25 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः

विभीषणेन रावणप्रेरणया रामसेनागणनाद्यर्थंप्रहितयोः कपिरूपधारणेनकपिसेना -प्रविष्टयोः शुकसारणनाम्नो राक्षसयोग्रहणेन रामेप्रत्यर्पणम् ॥ १ ॥ स्वप्रार्थनया रावणे संदेशनिवेदनचोदन पूर्वकं राममोचिताभ्यांशुकसारणाभ्यां रावणमेत्य तंप्रति विभीषणकृतस्वग्रहणादिनिवेदनम् ॥ २ ॥ तथा वानरसेनाया अपरिच्छेद्यत्व निवेदन पूर्वकं रामप्रभाववर्णनेनसीताप्रदानपूर्वकं तेनसन्धिविधानम् ॥ ३ ॥

सबले सागरं तीर्णे रामे दशरथात्मजे
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ
।। ।।

अथ शुकसारणप्रेषणं पञ्चविंशे – सबल इत्यादि ॥ दशरथात्मजइति मनुष्यत्वोक्तिः । श्रीमानिति मदातिशयोक्तिः । शुकः पूर्वस्मादन्यः । सारणसाहित्यात् ॥ १ ॥

 

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्
अभूतपूर्वं रामेण सागरे सेतुबन्धनम्
।। ।।

समग्र विशालं । दुस्तरं तरितुमशक्यं । सागरं कर्म । वानरं वानरसंबन्धि बलं कर्तृ । तीर्णं अतरत् । कर्तरि क्त: । सेतुबन्धनं रामेण कृतमिति शेषः ॥ २ ॥


सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन

अवश्यं चापि संख्येयं तन्मया वानरं बलम्
।। ।।

सेतुबन्धनं रामेण कृतं । कथंचन आप्तपुरुषोदितत्वेपि । अपिच तथापि । संख्येयं ज्ञातव्यं ॥ ३ ॥


भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ

परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः
।। ।।
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः

ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः
।। ।।
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे
निवेशश्च त
द्यथा तेषां वानराणां महात्मनाम् ।। ।।
रामस्य व्यवसायं च वीर्यं प्रहरणानि च

लक्ष्मणस्य च वी
र्यं च तत्त्वतो ज्ञातुमर्हथः ।। ।।
कश्च सेनापतिस्तेषां वानराणां महौजसाम्

एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः
।। ।।
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ

हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्
।। ।।

भवन्तावित्यादि चतुःश्लोक्येकान्वया ॥ तस्माद्भवन्तौ अनुपलक्षितौ परैरविज्ञातौ सन्तौ । वानरं सैन्यं प्रविश्य । परिमाणं वानराणामियत्तां । तेषां वीर्य बलपरिच्छेदं । ये प्लवङ्गमाःमुख्याः प्रधानभूताः तान् । ये रामस्य सुग्रीवस्य च संमता मन्त्रिणः । ये नासीरभटाः पूर्वमभिवर्तन्ते । ये च प्लवङ्गमाः वस्तुतः शूराः तान्सर्वान् । सागरे सगरखानिते । सलिलार्णवे लवणजलसमुद्रे । स सेतुः वानरतरणार्थसेतुश्च । यथा येन प्रकारेण बद्धः तं प्रकारं । तेषां निवेशं निवासं । उत्पत्तिस्थानं वा । क्लीबत्वमार्षं । यद्यथा यादृशप्रकार: । रामस्य व्यवसायं कर्तव्यविषयनिश्चयं । वीर्यं बलं । प्रहरणानि आयुधानि । लक्ष्मणस्य व्यवसायं बलं च । तत्त्वतः पारमार्थेन । ज्ञातुमर्थ्ये इत्यन्वयः ॥ ४–९ ॥


ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्

संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ
।। १० ।।

नाध्यगच्छेतां नाज्ञासिष्टां ।। १० ॥


संस्थितं पर्वताग्रेषु निर्दरेषु गुहासु च
समुद्रस्य च तीरेषु वनेषूपवनेषु च
।। ११ ।।
तरमाणं च तीर्णं च तर्तुकामं च सर्वशः

निविष्टं निविशच्चैव भीमनादं महाबलम्

तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ।। १२ ।।

अज्ञानहेतुमाह सार्धश्लोकद्वयेन — संस्थितमिति । निर्दरेषु दलितपर्वतप्रदेशेषु । उपवनेषु आरामेषु । आराम: स्यादुपवनं इत्यमरः ।। ११ – १२ ।।


तौ ददर्श महातेजाः प्रच्छन्नौ च निभीषणः

आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ
।। १३ ।।

अथ विभीषणः ददर्श आचचक्षे चेत्यन्वयः ॥ १३ ॥

 

तस्येमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ ।
लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय
।। १४ ।।
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा

कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः
।। १५ ।।
आवामिहागतौ सौम्य रावणप्रहितावुभौ

परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन
।। १६ ।।

लङ्काया इति पञ्चमी । परपुरं जयतीति परपुरंजयः । संज्ञायां भृतृवृजिधारिसहितपिदमः इति खच् ॥ १४ – १६ ॥


तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः

अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः
।। १७ ।।

दशरथात्मजः महापुरुषप्रसूतत्वेन सहजकारुण्य : प्रहसन् रावणबुद्धिमान्द्यस्मरणात् प्रहासः । सर्वभूतहिते रतः रिपूणामपि वत्सलः ॥ १७ ॥


यदि दृष्टं बलं कृत्स्नं वयं वा सु
परीक्षिताः
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्
।। १८ ।।

यथोक्तं रावणेन यथोक्तं । छन्दतः यथेच्छातः ॥ १८ ॥

 

अथ किंचिददृष्टं वा भूयस्तद्द्रष्टुमर्हथः ।

विभीषणो वा कार्त्स्न्येन भूयः संदर्शयिष्यति ।। १९ ।।

अथेति पक्षान्तरे । भूयः अतिशयेन ॥ १९ ॥

 

न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति ।

न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः ।। २० ।।

दूतौ युवामितिशेषः ॥ २० ॥

 

पच्छमानौ विमुञ्चैतौ चारौ रात्रिंचरावुभौ ।

शत्रुपक्षस्य सततं विभीषण विकर्षणौ ।। २१ ।।

विभीषणं प्रत्याह- पृच्छमानाविति ॥ सततं पृच्छमानत्वदशायामपि शत्रुपक्षस्य विकर्षणौ बाधकाविति यावत् ॥ २१ ॥


प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः

वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम
।। २२ ।।

पुनर्दूतौ प्रत्याह- प्रविश्येति ।। २२ ।।


यद्बलं च समाश्रित्य सीतां मे हृतवानसि

तद्दर्शय यथाकामं ससैन्यः सहबान्धवः
।। २३ ।।

यथाकामं यथेच्छं । शरणं वाऽऽगच्छेति भावः ॥ २३ ।।


श्वः काले नगरीं लङ्कां सप्राकारां सतोरणाम्

राक्षसं च बलं पश्य शरैर्विध्वंसितं मया
।। २४ ।।

श्वः काल्ये परेद्युः प्रातःकाले ॥ २४ ॥


क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण
श्वः काले वज्रवान्वज्रं दानवेष्विव वासवः
।। २५ ।।

क्रोधं मोक्ष्ये क्रोधकार्यं करिष्य इत्यर्थः । वज्रवान् अभ्यस्तवत्र इत्यर्थः ॥ २५ ॥


इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ

जयेति प्रतिनन्द्यैतौ राघवं धर्मवत्सलम् ।
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्
।। २६ ।।

इतीत्यादि सार्घश्लोक एकान्वयः ॥ प्रतिनन्द्य अभिष्टुत्य ॥ २६ ॥


विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर

दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा
।। २७ ।।

मुक्तौ आवामिति शेषः । धर्मात्मना दूतवधमनिच्छतेत्यर्थः । अमिततेजसेत्यनेन अस्मत्यागे भीतिहेतुता न शंक्त्यर्थः ॥ २७ ॥


एकस्थानगता यत्र चत्वारः पुरुषर्षभाः

लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः
।। २८ ।।
रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः

सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः
।। २९ ।।
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्

उत्पाट्य् संक्रामयितुं सर्वे तिष्ठन्तु वानराः
।। ३० ।।

एकस्थानेत्यादि लोकत्रयमेकान्वयं ॥ यत्र एकस्थानं ऐकमत्यं । एकप्रदेशं वा गताः एते शक्ताः । पुरीं लङ्कामित्याद्यन्वयः । कृतास्त्राः शिक्षितास्त्राः । छत्रिणो गच्छन्तीतिवदयं निर्देशः । सुग्रीवस्याकृतास्त्रत्वात् । उत्पाट्य उद्धृत्य । संक्रामयितुं अन्यत्र क्षेतुं । सर्वे एतच्चतुष्टयभिन्नाः ॥ २८ – ३० ॥


यादृशं तस्य रामस्य रूपं प्रहरणानि च

वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः
।। ३१ ।।

यादृशमिति । प्रहरणादिकं यादृशं तदवलोकने राम एको वधिष्यतीति मन्यावहे इत्यर्थः ॥ ३१ ॥


रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी

बभूव दुर्धर्षतरा
सेन्द्रैरपि सुरासुरैः ।। ३२ ।।

[व्यक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः ।

शतयोजनमायामस्तीर्णा सेना च सागरम्] ।। ३३ ।।

निविष्टो दक्षिणे तीरे रामः स च नदीपते ।

तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते ।। ३४ ।।

नन्वसहायशूरोपि राम: सेनाहननादनुत्साहः स्यात् तत्क्रियतामित्यत्राह — रामलक्ष्मणेति ॥ सुग्रीवेण च अङ्गदादिना च सहिता सा अपरिच्छिन्ना । हरिवाहिनी चपलकपिसेना । रामलक्ष्मणगुप्ता रामेण रामस्य दक्षिणो बाहुरिति रामदक्षिणबाहुभूतेन लक्ष्मणेन च गुप्ता सती । सुग्रीवस्य रक्ष्यकोटावेवान्वयः न तु रक्षककोटौ । तन्मन्त्रिणा हनुमतैव —  जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः इत्युक्तेः । दुर्धर्षतरा बभूव । तरसा मनसापि धर्षयितुमशक्येत्यवगम्यते । न केवलं मनुष्यादिभिः किन्तु सुरैरपि । न केवलं सुरैरेव किन्तु सुरासुरैः विरोधं विहाय कृतसौहार्दैरपि । न केवलमनायकैस्तैः किन्तु सेन्द्रैरपि । स्वस्वातन्त्र्यं विहाय नायकाज्ञानुवर्तिभिरित्यर्थः ॥ ३२–३४ ॥


प्रहृष्टरूपा ध्वजिनी वनौक
सां महात्मनां संप्रति योद्धुमिच्छताम्
अलं विरोधेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली ।। ३५ ।।

महात्मनां दृढमनस्कानां । संप्रति सद्य एव । योद्धुमिच्छतां । प्रहृष्टरूपा हर्षद्योतकाकारयुक्ता । भवतीति शेषः । अतस्तद्विरोधेनालं । शमः क्रोधनिवृत्तिः । विधीयतां क्रियतां । मैथिली प्रदीयतां च ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥ २५

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.