36 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्स्त्रिंशः सर्गः

रावणेनात्मश्लाघनेनरामवधप्रतिज्ञानपूर्वकं सोपालंभंमाल्यवद्विसर्जनम् ॥ १ ॥ तथा मन्त्रिभिस्सहमन्त्रपूर्वकं प्राच्यादिदिक्षु पुररक्षणायसैन्यैःसहप्रहस्तादिप्रेषणेनान्तःपुरप्रवेशः ॥ २ ॥

तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः
न मर्षयति दुष्टात्मा कालस्य वशमागतः
।। ।।

अथ लङ्कागुप्तिकरणं षट्त्रिंशे – तत्विति ॥ हितमुक्तं हितं यथा भवति तथा उक्तं । न मर्षयति नामर्षयत् ॥ १ ॥

 

स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः
अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्
।। ।।

परिवृत्ताक्षः घूर्णिताक्षः ॥ २ ॥

 

हितबुद्ध्या यदहितं वचः परुषमुच्यते
परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम
।। ।।

परपक्षं प्रविश्यैव शत्रुषु स्नेहमनुसृत्यैव । हितबुद्ध्या हितमित्ययं ज्ञास्यतीति बुद्ध्या । अहितं परुषं च । यद्वच उक्तं । एतत् मम श्रोत्रं न गतमित्यन्वयः ॥ ३ ॥

 

मानुषं कृपणं राममेकं शाखामृगाश्रयम्
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्
।। ।।

भवतः परपक्षानुसारश्च न युक्त इत्याह- मानुषमिति ।। मानुषं जात्या हीनबलं । कृपणं प्रकृत्या हीनं । एकं असहायं । शाखामृगाश्रयं क्षुद्रसहायं । पित्रा व्यक्तं निर्धनं । वनालयं राज्यहीनं । रामं केन कथंप्रकारेण । समर्थं प्रबलं । मन्यसे ॥ ४ ॥

 

रक्षसामीश्वरं मां च देवतानां भयङ्करम्
हीनं मां मन्यसे केन
ह्यहीनं सर्वविक्रमैः ।। ।।

स्वस्मिन् तद्वैपरीत्यमाह – रक्षसामिति ॥ हीनं दुर्बलं ॥ ५ ॥

 

वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः
त्वयाऽहं परुषाण्युक्तः परप्रोत्साहनेन वा
।। ।।

एवं परप्राबल्यस्वदौर्बल्ययोरभावेपि परुषोक्तौ हेतुमाशङ्कते- वीरद्वेषेणेति । वीरद्वेषेण सजातीयवीरद्वेषेण । रिपोः पक्षपातेन शत्रौ पक्षपातेन ॥ ६ ॥

 

प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः
।। ।।

परप्रोत्साहनेनेत्येतदुपपादयति — प्रभवन्तमिति ॥ प्रभवन्तं प्रभावयुक्तं । पदस्थं परिपक्कबुद्धिं । परप्रोत्साहनाभावे पण्डितस्य पदस्थविषयकपरुषवचनं नोपपद्यत इत्यर्थः ॥ ७ ॥

 

आनीय च वनात्सीतां पद्महीनामिव श्रियम्
किमर्थं प्रतिदास्यामि राघवस्य भयादहम्
।। ।।

वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्
पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया
।। ।।

अस्तु त्वदुक्तं परमार्थ: तथापि दुर्लभवस्तुविशेषः कथं त्याज्य इत्याह – आनीयेति ।। किंमर्थं केन हेतुना । राघवस्य राघवात् ॥ ८-९ ॥

 

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे
स कस्माद्रावणो युद्धे भयमाहारयिष्यति
।। १० ।।

द्वन्द्वे द्वन्द्वयुद्धे । युद्धे रामयुद्धे ॥ १० ॥

 

द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्
एष मे सहजो दोषः स्वभावो दुरतिक्रमः
।। ११ ।।

अत्यन्तहितपरं वृद्धं मातामहं कथमेवं परुषमुक्तवानस्मीत्यनुतापेनाह-द्विधेति ॥ राम आगत्य भयं जनयिष्यतीति त्वयोक्तं । न केवलं भयमात्रं । द्विधा भज्येयं शिरश्छेदं प्राप्नुयां । एवमपि न नमेयं । कस्यचित् । न केवलं रामस्य ततोपि शतगुणबलवतोपि द्विधा भङ्गादपि कस्यचिन्नमनमत्यन्तदुःसहमित्यर्थः । तर्हि हीयमानेनसन्धि:कार्य इति नीतिशास्त्रविरोध: स्यात्तत्राह — एष मे सहजो दोष इति । यदि दोषत्वमनुमतं तर्हि स त्याज्य एवेत्याशङ्ख्याह – स्वभाव इति । नहि तिक्तो निम्बो मधुरायत इति भावः ॥ ११ ॥

 

यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया
रामेण विस्मयः कोऽत्र येन ते भयमागतम्
।। १२ ।।

अथ सेतुबन्धेन विस्मयसे चेत् तदपिकाकतालीयं । अतोमाभूत्ते भयमित्याह – यदीति ।। तावत्समुद्रे स्वल्पसमुद्र इत्यर्थः ॥ १२ ॥

 

स तु तीर्त्वाऽर्णवं रामः सह वानरसेनया
प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति
।। १३ ।।

अर्णवं तीर्त्वा स्थितो राम इत्यर्थः ॥ १३ ॥

 

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्
व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत
।। १४।।

संरब्धं अहंकारयुक्तं । व्रीडित इति । स्वोपदेशवैफल्यादितिभावः ॥ १४ ॥

 

जयाशिषा च राजानं वर्धयित्वा यथोचितम्
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्
।। १५ ।।

यथोचितमिति । प्रत्युत्थानादिनेति भावः ॥ १५ ॥

 

रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च
लङ्कायामतुलां गुप्तिं कारयामास राक्षसः
।। १६ ।।

मन्त्रयित्वा कर्तव्यं विचार्य । विमृश्य निश्चिय ॥ १६ ॥

 

व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम्
दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ
।। १७ ।।

पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा
व्यादिदेश महामायं
हुभी राक्षसैर्वृतम् ।। १८ ।।

व्यादिदेश रक्षणायेति शेषः ॥ १७-१८ ।।

 

उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ
स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह
।। १९ ।।

भविष्यामीत्यनन्तरमितिकरणं द्रष्टव्यं ॥ १९ ॥

 

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्
मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः
।। २० ।।

मध्यमे गुल्म इति गुल्मो नाम नगरमध्यचैत्यस्थानं ॥ २० ॥

 

एवंविधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः
कृतकृत्यमिमात्मानं मन्यते कालचोदितः ।। २१ ।।

विधानं रक्षणसंविधानं ॥ २१ ॥

 

विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम्
जयाशिषा मन्त्रगणेन पूजितो
विवेश चाऽन्तःपुरमृद्धिमन्महत् ।। २२ ।।

पुष्कलं समग्रं ॥ २२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्स्त्रिंशः सर्गः ॥ ३६

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.