15 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः

इन्द्रजिता विभीषणभाषणाधिक्षेपेणस्वात्मश्लाघनपूर्वकं कैमुत्येनरामपराजयस्य सुशकत्वोक्तिः ॥ १ ॥ विभीषणेन तद्गर्हणपूर्वकं रामायसोपायनंसीताप्रत्यर्पणेन तत्प्रसादसंपादनचोदना ॥ २ ॥

 

बृहस्पतेस्तुल्यमतेर्वचस्त न्निशम्य यत्नेन विभीषणस्य ।

ततो महात्मा वचनम् बभाषे तत्रेन्द्रजिन्नैर्ऋतयोधमुख्यः ॥

अथेन्द्रजितो दुर्बुद्धिमुपन्यस्य दूषयति- बृहस्पतेरिति ॥ ततो विभीषणवचनानन्तरं । तत्र राक्षसेषु यत्नेन निशम्य । असह्यतयेति भावः ॥ १ ॥

 

किम् नाम ते तात कनिष्ठ वाक्य मनर्थकम् चैसुभीतवच्च ।

अस्मिन् कुले योऽपि  भवेन्न जातः सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥

हे तात ते कनिष्ठवाक्यं । अनर्थकं प्रयोजनशून्यं । अनुष्ठा तुरभावादिति भावः । सुभीतवत् सुभीतिमत् । किंनाम कीदृशं जुगुप्सितमित्यर्थः । नामशब्द: कुत्सनद्योतकः नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने इतिवैजयन्ती । तदेवोपपादयति — अस्मिन्निति । आद्योऽपिशब्दः प्रश्ने । अपि ननु । अस्मिन् कुले पौलस्त्यवंशे । यो जातो न भवेत् । अन्यस्मिन् कुले यो जातः सोपि ईदृशं न वदेत् । न कुर्यात् ईदृग्वचनार्थं नानुतिष्ठेत् । ईदृग्वचनं वक्तृश्रोत्रोरुभयोरपि निन्दनीयं । यद्वा हे तात कनिष्ठ । ते वाक्यं किं नाम । जुगुप्सितमित्यर्थः । जुगुप्सितत्वमेवाह-अस्मिन्निति । कुर्यात् नचिन्तयेत् । अत्र करोतिश्चिन्ताक्रियायां वर्तते मुख्यस्य करणार्थस्यासंभवात् सर्वधात्वर्थेषु करोत्यर्थस्य संभवाच्च ॥ २ ॥

 

सत्त्वेन वीर्येण पराक्रमेण शौर्येण धैर्येण च तेजसा च ।

एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ॥

एतद्वाक्यमेतत्स्वभावस्य सदृशमित्याह – सत्त्वेनेति ॥ सत्त्वेन बलेन । वीर्येण प्रभावेन । वीर्यं बले प्रभावे च इत्यमरः । पराक्रमेण उद्योगेन । शौर्योद्योगौ पराक्रमौ इत्यमरः । शौर्येण साहसिक्येन। धैर्येण स्थैर्येण । तेजसा गर्वेण । पराभिभवासहनेनेतियावत् ।। ३ ।।

 

किम् नाम तौ राक्षसराजपुत्रा वस्माकमेकेन हि राक्षसेन ।

सुप्राकृतेनापि मतौ निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ॥

एवं रावणं प्रत्युक्त्वा विभीषणं निर्भर्त्सयति – किंनामेत्यादिना ॥ राक्षसेति हीनसंबोधनमाग्रहकृत्यं । तौ राजपुत्रौ किं नाम न किंचिदपि । अतिदुर्बलावित्यर्थः । कुत इत्यत्राह – अस्माकमेकेनेति । अस्माकं मध्ये सुप्राकृतेन अतिक्षुद्रेणापि । एकेन राक्षसेन एतौ निहन्तुं शक्यौ हि । अतः भीरो कुतोस्मान् भीषयसे स्वयंभीतोऽस्मान् भीषयसे । नास्माकंकिंचिद्भयमितिभावः ॥ ४ ॥

 

त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः ।

भयार्दिताश्चापि दिशः प्रपन्नाः सर्वे तदा देवगणाः समग्राः ॥

भयाभावे पूर्ववृत्तं संवादयति – त्रिलोकेति ॥ नन्वित्यामन्त्रणे । त्रिलोकनाथ इत्यैश्वर्यमुक्तं । देवराजइति सैन्यसामग्री दर्शिता । मया हेतुना । भूमितले निविष्टः स्थितः । निवेशितइत्यर्थ इत्यन्ये ।। ५ ।।

 

ऐरावतो विस्वरमुन्नदन्स निपातितो भूमितले मया तु ।

विकृष्य दन्तौ तु मया प्रह्य वित्रासिता देवगणाः समग्राः ॥

उन्नदन् उद्धृष्यन् । विकृष्य उत्पाट्य । ताभ्यां सर्वे देवगणाः वित्रासिताः हेतुभेदेन देवानां भयान्तरमत्रोक्तमिति न पुनरुक्तिः ॥ ६ ॥

 

सोऽहम् सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता

कथम् नरेन्द्रत्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥

स्ववृत्तप्रदर्शनफलमाह -सोहमिति ॥ मनुष्ययोरिति देवासुरव्यावृत्तिः । प्राकृतयोरिति इन्द्रव्यावृत्तिः । नरेन्द्रात्मजयोरिति बाल्योक्तिः । कथं न शक्तोस्मि अतः कुतो भीषयसे इति पूर्वेणान्वयः ॥ ७ ॥

 

अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनम् निशम्य ।

ततो महार्थम् वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥

इन्द्रकल्पस्येत्यादिविशेषणत्रयेण पूर्वोक्तस्य यथार्थत्वमुक्तं । शस्त्रभृतां वरिष्ठ इत्यनेनाभीरुत्वमुक्तं । महार्थमित्यनेन वक्ष्यमाणार्थस्येन्द्रजिता दुर्ज्ञेयत्वमुक्तं ॥ ८ ॥

 

न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः ।

तस्मात्त्वया ह्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम् ॥

न तातेति अनेन निकृष्टवयस्त्वमुक्तं । बालत्वेपि कस्यचित्सुमतिः संभवति सापि नास्तीत्याह–अद्यापीति । अविपकबुद्धिः अपरिणत- बुद्धिः । निश्चयाभावं दर्शयति-तस्मादिति । विप्रलप्तं विप्रलपितं ॥ ९ ॥

 

पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।

यस्येदृशं राघवतो विनाशं विशम्य मोहादनुवन्यसे त्वम् ॥ १०

न केवलं स्वाज्ञानस्य स्वविनाश एव फलं किंतु पितृविनाशोपीत्याह – पुत्रेति ॥ हे इन्द्रजित् त्वं पुत्रप्रवादेन पुत्रप्रसिद्ध्या । इत्थंभावे तृतीया । मित्रस्य मुखमिव मुखं यस्य सः तथोक्तः । मित्रवद्भासमान इत्यर्थः । शत्रुरसि । शत्रुत्वमेवोपपादयति — यस्येति । त्वं यस्य रावणस्य ईदृशं पुत्रमित्र विनाशपर्यन्तं । राघवतो रामात् । विनाशं मन्मुखाच्छ्रुत्वा । मोहादनुमन्यसे तस्य रावणस्य त्वं शत्रुरसीत्यर्थः । मोहादित्यनेन मित्रमुखत्वमुपपादितं । अनुमन्यस इत्यनेन शत्रुत्वं ॥ १० ॥

 

त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो यहानयत्त्वाम् ।

बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ॥ ११

एवमनुमोदनस्य दण्डमाह – त्वमेवेति ॥ त्वमेव वध्यः दण्ड्यः किमित्यर्थः । किंतु यस्त्वां इह सभायां । आनयत् प्रावेशयच्च । स एव वध्यः ॥ ११ ॥

 

मूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा ।

मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद्बालतया ब्रवीषि ॥ १२

सुदुर्मतिश्चेति चशब्ददर्शितान् दोषानाह—मूढः इति ।। मूढः कृत्याकृत्यविवेकशून्यः । प्रगल्भः धृष्टः । पण्डितंमन्य इति यावत् । अविनयोपपन्नः अशिक्षित इत्यर्थः । तीक्ष्णस्वभावः क्रूरप्रकृतिः। दुरात्मा दुष्टान्तःकरणः । मूर्खः अविमृश्यकारी । अत्यन्तसुदुर्मतिः । ग्रहस्तो दुर्मतिः महापार्श्वादिः सुदुर्मतिः त्वमत्यन्तसुदुर्मतिरित्यर्थः । त्वमेवंभूतोसि अतस्त्वं बालतया ब्रवीषि इति संबन्धः ॥ १२ ॥

 

को ब्रह्मदण्डप्रतिमप्रकाशा नर्चिष्मतः कालनिकाशरूपान् ।

सहेत बाणान्यमदण्डकल्पा न्समक्षमुक्तान्युधि राघवेण ॥ १३

दुर्मतित्वे हेतुमाह – क इति ॥ ब्रह्मदण्डप्रतिमप्रकाशान् ब्रह्मदण्डसदृशप्रभान् । ब्रह्मदण्डो नाम युगान्तसमुत्थितोग्निवर्णो धूमकेतुरित्येके ब्रह्मशाप इत्यन्ये । अर्चिष्मतः ज्वालावतः । अर्चिर्हेति: शिखा स्त्रियां इत्यमरः । कालनिकाशरूपान् अन्तकसदृशरूपान् । समक्षमुक्तान् समीपे मुक्तान् ॥ १३ ॥

 

धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणीम्श्च चित्रान् ।

सीताम् च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥ १४

कृतस्याकृत्यस्य प्रायश्चित्तं राजानं प्रत्याह- धनानीति ॥ रत्नानि श्रेष्ठवस्तूनि । रत्नं स्वजातिश्रेष्ठेपि इत्यमरः । धनानि द्रव्याणि ॥ १४ ॥

 

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥ १५

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.