32 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः

सीतया मायानिर्मितशिरसि सादृश्याद्रामशिरस्त्वप्रत्यभिज्ञानेन शोकाद्वहुधाविलापः ॥ १ ॥ अत्रान्तरे प्रहस्तप्रहितदूतान्हानेन रावणापयाने मायाशिरसोऽन्तर्धानम् ॥ २ ॥ राक्षसैरावणप्रेरणया रणभेरीवादनेन सेनासंनाहनम् ॥ ३ ॥

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता
।। ।।

अथ सीताप्रलापो द्वात्रिंशे–सा सीतेत्यादिश्लोकत्रयमेकं वाक्यं ॥ हनुमता पूर्वं कथितं । सुग्रीवप्रतिसंसर्ग रामस्य सुग्रीवप्रतिसंबन्धं । रावणमुखाच्छ्रुत्वेतिशेषः । यद्वा दृष्ट्वा ज्ञात्वेत्यर्थः । ज्ञानं च सुग्रीवप्रतिसंबन्धस्य स्मरणं । अन्यत्र साक्षात्कारः ॥ १ ॥

नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्
केशान्केशान्तदेशं च तं च चूडामणिं शुभम्
।। ।।

नयने इति द्वितीया । भर्तुः सदृशं । भर्तुर्मुखसदृशमित्यर्थः । इदं नयनादावण्यन्वेति । केशान्तदेशं ललाटं ॥ २ ॥

 

एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता
विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा
।। ।।

अभिज्ञानैः चिह्नैः ।  प्रज्ञानं चाप्यभिज्ञानं इत्यमरः । अभिज्ञाय तदेव शिर इति प्रत्यभिज्ञायेत्यर्थः । अत्र रामविषये ॥ ३ ॥

 

सकामा भव कैकेयि हतोऽयं कुलनन्दनः
कुलमुत्सादितं सर्वं त्वया कलहशीलया
।। ।।

हे कैकेयि सकामा भव । संपूर्णकामाभवेत्यर्थः । कः काम इत्यत्राह —हत इति । कलहशीलया कलहस्वभावया । कलहप्रयोजनयेतियावत् । त्वया सर्वं कुलं रघुवंशः । उत्सादितं भवति । तथा कुलनन्दनोयं रामो हतः । प्रव्राजनव्याजेन रामहननमेव त्वया संकल्पितं तदिदानीं विपरीतफलं ते जातं । कुलतन्तुभूतरामहननेन तदेकपराः सर्वे भरतादयो हता एव । कलह एव ते प्रयोजनं फलितमितिभावः ॥ ४ ॥

 

आर्येण किं ते कैकेयि कृतं रामेण विप्रियम्
न्मया चीरवसनस्तया प्रस्थापितो वनम्

[ इदानीं स हि धर्मात्मा राक्षसैश्च कथं हतः ।। ।। ]

हेत्वन्तराभावादिदमेव रामवनप्रव्राजने हेतुरित्याह-आर्येणेति ॥ आर्येण सर्वप्रियकारिणेत्यर्थः । यत् येन कारणेन । मया सह चीरवसनो रामः प्रस्थापितः तादृशं विप्रियं किं कृतं ॥ ५ ॥

 

एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी
जगाम जगतीं बाला छिन्ना तु कदली यथा
।। ।।

तपस्विनी शोचनीया । जगतीं भूमिं । जगाम । मूच्छितेत्यर्थः । बाला मृदुबुद्धिरित्यर्थः ॥ ६ ॥

 

सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम्
तच्छिरः समुपाघ्राय विललापायतेक्षणा
।। ।।

समाश्वास्य उच्छ्रासं प्राप्य । चेतनांज्ञानं । आयतेक्षणा अश्रुमिश्रत्वेन शिरोवलोकनार्थं विस्तृतविलोचनेत्यर्थः ॥ ७ ॥

 

हा हतास्मि महाबाहो वीरव्रतमनुव्रता
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता
।। ।।

वीरव्रतं शत्रुमहत्वा न निवर्तिष्य इति संकल्पं । अनुव्रत अनुप्राप्त । गतास्मि दृष्टवत्यस्मि । गत्यर्था ज्ञानार्था: इति न्यायात् । अतो विधवा कृता ।। ८ ॥

 

प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः
।। ।।

प्रथमं भर्तुर्मरणं भार्यादोषनिमित्तकं भवति तत्त्वत्र न पश्यामीत्याह – प्रथममिति ॥ प्रथमं भर्तुर्मरणं नार्या वैगुण्यं वैगुण्यहेतुकं । सुवृत्तस्त्वं साधुवृत्ताया ममाग्रतः संवृत्तः मृतः । कथमिदं संगच्छत इति भावः । अस्मिन्पक्षे न सुवृत्तपदस्वारस्यं । यद्वा भवन्मरणस्य मद्दोष एव हेतुरित्याह- प्रथममिति । विगुण एव वैगुण्यं । स्वार्थे ष्यञ् । प्रथमं भर्तृमरणं भार्यादोषनिमित्तकमिति सुप्रसिद्धं । अतो हे सुवृत्त साधुवृत्त । साधुवृत्तायाः सम्यग्जीवनवत्याः । ममाप्रतस्त्वं मृतोसि । मद्वैगुण्यहेतुकं त्वन्मरणमितिभावः । सुवृत्तेत्यनेन त्वद्वैगुण्यहेतुकं न भवतीति ज्ञापितं ॥ ९ ॥

 

दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः
।। १० ।।

स्वस्य वैगुण्यसद्भावे निदर्शनमाह-दुःखादिति ॥ दुःखाहुः खं अत्यन्तदुःखं । प्रपन्नाया: वन प्रस्थानं प्रथमं दुःखं तस्मादपिदुःखं रावणेनापहरणं तत् प्राप्तायाइत्यर्थः । संप्रति भर्तृमरणेन शोकसागरे निमग्नायाः । इयं च षष्ठी यस्य च भावेन भावलक्षणम् इत्यस्मिन्नर्थे । शोकसागरे मग्नायाः शोकसागरे मग्नायां मयि । दुःखाहुःखं प्रपन्नाया: प्रपन्नायां सत्यां । यो मां त्रातुमुद्यतः स त्वमपि विनिपातित इति संबन्धः ॥ १० ॥

 

सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता
।। ११ ।।

न केवलं ममैवदुःखं मातुश्चेत्याह—सेति ॥ सा मम श्वश्रूः कौसल्या वत्सला धेनुर्यथा धेनुरिव । त्वया हतेन पुत्रेण वत्सेनेव विवत्सा कृता ॥ ११ ॥

 

आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम
अनृतं वचनं तेषामल्पायुरसि राघव
।। १२ ।।

यैः ब्राह्मणैः । दीर्घमा युरित्यादिष्टं उपदिष्टं । तेषां वचनमनृतमासीत् । अनृतत्वे हेतुमाह-अल्पायुरसीति । अचिन्त्यपराक्रमेत्यनेन ते पराक्रमं दृष्ट्वा तैरुक्तं नतु शास्त्रं दृष्ट्वेति गम्यते ॥ १२ ॥

 

अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव
पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्
।। १३ ।।

अथवा तेषामनृतवादित्वं नास्त्येव किंतु तवैवभाग्यविपर्यासात्तेषामपिप्रज्ञानष्टेति पक्षान्तरमवलम्बते—अथवेति ॥ प्रभवत्यस्मादिति प्रभवः । भूतानां कारणभूतः । अयं कालः परमात्मा । यथा येन प्रकारेण । एनं पचनविषयभूतं । पचति पक्वकमागणं करोति । तथा प्राज्ञस्य भविष्यदर्थवेदिनोपि । सतः सत्पुरुषस्य । प्रज्ञा । तव त्वयि विषये । नश्यति नष्टेत्यर्थः । यद्वा पूर्वमचिन्त्यपराक्रमेति तव कथं विपत्तिरित्यभिप्रायेण संबोधितं । तत्र पक्षान्तरमाह— अथवेति ॥ एनं रामं । येन प्रकारेण काल: पचति । तथास्य प्राज्ञस्यापि प्रज्ञा नश्यति । अतो विपत्तिरियमिति भावः ।। १३ ।।

 

अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने
।। १४ ।।

हि यस्माद्व्यसनानां वर्जने प्रतिरोधे । कुशलोसि । अतः अदृष्टं अचिन्तितं सौप्तिकत्वेनादृष्टं वा मृत्युं । कस्मादापन्नः कथमापन्नोसीत्यर्थः ॥ १४ ॥

 

तथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया
कालरात्र्या म
माच्छिद्य हृतः कमललोचनः ।। १५ ।।

रौद्रया क्रूरया । कालरात्र्या यस्यां रात्रौ समुद्रतीरे निविष्टोसि तया रात्र्या । संपरिष्वज्य । मम मत्तः । आच्छिद्य अपहृत्य । तथा हृतोसीति संबन्धः । यद्वा मयेति पाठः । रौद्रया अतिनृशंसया । अत्यन्तनिर्दयया कालरात्र्या कर्त्र्या मया करणभूतया । संपरिष्वज्य आच्छिद्य बलात्कृत्य । तथा हृत इति । कालरात्रिर्नाम सर्वभूतापहारिणी काचन शक्ति: । यद्वा मया कालरात्र्येति व्यस्तरूपकं । संपरिष्वज्य त्वमाच्छिद्य बलाद्धृतोसीति । घोरवैधव्यलक्षणयुक्तत्वेन क्रूराया मे परिष्वङ्ग एव तेऽन्तहेतुरासीदित्यर्थ: । शिरश्छेदारलीलत्वेन तथेत्युक्तं । कमललोचनेति हेतुगर्भ । कमललोचनत्वात् त्वं कालरात्र्या हृतोसि । परिकरानुप्राणितरूपकालङ्कारः ॥ १५ ॥

 

उपशेषे महाबाहो मां विहाय तपस्विनीम्
प्रियामिव
समाश्लिष्य पृथिवीं पुरुषर्षभ ।। १६ ।।

तपस्विनीं शोचनीयां । प्रियां मत्तः प्रियां । पुरुषर्षभेत्यनेन दक्षिणस्य शठत्वमनुचितमिति द्योत्यते ॥ १६ ॥

 

अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्
।। १७ ।।

मया सह । तव त्वया । यदर्चितं तत्ते धनुः इदं एतादृशं जातमित्यर्थः ॥ १७ ॥

 

पित्रा दशरथेन त्वं श्वशुरेण ममानघ
र्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ।। १८ ।।

सर्वैः पितृभिः सार्धं स्थितेन दशरथेन । समागत इति संबन्धः ॥ १८ ॥

 

दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम्
पुण्यं राजर्षिवंशं त्वमात्मनः समपेक्षसे
।। १९ ।।

महत्कर्मकृतां महाकर्मकृतां । आत्वाभाव आर्ष: । प्रियं कर्मफलत्वेन काङ्क्षणीयं । पुण्यं आत्मनो राजर्षिवंशं इक्ष्वाकुप्रमुखं । दिवि नक्षत्रभूतः विमानस्थ: सन् समवेक्षसे पश्यसि ॥ १९ ॥

 

किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे
बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम्
।। २० ।।

बालां बाल्येन संप्राप्तां । बाल्य एव त्वयोढामित्यर्थः । भार्या सदा भर्तुं योग्यां । मां एतादृशावस्थामा पन्नां सहचारिणीं । मां किं न प्रेक्षसे किं न प्रतिभाषस इति संबन्धः ॥ २० ॥

 

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया
स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्
।। २१ ।।

मम पाणि गृह्णता त्वया चरिष्यामि सहचरिष्यामीति यत् संश्रुतं प्रतिज्ञातं । तत् स्मर । स्मृत्वा मामपि त्वत्समीपं नय ॥ २१ ॥

 

कस्मान्मामपहाय त्वं गतो गतिमतां वर
अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम्
।। २२ ।।

त्यक्त्वा त्वां विहाय । दुःखितां मामपि प्रेयसीमपि मां । अपहाय अस्माल्लोकात् अमुं लोकं परलोकं । कस्माद्धेतोः गतोसि ।। २२ ।।

 

कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते
।। २३ ।।

यदित्यर्थे यत्तदित्यपि प्रयुज्यते । कल्याणैः मङ्गलैः । शुभैश्चन्दनादिभिर्वा सुवर्णाभरणैर्वा । उचितं अभ्यस्तं । यत्तच्छरीरं मयैव परिष्वक्तं नान्यया । एतद्य क्रव्यादैः श्येनादिभिः । विपरिकृष्यते । अत्र मयैवेत्यनेन रामस्य दारान्तरं नास्तीति गम्यते ॥ २३ ॥

 

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे
।। २४ ।।

वनवासनिवृत्त्यनन्तरं त्वं । आप्तदक्षिणैः पर्याप्तदक्षिणैः । अग्निष्टोमादिभि यज्ञैः । इष्टवान् कृतदेवपूजनो भूत्वा । अग्निहोत्रेण यज्ञीयवह्निना । संस्कार केन हेतुना न लप्स्यसे । अत्र वनवासात्पूर्वमग्न्याधानाय भावात्तन्निवृत्त्यनन्तरं माधानाग्निष्टोमादिक मनुष्ठाय पञ्चात्क्रमप्राप्तायुरवसाने यज्ञीयाग्निभिः संस्कारं प्राप्तुं योग्यस्त्वं कथमेवं मध्ये मरणप्राप्तोसीतिभावः । अनेन वनवासात्पूर्वं रामेण यज्ञादिकं नानुष्ठितमिति सूच्यते । अयमर्थोऽयोध्याकाण्डे सम्यक्प्रतिपादितः ॥ २४ ॥

 

प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा
।। २५ ।।

प्रव्रज्यां प्रवासं । व्रजयजोर्भावे क्यप् इति क्यप् । उपपन्नानां प्राप्तानां । त्रयाणां रामादीनां मध्ये एकं लक्ष्मणमागतं । शोकलालसा शोकमन्दा । कौसल्या परिप्रक्ष्यति ॥ २५ ॥

 

स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्
।। २६ ।।

सः लक्ष्मणः । परिपृच्छन्त्यास्तस्याः ते मित्रबलस्य वधं तववधं चाख्यास्यते ॥ २६ ॥

 

सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्
हृदये
नावदीर्णेन न भविष्यति राघव ।। २७ ।।

सुप्तं हतं सुप्तत्वदशायां हतमित्यर्थः । अवदीर्णेन भिन्नेन । हृदयेनोपलक्षिता सा नभविष्यति न जीविष्यति ॥ २७ ॥

 

मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः ।

रामः सागरमुत्तीर्य सत्ववान्गोष्पदे हतः ॥ २८ ॥

अनार्यायाः दुश्शीलायाः । मम हेतोः मन्निमित्तं । अनर्हः एतादृशसौप्तिक्रवधानर्हः । सागरमुत्तीर्य गोष्पदे हतः खरतरखरादीन्हत्वा क्षुद्रेण प्रहस्तेन हत इत्यर्थः ॥ २८ ॥

 

अहं दाशरथेनोढा मोहात्स्वकुलपांसनी ।

आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥

स्वकुलपांसनी स्वकुलदूषणी । अहं मोहात् अज्ञानात् । दाशरथेनोढास्मि । अतो रामस्य भार्यैव मृत्युरजायत ।। २९ ।।

 

नूनमन्यां मया जातिं वारितं दानमुत्तमम् ।

याऽहमद्येह शोचामि भार्या सर्वोतिथेरपि ॥ ३० ॥

मया अन्यां जातिं प्राप्य । यद्वा अन्यां जातिं अन्यस्मिञ्जन्मनि । उत्तमं दानं वारितं । कन्यादानं वारितमित्यर्थः । तत्र हेतुमाह — येति । सर्वे अतिथयो यस्य तस्य सर्वातिथेः । सर्वरक्षितुरित्यर्थः । सर्वातिथिपूजकस्येति वाऽर्थः । भार्यापि याहं इह जन्मनि अद्य भोगकाल एव शोचामि ॥ ३० ॥

 

साधु पातय मां क्षिप्रं रामस्योपरि रावणः
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्
।। ३१ ।।

शिरसा मे शिरश्चास्य कायं कायेन योजय
रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः
।। ३२ ।।
[ मुहूर्तमपि नेच्छामि जीवितुं पापजीविना

श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः
।। ३३ ।।

क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता
अहिंसा चैव भूतानां तमृते का गतिर्मम
।। ३४ ।। ]

समानय योजय । उत्तमं कल्याणं पतिसंयोगरूपं ॥ ३१-३४ ॥

 

इति सा दुःखसन्तप्ता विललापायतेक्षणा
भर्तुः शिरो धनुस्तत्र समीक्ष्य
त पुनः पुनः ।। ३५ ।।

शिरः धनुश्च । तत्र पुरोदेशे ॥ ३५ ॥

 

एवं लालप्यमानायां सीतायां तत्र राक्षसः
अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः
।। ३६ ।।

लालप्यमानायां प्रलपन्त्यां । भर्तारं रावणं । अनीकस्थः द्वाररक्षी । ननुं लौकिकीषु काचिदिव सीता भर्तृशिरस्साक्षात्कारेपि चिरं रुदित्वा विलप्य कथं जीवितं धारयति स्म । उच्यते । अनयोर्दिव्यदम्पत्योः परस्परसत्तैव जीवितधारणे निमित्तं नतु ज्ञानाज्ञाने । अतो भर्तुर्जीवितवैकल्याभावात्सा जीवति स्म ॥ ३६ ॥

 

विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च
न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्
।। ३७ ।।

अनुप्राप्तं द्वारीति शेषः ॥ ३७ ॥

 

अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः

तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ।। ३८ ।।

वयमितिभयेन बहुवचनं बहूनामन्तः पुरे समागमासंभवात् ॥ ३८ ॥

 

नूनमस्ति महाराज राजभावात्क्षमान्वितम् ।
किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु
।। ३९ ।।

एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्
अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ
।। ४० ।।

प्रहस्तेन प्रेषितोपि कथमनवसरे समागतोसीत्याशङ्क्याह – नूनमिति ॥ राजभावात् राजत्वाद्धेतो: । क्षमान्वितं तदानीमेव कर्तव्यत्वेपि तव राजभावात् क्षमया त्वदाज्ञाप्रतीक्षणेनान्वितं । आत्ययिकं आतिपातिकं किंचित्कार्यमस्ति नूनं । तत्तस्मात्तेषां प्रहस्तादीनां दर्शनं कुर्वित्यन्वयः ॥ ३९–४० ॥

 

स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः
सभां प्रविश्य विदधे विदित्वा रामविक्रमम्
।। ४१ ।।

सः रावणः । रामविक्रमं विदित्वा सभां प्रविश्य आमनः सर्वे कृत्यं मन्त्रिभिः सह समर्थ्य निश्चित्य । विधे । प्रकृतकार्यमिति शेषः ॥ ४१ ॥

 

अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्
जगाम रावणस्यैव निर्याणसमनन्तरम्
।। ४२ ।।

निर्याणं निर्गमनं ॥ ४२ ॥

 

राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः
समर्थयामास तदा रामकार्यविनिश्चयम्
।। ४३ ।।

अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः
अब्रवीत्कालसदृशो रावणो राक्षसाधिपः
।। ४४ ।।

समर्थ्यत्युक्तं विवृणोति – राक्षसेन्द्र इति ॥ रामकार्यविनिश्वयं रामविषये स्वकृत्यनिश्चयं ॥ ४३ – ४४ ॥

 

शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे
समानयध्वं सैन्यानि वक्तव्यं च न कारणम्
।। ४५ ।।

स्फुटकोणाहतेन उल्बणवादनदण्डाहतिजनितेन । कार्ये कारणोपचारः । वक्तव्यं च न कारणमिति । युद्धार्थ निर्यातेति पुरे प्रवदन्ति चेद्रलाध्यक्षाः तदानीं देव्याः सन्निधौ कथितं स्वकीयं रामसैन्यवधवृत्तान्तवाक्यमसत्यमिति तस्याः विदितं स्यादिति भावः ॥ ४५ ॥

 

ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम्
समानयंश्चैव समागतं च ते
न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ।। ४६ ।।

आत्मनः आत्मनां । भर्तरि विषये ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः ॥ ३२

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.