102 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः

रामेणसुषेणंप्रति रावणशक्तिघातपतितलक्ष्मणप्रदर्शनपूर्वकं तस्यनिधनशङ्कया विषादेनबहुधाविलापः ॥ १ ॥ सुषेणेनरामंप्रति हेतूपन्यासेनलक्ष्मणप्राणधारणनिर्धारणो -क्त्त्यासमाश्वासनपूर्वकं हनुमन्तंप्रति विशल्यकरण्याद्योषधिसमानयनचोदना ॥ २ ॥ ओषधिगिरिंगतेनहनुमता ओषधीनामन्तर्धानेकोपादुत्पाटनेनतच्छिखरस्यैव समानयनम् ॥ ३ ॥ सुषेणेननासान्यस्तमहौषधिक्षोद समाघ्राणनमात्राद्विशल्येनलक्ष्मणेन स्वापादिव समुत्थानम् ॥ ४ ॥ सहर्षबाष्पंरामपरिष्वक्तेनलक्ष्मणेन तंप्रति सत्वरं रावणवधप्रार्थना ॥ ५ ॥

शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।

लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। १ ।।

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।

विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ २ ।।

अथ लक्ष्मणसंजीवनं द्विशततमे – शक्त्या विनिहतमित्यादिश्लोकद्वयमेकं वाक्यं ॥ विसृजन्नेवेत्यादिवर्तमाननिर्देशन रावणपलायनानन्तरं लक्ष्मणयोगक्षेमानुसंधाने अविलम्ब: सूचितः ।। १-२ ।।

 

एष रावणवेगेन लक्ष्मणः पतितः क्षितौ ।

सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३ ॥

उदीरयन् जनयन् ॥ ३ ॥

 

शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम ।

पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ४ ॥

अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।

यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥ ५ ॥

प्राणैः प्राणेभ्यः ॥ ४-५ ॥

 

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।

सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।

अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ।। ६ ।।

चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।। ७ ।।

लज्जतीवेत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ लज्जतीव । आर्षं परस्मैपदं । स्वप्नयाने स्वप्नगमने । स्वप्ने हि गच्छतां पुरुषाणां पादाः पश्चादाकृष्टा भवन्ति । भ्रातरं निहतं दृष्ट्वेति पूर्वशेषः ॥ ६–७ ॥

 

विनिष्टनन्तं दुःखार्तं मर्मण्यभिहतं भृशम् ।

राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।

दुःखेन महताविष्टो ध्यानशोकपरायणः ।। ८ ।।

विनिष्टनन्तमित्यादिसार्धश्लोकमेकं वाक्यं ॥ विनिष्टनन्तं निश्वसन्तं । ध्यानशोकपरायणः अभूदिति शेषः ॥ ८ ॥

 

परं विषादमापन्नो विललापाकुलेन्द्रियः ।। ९ ।।

परं विषादमित्यर्धं ॥ राघव इत्यनुषञ्जनीयं ॥ ९ ॥

 

न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।

भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ।। १० ।।

दृष्ट्वा स्थितस्येति शेषः ।। १० ।।

 

किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।

यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ ११ ।।

देशे देशे कलत्राणि देशेदेशे च बान्धवाः ।

तं तु देशं न पश्यामि यत्र भ्राता सदोहरः ।। १२ ।।

[ किंनु राज्येन दुर्धर्ष लक्ष्मणेन विना मम ।

कथं वक्ष्याम्यहं त्वंबां सुमित्रां पुत्रवत्सलाम् ।

उपालंभं न शक्ष्यामि सोढुं दत्तं सुमित्रया ॥ १३ ॥

किंनु वक्ष्यामि कौसल्यां मातरं किंनु कैकयीम् ।

भरतं किंनु वक्ष्यामि शत्रुघ्नं च महाबलम् ।

सह तेन वनं यातो विना तेनागतः कथम् ॥ १४ ॥

इहैव मरणं श्रेयो न तु बन्धुविगर्हणम् ॥ १५ ॥

किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि ।

येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः ॥ १६ ॥

हा भ्रातर्मनुज श्रेष्ठ शूराणांप्रवर प्रभो ।

एकाकी किंनु मां त्यक्त्वा परलोकाय गच्छसि ॥ १७ ॥

विलपन्तं च मां भ्रातः किमर्थं नावभाषसे ।

उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा ॥ १८ ॥

शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च ।

विषण्णस्य महाबाहो समाश्वासयिता मम ।। १९ ।। ]

इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ।

विवेष्टमानं करुणमुच्छ्रसन्तं पुनः पुनः ॥

राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ।। २० ।।

यत्र यतः ।। ११–२० ॥

 

न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः ।

न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ।। २१ ।।

सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ॥

पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ।। २२ ।।

एवं न विद्यते रूपं गतासूनां विशांपते ।

दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीदृशम् ।। २३ ।।

नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।

मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः ॥ २४ ॥

श्यावं कपिशं । विवर्णमिति यावत् । श्यावः स्यात्कपिश: इत्यमरः ॥ २१ – २४ ॥

 

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।

सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ २५ ॥

एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।

हनुमन्तमुवाचेदं हनूमन्तमभित्वरन् ॥ २६ ॥

मुहुर्मुहुः कम्पमानं हृदयमेनं सोच्छ्रासं सप्राणं । आख्यास्यते आचष्टे । लङर्थे लट् ॥ २५-२६ ॥

 

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।

पूर्वं ते कथितो योऽसौ वीर जाम्बवता शुभः ॥ २७ ॥

दक्षिणे शिखरे तस्य जातामोषधिमानय ।

विशल्यकरणी नाम विशल्यकरणीं शुभाम् ॥ २८ ॥

सवर्णकरणीं चापि तथा संजीवनीमपि ।

सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ।

संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ॥ २९ ।।

इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् ।

चिन्तामभ्यगमच्छीमानजानंस्तां महौषधिम् ॥ ३० ॥

सौम्य शीघ्रमित्यादि सार्धश्लोकत्रयमेकान्वयं ।। ओषधिपर्वतं ओषधिपर्वताख्यं । द्वितीयो विशल्यकरणीशब्दो गुणवचनः । विशल्या: क्रियन्तेनयेति विशल्यकरणी तां ॥ २७ – ३० ॥

 

तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ।

इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥ ३१ ॥

अस्मिन्हि शिखरे जातामोषधीं तां सुखावहाम् ।

प्रतर्केणावगच्छामि सुषेणोप्येवमब्रवीत् ।। ३२ ।।

अगृह्य यदि गच्छामि विशल्यकरणीमहम्  ।

कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत् ॥ ३३ ।।

तस्य बुद्धिरित्यादिश्लोकत्रयमेकान्वयं । प्रतर्केण अन्तःकरणप्रसादादिना लिङ्गेन । सुषेणोप्येवमब्रवीदिति । दक्षिणे शिखरे तस्य जातामोषधिमानय इति सुषेणवचनं । अगृह्य यदि गच्छामि । पुनः सुषेणं प्रष्टुमिति भावः । दोषः लक्ष्मणहानिरूपः । वैक्लब्यं निष्पौरुषत्वं । अन्ते इतिकरणेन पूर्वमन्वयः कार्यः ॥ ३१-३३ ॥

 

इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ।

आसाद्य पर्वतश्रेष्ठं त्रिः प्रक्रम्य गिरेः शिरः ।। ३४ ।।

फुल्लनानातरुगणं समुत्पाट्य महाबलः ।

गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ।। ३५ ।।

स नीलमिव जीमूतं तोयपूर्णं नभःस्थलम् ।

आ पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः ॥ ३६ ।।

इति संचिन्त्येत्यादिश्लोकद्वयमेकान्वयं ॥ समतोलयत् उदक्षिपत् ॥ ३४-३६ ॥

 

समागम्य महावेगः संन्यस्य शिखरं गिरेः ।

विश्रम्य किंचिद्धनुमान्सुषेणमिदमब्रवीत् ।। ३७ ।।

ओषधीर्नावगछामि ता अहं हरिपुङ्गव ।

तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥ ३८ ॥

एवं कथयमानं तं प्रशस्य पवनात्मजम् ।

सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ॥ ३९ ॥

विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ।

दृष्ट्वा हनुमतःकर्म सुरैरपि सुदुष्करम् ।। ४० ।।

ततः संक्षोदयित्वा तामोषधिं वानरोत्तमः ।

लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ॥ ४१ ॥

सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।

विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ ४२ ॥

समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ।

साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ ४३ ॥

एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।

सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः ॥ ४४ ॥

संन्यस्य सेनामध्ये निक्षिप्य ।। ३७-४४ ।।

 

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।

दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ॥ ४५ ॥

न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ।

को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते ॥ ४६ ॥

इत्येवं वदतस्तस्य राघवस्य महात्मनः ।

खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ ४७ ॥

अब्रवीदित्यादिश्लोकद्वयमेकान्वयं ॥ ४५-४७ ॥

 

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।

लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥ ४८ ॥

न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ ।

लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥ ४९ ॥

तां प्रतिज्ञां रावणं हत्वा विभीषणमभिषेक्ष्यामीत्येवंरूपां ।। ४८-४९ ॥

 

नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ।

वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ ५० ॥

नैराश्यं सीतायां विजये चोपेक्षां ॥ ५० ॥

 

न जीवन्यास्यते शत्रुस्तव बाणपथं गतः ।

नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ ५१ ॥

यास्यते यास्यति ॥ ५१ ॥

 

अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।

यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ५२ ॥

कृतकर्मा कृतसंचारः ॥ ५२ ॥

 

यदि वधमिच्छसि रावणस्य संख्ये यदि च कृता त्वमिहेच्छसि प्रतिज्ञाम् ।

यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्य वीर ।। ५३ ।।

कृतां निर्व्यूढां ॥ ५३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने व्युत्तरशततमः सर्गः ॥ १०२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.