86 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः

निकुंभिलासमीपगमनावसरेलक्ष्मणंप्रतिविभीषणेन समीपस्थराक्षससैन्यप्रदर्शनपूर्वकं वानरैस्सहतद्विक्षोभे यागापरिसमाप्तावेवेन्द्रजिन्निर्गमनोक्तिः ॥ १ ॥ लक्ष्मणेन वानरैस्सह राक्षससेनाविक्षोभारंभे कुपितेनेन्द्रजिता यागापरिसमाप्तावेवनिकुंभिलात्त्रोनिर्गमनेन वानरैस्सहयुद्धारंभः ॥ २ ॥ हनुमता विशेषतोराक्षससेनाविध्वंसने क्रोधादिन्द्रजितातद -भिद्रवणम् ॥ ३ ॥

 

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।

परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥

अथेन्द्रजिद्युद्धारम्भः – अथ तस्यामित्यादि ।। तस्यामवस्थायां निकुम्भिलासमीपगमना -वसरे । अर्थसाधकं । स्वानामिति शेषः ।। १ ।।

 

यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।

एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २ ॥

आयोध्यतां हन्यतां । शीघ्रमिति । विलम्बे यागः समाप्येतेति भावः ॥ २ ॥

 

अस्थानीकस्य महतो भेदने यत लक्ष्मण ।

राक्षसेन्द्रसुतोप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥

स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।

अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ४ ॥

जहि वीर दुरात्मानं मायापरमधार्मिकम् ।

रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥

यत यतस्व । अत्र राक्षसानीके ।। ३–५ ।।

 

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।

ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥

ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः ।

अभ्यधावन्त सहितास्तदनीकमवस्थितम् ।। ७ ।।

शुभलक्षणः सुहृद्वचनसारग्राहित्वलक्षणयुक्तः ॥ ६–७ ॥

 

राक्षसाश्च शितैर्वाणैरसिभिः शक्तितोमरैः ।

उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८ ॥

कपिसैन्यजिघांसवः कपिसैन्यं हन्तुमिच्छवः ॥ ८ ॥

 

स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।

शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥

शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः ।

उद्यतैर्गिरिशृङ्गैश्व घोरैराकाशमावृतम् ॥ १० ॥

संग्रहारः युद्धं ॥ ९-१० ॥

 

ते राक्षसा वानरेषु विकृताननबाहवः ।

निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥

तथैव सकलैर्वृक्षैगिरिशृङ्गैश्च वानराः ।

अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ १२ ॥

ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।

रक्षसां वध्यमानानां महद्भयमजायत ॥ १३ ॥

शस्त्रनिवेशनविकृताननबाहुत्वरूपक्रियाभेदात् तच्छब्दद्वयनिर्वाहः ॥ ११–१३ ॥

 

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।

उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥

तत्कर्मणि तस्मिन्होमकर्मणि ॥ १४ ॥

 

वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।

आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥

वृक्षान्धकारात् नीरन्ध्रवृक्षषण्डादित्यर्थ: । सज्जं आयुधादिभिः । पूर्वयुक्तं पूर्वमेव युक्ताश्वं । सराक्षसः राक्षससहितः ॥ १५ ॥

 

स भीमकार्मुकधरः कालमेघसमप्रभः ।

रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥

अन्तकः अन्तकरः ॥ १६ ॥

 

दृष्ट्वैव तु रथस्यं तं पर्यवर्तत तद्बलम् ।

रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥

पर्यवर्तत परितोतिष्ठत् ॥ १७ ॥

 

तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् ।

धरणीधरसंकाशो महावृक्षमरिन्दमः ॥ १८ ॥

स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।

चकार बहुभिर्वृक्षैर्निस्संज्ञं युधि वानरः ॥ १९ ॥

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।

राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २० ॥

तस्मिन्नित्यादि ।। आदावेकं वृक्षमुद्यम्य निर्दहन्सन् पश्चात् बहुभिर्वृक्षैस्तद्रक्षोबलं निःसंज्ञं चकारेत्यन्वयः ॥ १८- २० ॥

 

शितशूलधराः शूलैरसिभिश्चासिपाणयः ।

शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ २१ ॥

परिघैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः ।

शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥

घोरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः ।

मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥

अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ॥ २३ ॥

अवाकिरन्नित्युक्तं प्रपञ्चयति – शिवेत्यादि । शितशूलधरा इत्यादिविशेषणेन येषां येष्वस्त्रेष्वत्यन्तपाटवमस्ति तैस्ते अवाकिरन्निति गम्यते । परिघैरित्यादौ परिघपाणयइत्याद्यूह्यं । शुभदर्शनैरित्यनेन तैक्ष्ण्यमुपलक्ष्यते । पर्वतोपमं हनुमन्तमिति शेषः ॥ २१-२३ ।।

 

तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४ ॥

स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।

सूदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥

तेषामित्य ॥ संक्रुद्धः । हनुमानिति शेषः ॥ २४-२५ ॥

 

स सारथिमुवाचेदं याहि यत्रैष वानरः ।

क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥

हि यस्मात्कारणात् । उपेक्षितः एषः नः अस्माकं संबन्धिनां राक्षसानां क्षयं कुर्यात् । अतः एष वानरो यत्र । वर्तत इति शेषः । तत्र याहीतीदं वचः सारथिमुवाचेत्यन्वयः ॥ २६ ॥

 

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।

वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥

वहन् प्रापयन् ॥ २७ ॥

 

सोभ्युपेत्य शरान्खड्ङ्गान्पट्टिशांश्च परश्वधान् ।

अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २८ ॥

तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।

रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥

युध्यस्व यदि शूरोसि रावणात्मज दुर्मते ।

वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ ३० ॥

सोभ्युपेत्येति । अत्रापि क्रियाभेदात् तच्छन्दस्य द्वि:प्रयोगः ॥ २८-३० ॥

 

बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे ।

वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥

हनुमन्तं जिघांसन्तं समुद्यतशरासनम् ।

रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥

द्वन्द्वं द्वन्द्वयुद्धं । ददासीति शेषः । यदि ददासि तर्हि शस्त्राणि त्यक्त्वा बाहुभ्यां प्रतियुध्यस्वेत्यन्वयः । ततः तदानीं द्वन्द्वयुद्धकाले ।। ३१ – ३२ ॥

 

यः स वासवनिर्जेता रावणस्यात्मसंभवः ।

स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥

यः सः । प्रसिद्धो य इत्यर्थः ।। ३३ ।।

 

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।

जीवितान्तकरैर्घोरैः सौमित्रे रावणि जहि ॥ ३४ ॥

अप्रतिमसंस्थानैः अनुपमसन्निवेशै: करवीरपत्राद्याकारैरित्यर्थः ॥ ३४ ॥

 

इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।

ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥

अरिविभीषणेन शत्रुभयंकरेण ॥ ३५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.