16 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः

रावणेन विभीषणप्रतिसगर्हणंभ्रातृत्वाभावेवधार्हत्वोक्तिः ॥ १ ॥ विभीषणेनतदसहिष्णुतयागदा पाणिनासतासचिवचतुष्टयेनसहगगनोत्पतनेनरावणंप्रतिशोचन पूर्वकंरामसमीपगमनम् ॥ २ ॥

 

सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।

अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥

इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परुषभाषणं षोडशे-सुनिविष्टमिति ।। सुसन्निवेशं अर्थानुसंधानविरहेपि श्रवणमात्रेणात्यन्तप्रीतिजनकं । तेनार्थस्याननुकूलत्वेपि श्रवणस्यापरित्याज्यत्वमुक्तं । सुनिविष्टं उक्तवन्तमिति क्रियाविशेषणं वा । तेन मनस्यलग्नं चेदनादरणीयं वा स्यात् । मनसि सम्यग्लग्नं यथा भवति तथा उक्तवन्तं । हितं न केवलं श्रवणप्रियं । अतिदुर्दशानिस्तरणोपायतया पथ्यं । श्रवणकटुत्वेपि पथ्यत्वपर्यालोचनया अपरित्याज्यं । वाक्यं यावद्वक्तव्यार्थपूर्ण । उक्तवन्तं । नासंवत्सरवासिने प्रब्रूयात् इत्युक्तरीत्या गुरूपसदनयुक्तस्य पादयोः पतितस्य वक्तव्यस्य दुरवस्थां दृष्ट्वोक्तवन्तं विभीषणं । अन्येन चेदुक्तं परित्याज्यं । साक्षादनुजतया प्रत्यासन्नेनोक्तं कथं त्याज्यं । परुषं वाक्यमब्रवीत् । श्रवणसमनन्तरं स्थितोस्मि गतसंदेह इति वा वक्तव्यं । त्वया महोपकारः कृत इति स्तोत्रं वा कर्तव्यं । सदृशप्रत्युपकाराभावेनानुतापो वा कर्तव्यः । तद्विहाय शत्रून्प्रति वक्तव्यमुक्तवान् । अब्रवीदित्यनेन यथा सुनिविष्टमुक्तं तथा मनसि सुलग्नं यथा भवति तथा व्यक्तमुक्तवान् । एवमुक्तवन्तं प्रत्यपि परुषोक्तौ हेतुद्वयमाह-रावण इत्यादि । रावयति रोयतीति रावणः परहिंसायां जगद्विदितः । रौतीति रावणः स एव रावणः । स्वार्थेण्प्रत्ययः । अस्थाने पदं दत्त्वा स्वयमप्याक्रन्दन्नित्यर्थः । कालचोदितः । भ्राता रामं शरणं गच्छेत्युक्तवान् कालस्तन्न कर्तव्यमिति स्वयं द्विधा । भज्येयमिति । अतः स्वप्रकृत्यनुगुणं कालमनुसृतवानितिभावः ॥ १ ॥

वसेत्सह सपत्नेन क्रुद्धेनाशी विषेण च ।

न तु मित्र प्रवादेन संवसेच्छत्रुणासेविना

परुषमेवाह – वसेदिति ॥ सपत्नेन बाह्यशत्रुणा । मित्रप्रवादेन मित्रवदवभासमानेनेत्यर्थः । शत्रुसेविना शत्रुपक्षपातिना । सहजशत्रुणेत्यर्थः । शत्रुसर्पसहवासादपि सहजशत्रुसहवासः सुदूरं परिहर्तव्य इति भावः । अतस्त्वया अस्मान्नगरात् सद्यो गन्तव्यमितिद्योत्यते ॥ २ ॥

 

जानामि शीलं ज्ञातीनां सर्व लोकेषु राक्षस ।

हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥

अत्र शत्रुसेवित्वे हेतूंस्त्रिभिर्दर्शयति – जानामीत्यादिभिः । सर्वलोकेषु सर्वजनेषु मध्ये । शीलं स्वभावं । शीलमेवाह-हृष्यन्तीति । अस्मद्व्यसनेन लब्धहर्षस्त्वमेवं गर्जसीति भावः ॥ ३ ॥

 

प्रधानं साधकं वैद्यम् धर्म शीलं च राक्षस ।

ज्ञातयो ह्यनमन्यन्ते शूरं परिभवन्ति च ॥

ज्ञातयः । प्रधानं स्वजातिश्रेष्ठं । – साधनं कार्यसाधकं । वैद्यं विद्वांसं । प्राधान्यादिष्वेकैकगुणयोगेपि ज्ञातयोवमन्यन्ते । न बहु मन्यन्ते अवसरे परिभवन्ति चेत्यर्थः ॥ ४ ॥

 

नित्यमन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।

प्रच्छन्न हृदया घोरा ज्ञातयस्तु भयावहाः ॥

एवं ज्ञातीनां ज्ञातिषु व्यसने हर्षः उत्कर्षेऽसूया चेति शीलद्वयमुक्तं । अथ भयावहत्वरूपं शीलान्तरमाह – नित्यमिति ॥ प्रतिच्छन्नहृदया: गूढाभिप्रायाः । अतएव नित्यमन्योन्यसंहृष्टाः बहिःस्नेहवन्त इवस्थिताः । घोराः क्रूरकर्माण: । अतएव व्यसनेषु सत्सु आततायिनः द्रोहकारिणः । अतस्त्वमस्मासु व्यसने प्रहर्तुमिच्छसीतिभावः ॥ ५ ॥

 

श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित्

पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥

उक्तं ज्ञातीनां भयावहत्वं हस्तिगीतेन संवादयति – श्रूयन्त इत्यादिना ॥ क्वचित्पद्म वने । पाशहस्तान् पाशा: गजग्रहणरज्जवः ते हस्तेषु येषां ते तथोक्तान् । स्वबन्धनोयुक्तानिति यावत् । नरान् ज्ञातिगजगोप्तृन् गजग्राहिपुरुषान् दृष्ट्वा हस्तिभिः गीताः पठिताः । श्लोकाः श्रूयन्ते । वक्तृपरम्परया तान् लोकान् । गदतः वदतः । मम मत्तः । शृणु ॥ ६ ॥

 

नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।

घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः  ॥

तानेव त्रीन्श्लोकानुपादत्ते – नाग्निरित्यादिना ॥ नः अस्माकं । अग्निः आश्रयाशोपि न भयावहः । अन्यानि लोकविलक्षणानि अग्नितोपि क्षणान्नाशकराणि । शस्त्राणि आयुधानि च । न भयावहानि । पाशा: मरणादप्यतिदुस्सहपारवश्यक्लेशकराश्च न भयावहाः । किंतु घोराः निर्दयाः । स्वार्थप्रयुक्ताः स्वप्रयोजनपराः । ज्ञातयः भयावहाः । अग्न्यादिभ्योप्यधिकं ज्ञातिभ्यो भयमित्यर्थः ॥ ७ ॥

 

उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।

कृत्स्नाद्भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥

उक्तं ज्ञातिभयातिरेकं सयुक्तिकमुपपादयति — उपायमिति ॥ अस्माकं ग्रहणे एते ज्ञातिरूपा हस्तिनः । उपायं वक्ष्यन्ति । अत्रोपायकथने संशयो नास्ति । अतः कृत्स्नादग्न्यादिभयात् ज्ञातिभयं सुकष्टं । प्रकृष्टं भयमित्यर्थः । इदमस्माभिः विदितं ज्ञातं च ॥ ८ ॥

 

विद्यते गोषु सम्पन्नम् विद्यते ब्राह्मणे दमः

विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥

स्निग्धेषु ज्ञातिषु कुतो भयसंभावनेत्याशङ्क्याह – विद्यत इति ॥ गोसंपत्याद्युपादानं दृष्टान्तार्थ । गोषु संपन्नं संपत्तिः । तद्धेतुत्वमित्यर्थः । विद्यते अस्ति । विद सत्तायां इति धातुः । दमः इन्द्रियनिग्रहः । चापल्यं चञ्चलत्वं । ज्ञातितः ज्ञातिषु । भयं भयकरत्वं ॥ ९ ॥

 

ततो नेष्टमिदम् सौम्य यदहम् लोक सत्कृतः ।

ऐश्वर्यमभिजातश्च ज्ञातीनां मूर्ध्न्यवस्थितः ॥ १०

प्रधानं साधनमिति श्लोकोक्तं निदर्शयति – तत इति ॥ अहं लोकसत्कृतः ऐश्वर्य अभिजातः प्राप्तः । रिपूणां मूर्ध्न्यवस्थितश्चेतियत् इदं ततः ज्ञातीनामसहिष्णुत्वात् तव नेष्टं ॥ १० ॥

 

यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः ।

न श्लेषमभिगच्छन्ति तथाऽनार्येषु संगतम् ११

चिरं सह वसति विभीषणे कथमकार्यमाशङ्कस इत्यपेक्षायामनार्यस्य चिरसंवासोऽप्रयोजक इत्याह – यथेति ॥ पुष्करपर्णेषु पद्मपत्रेषु पतितास्तोयबिन्दवः यथा श्लेषं ऐक्यं । नोपगच्छन्ति तथा अनार्येषु दुष्टेषु विषये । संगतं संबन्धः । श्लेषं स्नेहबन्धं । नोपयातीत्यर्थः ॥ ११ ॥

 

यथा मधुकरस्तर्षाद्रसं विन्दन्न विद्यते

तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२

[यथा मधुकरस्तर्षात्काशपुष्पम् पिबन्नपि ।

रसमत्र न विन्देत तथाऽनार्येषु सौहृदम्] ॥ १३

त्वदुपजीविनस्त्वयि कथं स्नेहबन्धाभाव इत्यत्राह – यथेति ॥ यथा मधुकरः तर्षात् अभिलाषात् । रसं मकरन्दं । विन्दन् पिबन् । तत्र रसाधारे पुष्पे । न विद्यते न तिष्ठति । रसप्रदानोपकारंजानन् तत्र न स्निह्यतीत्यर्थः । त्वमपि तथा मधुकरइव । अनार्येषु दुर्जनेषु । सौहृदं तथा हि । उपजीव्यविषये न जायतइत्यर्थान्तरन्यासः ॥ १२ – १३ ॥

 

यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।

दूषयत्यात्मनो देहम् तथाऽनार्येषु सौहृदम् १४

तथापि कृतस्नेहः कुतोपलप्यते तत्राह – यथेति ॥ अनार्येषु सौहृदं गजस्नानवत्तैरेव दुष्यत इत्यर्थः ॥ १४ ॥

 

यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।

न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् १५

दृष्टोपि स्नेहो न फलपर्यवसायीत्याह—यथेति ॥ शरदि सिञ्चतां वर्षतां । मेघानां संबन्धी अम्बुसंक्लेदः अम्बुसेचनं । यथा न भवति तथानार्येषु सौहृदं । शरन्मेघवर्षणवदनार्येषु सौहृदमनुपकारकमित्यर्थः ॥ १५ ॥

 

न्यस्त्वेवम्विधम् ब्रूयाद्वाक्यमेतन्निशाचर ।

अस्मिन्मुहूर्ते न भवेत्त्वाम् तु धिक्कुलपाम्सनम् ॥ १६

एवं सामान्येन विनिन्द्य साक्षादपि निन्दति – अन्य इति ॥ अन्यः अनुजादन्यः । एवंविधं अतिपरुषं । एतत् पूर्वोक्तं । वाक्यं ब्रूयात् वदेत् । अस्मिन्मुहूर्तेस्मिन्क्षणएव । न भवेत् विनश्येत् । नाशयेयमितियावत् । त्वां तु भ्रात्राभासं । धिक् त्यक्ष्यामीत्यर्थः । कुलपांसनं राक्षसकुलावद्यकरं ॥ १६ ॥

 

इत्युक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।

उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥ १७

न्यायवाद्यपि इति पूर्वोक्तरीत्या । परुषमुक्तस्सन् उत्पपात संतप्तसिकतामयंभूमिस्थितइव उद्गतः ॥ १७ ॥

 

अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।

अन्तरिक्षगतः श्रीमान्भ्रातरम् राक्षसाधिपम् ॥ १८

एवमाकाशे उत्पतन्नपि पुनस्तस्मिन्ननुतापेनापिनामसमुद्भवेत्समीची मतिरिति हितोपदेशे प्रावर्ततेत्याह — अब्रवीदिति ॥ अन्तरिक्षगतः श्रीमान् । परित्यक्ता मया लङ्का मित्राणि च धनानि च इति समुत्थितस्य का नाम श्रीः । उच्यते । प्रतिकूलनिवृत्तिपूर्वकानुकूलरामविषयाभिमुख्यश्रीसमेत इत्यर्थः ॥ १८ ॥

 

स त्वम् भ्राताऽसि मे राजन्ब्रूहि माम् यद्यदिच्छसि ॥ १९

स त्वमित्यर्धमेकं वाक्यं ॥ स त्वं परुषवादी त्वं । भ्रातासि प्रतिवक्तुमनर्होसि । अतो यद्यदिच्छसि तद्वद् ॥ १९ ॥

 

ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः

इदम् तु परुषम् वाक्यम् न क्षमाम्यनृतं तव ॥ २०

तर्हि किमर्थमुद्रतोसि प्रतिवचनाभावात् क्षमापि क्रियतां तत्राह – ज्येष्ठ इति ॥ ज्येष्ठस्त्वं पितृसमः मान्यः । किंतु धर्मपथे न स्थितोसि । अतस्त्वदुक्तमनृतं परुषं न क्षमामि न क्षमे ।। २० ।।

 

सुनीतम् हित कामेन वाक्यमुक्तम् दशानन

न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ २१

स्ववाक्याश्रवणे निमित्तं सामान्यतो दर्शयति – सुनीतमिति ॥ २१ ॥

 

सुलभाः पुरुषा राजन्सततम् प्रिय वादिनः

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। २२ ।।

प्रियवादिन इत्युपलक्षणं प्रियश्रोतारश्च ॥ २२ ॥

 

बद्धम् कालस्य पाशेन सर्वभूतापहारिणा

न नश्यन्तमुपेक्षेयम् प्रदीप्तम् शरणम् यथा ।। २३ ।।

दीप्तपावकसंकाशैः शितैः कान्चनभूषणैः

न त्वामिच्छाम्यहम् द्रष्टुम् रामेण निहतम् शरैः ।। २४ ।।

तर्ह्यश्रोतारं प्रति किमर्थं वदसि तत्राह – बद्धमिति ॥ सर्वभूतापहारिणा निर्दयेनेत्यर्थः । नोपेक्षेयं नोपेक्षेय । शरणं गृहं ॥ २३-२४ ॥

 

शूराश्च बलवन्तश्च कृतास्त्राश्चणाजिरे

कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ।। २५ ।।

शौर्यबलास्रशालिनो मे कुतो विपदाशङ्केत्यत्राह-शूरा इति ॥ कालाभिपन्नाः मृत्युगृहीताः । सीदन्ति शीर्यन्ति । वालुकाः सिकताः ॥ २५ ॥

 

तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्छता

आत्मानम् सर्वथा रक्ष पुरीम् चेमाम् सराक्षसाम् ।। २६ ।।

मर्षयतु । भवानितिशेषः ॥ २६ ॥

 

स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २७ ।।

[नूनं न ते रावण कश्चिदस्ति रक्षोनिकायेषु सुहृत्सखा वा ।

हितोपदेशस्य स मन्त्रवक्ता यो वातयेत्त्वां स्वयमेव पापात्] २८ ।।

निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशा चर ।

परीतकाला हि गतायुषो नरा हितम् न गृह्णन्ति सुहृद्भिरीरितम् ।। २९ ।।

स्वस्तीत्यर्ध ॥ २७ – २९ ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः ।। १६

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.