ३९ ॥

 

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.