13 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशः सर्गः

महापार्थेन कुंभकर्णवचनाकर्णन कुपितरावणप्रहर्षणाय सदृष्टान्तोपन्यासं बलात्कारेणसीतोपभोगचोदना ॥ १ ॥ रावणेन सश्लाघंतंप्रति स्वकृत पुञ्जकस्थलीहठोपभोग लब्धब्रह्मशापस्यहठोपभोगप्रतिबन्धकस्वनिवेदनपूर्वकं रामजयेकुंभकर्णादिनियोजनसूचकत द्वचनोत्तरतयास्वपराक्रमवर्णन पूर्वक मितरनैरपेक्ष्येण स्वस्यरामादिपराजयसामर्थ्योक्तिः ॥ २ ॥

रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।

मुहूर्त मनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥

अथ रावणस्य दुर्मन्त्रिमतानुसारित्वमाह-रावण- मित्यादि ॥ क्रुद्धं कुम्भकर्णोक्तनयापरिज्ञानवचनेनेत्यर्थः । मुहूर्तमनुसंचिन्त्य रावणक्रोधनिवारणोपायं विचार्येत्यर्थः ॥ १ ॥

 

यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम्

न पिबेन्मधु सम्प्राप्तं स नरो बालिशो भवेत्

खलुर्वाक्यालंकारे । दुष्करं सीताहरणं श्रमेण कृत्वा तत्संभोगमकुर्वाणस्त्वं क्षौद्राकाङ्क्षयाऽतिगहनं वनं प्रविश्य तदपिवञ्चनइवमूढोसीतिभावः ॥ २ ॥

 

ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।

रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥

शत्रुषु विद्यमानेष्वधर्मावह मिदंकथं कुर्यामित्यत्राह – ईश्वरस्येति ॥ सर्वनियन्तुस्तव को वा नियन्तास्ति । अतो धर्मान्न भेतव्यमितिभावः । शत्रून् मूर्धस्वाक्रम्य तांस्तृणीकृत्येत्यर्थः । अर्थान्तरं तु रामस्येश्वरः कोस्ति । स निग्रहीतुं न शक्य इत्यर्थः । शत्रून् रामं । पूजायां बहुवचनं । दशस्वपि मूर्धस्वाक्रम्य शिरसाप्रणम्येत्यर्थः । वैदेह्या सह रमस्व वैदेह्यां । यथा स्वभर्ता रमते तथा त्वमपि स्वदारेषु रमस्व । वैदेह्या सह रामं प्रणम्येति वा योजना ॥ ३ ॥

 

बलात्कुक्कुटवृत्तेन वर्तस्व सुमहाबल ।

अक्रम्याक्रम्य सीतां वै तथा भुङक्ष्स्व रमस्व च ॥

किं करोमि सा हि न मामभिलषतीत्यत्राह – बलादिति ॥ कुकुटवृत्तेन कुक्कुटवृत्त्या । भावे क्तः । कुकुटो वञ्चनामार्गेण स्वदयितामाक्रमते । त्वमपीत्यर्थः । कुक्कुटानां कामुककुक्कुटसङ्गे कोपो जातिधर्म: । तथा सीतामनुभव । यथा कुक्कुटा:सुखिनः तद्वदित्यर्थः । यथाह वात्स्यायन:- क्रुद्धामाक्रम्य भोगस्तु कौक्कुट: सोपि सौख्यदः इति । भुङ्क्ष्व भोगं भज । रमस्व निर्विचारो भवेत्यर्थः । मुनिहृदयं तु कुक्कुटवृत्तेनान्यत्र वर्तस्व सीतां तु बलात् भुङ्क्ष्व रक्ष । भुज परिपालनाभ्यवहारयोः इति धातुः । आत्मनेपदमार्षं ॥ ४ ॥

 

लब्धकामस्य ते पश्चादागमिष्यति यद्भभयम् ।

प्राप्तमप्राप्तकालं वा सर्वम् प्रतिविधास्यते ॥

एतन्निमित्तमागामि भयमनिवार्य कथमेवं क्रियतामित्यत्राह – लब्धेति ॥ एवं लब्धकामस्य ते पश्चात् कामलाभानन्तरं । यत् भयमागमिष्यति । प्राप्तं तदानी मागतं । अप्राप्तकालं प्राप्तकालमित्यस्य प्राप्तापत्रे च द्वितीयया इति समासः । तथा न भवतीत्य – प्राप्तकालं । आगामीतियावत् । प्रतिसहिष्यसि अभिभविष्यसीत्यर्थः ॥ ५ ॥

कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।

प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ॥

तिष्ठतु भवान् त्वद्भातृपुत्रावेव प्रतिपक्षप्रतिषेधे शक्तावित्याह – कुम्भकर्ण इति ॥ ६ ॥

 

उपप्रदानं सान्त्वम् वा भेदं वा कुशलैः कृतम् ।

समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥

विभीषणमतं खण्डयति – उपप्रदानमिति ॥ अकुशलै: युद्धासमर्थैः । कृतं दानादिकं । अतिक्रम्य त्यक्त्वा । दण्डेन बलात्कारेण । अर्थेषु प्रयोजनेषु । सिद्धिं रोचय ॥ ७ ॥

 

इह प्राप्तान्वयं सर्वान् शत्रूम्स्तव महाबल ।

वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥

रामादयो यत्र वर्तन्ते तत्र गत्वा योद्धव्यमित्युक्तं निकुम्भादिमतं दूषयन्नाह – इहेति ॥ इह लङ्कापरिसरे । शस्त्रप्रतापेन शस्त्रबलेन । वशे करिष्यामः । निग्रहिष्याम इत्यर्थः ॥ ८ ॥

 

एवमुक्तस्तदा राजा महापार्श्वेन रावणः ।

तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥

संपूजयन् स्वचित्तानुगुणमुक्तमिति श्लाघयन्नित्यर्थः ॥ ९ ॥

 

महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।

चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥ १०

महापार्श्वेति संबोधनं ।। प्रमुदितोऽस्मीति शेषः । चिरवृत्तं रहस्यं किंचित् । अस्तीति शेषः । यत्पुरा मयावाप्तं तदाख्यास्य इति योजना ॥ १० ॥

 

पितामहस्य भवनं गच्चन्तीम् पुञ्जिकस्थलाम् ।

चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ ११

गच्छन्तीं । पितामहवन्दनायेति शेषः । पुञ्जिकस्थला नाम काचिदप्सराः । चञ्चूर्यमाणां भीत्या निलीय गच्छन्तीं । लुपसदचर- इत्यादिना भावगर्हायां यङ् । संचरणामकस्य भावस्य गर्हा निलयनं । चरफलोश्च इति नुक् । उत्परस्यातः इत्युकारः । अग्निशिखामिवेति तेजोविशेषोक्तिः । यद्वा द्रावकत्वोक्तिः । अत एवोक्तं – अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् इति । संचार्यमाणामिति पाठे परिचारिकादर्शितमार्गामित्यर्थः ॥ ११ ॥

 

सा प्रसह्य मया भुक्ता कृता विवसना ततः ।

स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥ १२

विवसना कृता सा मया भुक्तेत्यन्वयः ॥ १२ ॥

 

तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः ।

अथ संकुपितो देवो मामिदं वाक्यमब्रवीत् १३

तत् घर्षणं । मन्य इत्यनेन शापमात्रं मया श्रुतं । घर्षण- श्रवणं तु मया ऊहितमिति गम्यते ॥ १३ ॥

 

अद्यप्रभृति यामन्याम् बलान्नारीं गमिष्यसि ।

तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥ १४

इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् ।

नारोहये बलात्सीतां वैदेहीम् शयने शुभे ॥ १५

अद्यप्रभृति एतत्क्षणमारभ्य । क्रियाविशेषणमेतत् । तदा गमनकाले एव फलिष्यति विशीर्णो भविष्यति । इति एवंप्रकारस्य शापस्य शापादित्यर्थः । प्रसभं नारोप इत्यन्वयोन बलादित्यनेन पौनरुक्त्यात् । किंतु प्रसभं शापस्येत्यन्वयः । वैदेहीमित्यनेन महाकुलप्रसूततया तच्छापादपि भीतोऽस्मीत्यवगम्यते ।। १४-१५ ।।

 

सागरस्येव मे वेगो मारुतस्येव मे गतिः ।

नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥ १६

एवं न युक्ता बलात्कर्तुं सीतेत्युक्त्वा अस्माभिः सह कुम्भकर्णेन्द्रजितौ योत्स्यत इति महापार्श्ववचनस्यासहायशूरे मयि विद्यमाने किमन्येनेति परिहारमाह– सागरस्येति ॥ एतत् वेगगतिमत्त्वं । आसादयति सेनामिति शेषः । स्वार्थण्यन्तो वा । तेन अवेदनेन ॥ १६ ॥

 

यैस्तु सिम्हमिवासीनं सुप्तम् गिरिगुहाशये ।

क्रुद्धम् मृत्युमिवाऽसीनं सम्बोधयितुमिच्चति ॥ १७

स्वप्रभावावेदनेनाहितमाह — यस्त्विति ॥ सुप्तं सिंहमिवासीनं सिंहमिव स्थितमित्यर्थः । मृत्युमित्यत्रापि सुप्तमित्यनुषज्यते । अन्यथा प्रबोधयितुमिच्छतीत्यनेनानन्वयः । क्रुद्धं क्रोधार्हं । यथा सुप्तं सिंहं मृत्युं वा प्रबोधयितुमिच्छन् पुरुषोऽनभिज्ञ एव । तद्वत् तूष्णीं स्थितं मां प्रकोपयन्त्रामोपीति भावः ॥ १७ ॥

 

न मत्तो निशितान्बाणान् द्विजिह्वानिवन्नगान्

रामः पश्यति सम्ग्रामे तेन मामभिगच्छति ॥ १८

रामो मत्पराक्रमं न वेत्त्येव तत्तिष्ठतु मद्बाणवेगं वा जानाति नैवेत्याहनेति ॥ लेलिहानतादशां द्योतयितुं द्विजिह्वानित्युक्तं ॥ १८ ॥

 

क्षिप्रम् वज्रोपमैर्बाणैः शतधा कार्मुकच्युतैः ।

राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥ १९

आदीपयिष्यामि सन्तापयिष्यामि । उल्काभिः निर्गतज्वालकाष्ठैः । कुञ्जरपलायनार्थमुल्काः प्रदर्शयन्तीति प्रसिद्धिः ॥ १९ ॥

 

तच्चास्य बलमादास्ये बलेन महता वृतः ।

उदयन्सविता काले नक्षत्राणामिव प्रभाम् २०

एवं रामं पलाययित्वा तस्य सेनां हनिष्यामीत्याह- तच्चेति ॥ आदास्ये खण्डयिष्ये । दो अवखण्डने इति धातुः ॥ २० ॥

 

न वासवेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः ।

मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता ॥ २१

देवानामप्यजय्योस्मि कथं मनुष्यादीनां जय्यो भविष्यामीत्याशयेनाह – न वासवेनेति ।। सहस्रचक्षुषेति तस्याभिमानातिशयोक्तिः । युधा -युद्धेन न शक्योस्मि । जेतुमिति शेषः । उत्तरार्धेन कुबेरेणापि न जेतुं शक्य इति सिद्धं । अत्र वंशस्थ- वृत्तं ॥ २१ ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशः सर्गः ॥ १३

इति श्रोगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.