37 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः

सुग्रीवादिभिः सहमन्त्रयमाणंश्रीरामंप्रति विभीषणेन लङ्कामेत्यरावणवृत्तान्ता -वगमेनपुनरागतनिजामात्यनिवेदितरावणकृतङ्कारक्षणसंविधानप्रकारनिवेदनम् ॥ १ ॥ रामेण लङ्कायाः प्रागादिद्वारत्रये क्रमेणयुद्धाय नीलाङ्गदहनुमन्नियोजनपूर्वकं स्वेनरावणाधिष्ठितो -त्तरभागेलक्ष्मणेनसहावस्थान निर्धारणेन सेनयासहलङ्काभियानम् ॥ २ ॥

नरवानरराजौ तौ स च वायुसुतः कपिः
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः
।। ।।

अङ्गदो वालिपुत्रश्च सौमित्रिः शभः कपिः
सुषेणः सहदायादो मैन्दो द्विविद एव च
।। ।।

गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा
अमित्रविषयं प्राप्ताः समवेताः समर्थयन्
।। ।।

अथ रामस्य सेनागुप्तिविधानं सप्तत्रिंशे – नरवानरेत्यादिश्लोकत्रयमेकान्वयं ॥ सहदायादः सबान्धवः । दायादौ सुतबान्धवौ इत्यमरः । इदं विशेषणं सर्वत्र यथार्हमन्वेति । अमित्रविषयं शत्रुदेशं । समर्थयन् अमन्त्रयन् ।। १ – ३ ॥

 

इयं सा लक्ष्यते लङ्का पुरी रावणपालिता
सासुरोरगगन्धर्वैरमरैरपि दुर्जया
।। ।।

अथविचारप्रकारमेवाह – इयमित्यादिना ॥ सा हनुमता पूर्वमुक्ता ॥ ४ ॥

 

कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये
नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः
।। ।।

कार्यसिद्धिं विजयसिद्धिं । पुरस्कृत्य प्रधानीकृत्य । विनिर्णये निमित्ते मन्त्रयध्वं । विजयसाधककार्यनिर्णयाय मन्त्र: प्रवर्त्यतामित्यर्थः ॥ ५ ॥

 

तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्
वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः
।। ।।

अग्राम्यपदवत् संस्कृतपदवत् सर्वेषां स्फुटप्रतिपत्तये स्वदेशभाषापदरहितमुक्तवा -नित्यर्थः ॥ ६ ॥

 

अनलः शरभश्चैव सम्पातिः प्रघसस्तथा
गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः
।। ।।

भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्
विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः
।। ।।

संविधानं यथाहुस्ते रावणस्य दुरात्मनः
राम तद्ब्रुवतः सर्वं यथा
त्त्वेन मे शृणु ।। ।।

पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ
।। १० ।।

अनल इत्यादिश्लोकत्रयं । विधानं नगररक्षणसंविधानं । ते दुरात्मनो रावणस्य यत्संविधानमाहुः तद्यथातत्त्वेन याथार्थ्येन । ब्रुवतः मे मत्तः । शृणु ॥ ७ – १० ॥

 

इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः
ट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः

नानाप्रहरणैः शूरैरावृतो रावणात्मजः ।। ११ ।।

पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः । बहुभी राक्षसैः प्रधानराक्षसैर्वृतः । नानाप्रहरणैः शूरैरावृतः । रावणात्मजः इन्द्रजित्पश्चिमद्वारं आसाद्य तिष्ठतीत्यनुकृष्यते ॥ ११ ॥


राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः
उत्तरं नगरद्वारं रावणः स्वयमास्थितः
।। १२ ।।

असंविग्नः अकम्पितहृदयः । राक्षसैः प्रधानभूतैः ॥ १२ ॥

 

विरूपाक्षस्तु महता शूलखड्गधनुष्मता
बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः
।। १३ ।।

बलेन सेनया । राक्षसैः मुख्यैः ॥ १३ ॥

 

एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते
मामकाः सचिवाः सर्वे
पुनः शीघ्रमिहागताः ।। १४ ।।

गुल्मान् सेनाः । गुल्मो रुक्स्तंबसेनासु इत्यमरः ॥ १४ ॥

 

गजानां च सहस्रं च रथानामयुतं पुरे
हयानामयुते द्वे च साग्रकोटी
श्च रक्षसाम् ।। १५ ।।

विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः
इष्टा राक्षसराजस्य नित्यमेते निशाचराः
।। १६ ।।

गजानां गजयोधिनां । रथानां हयानामित्यत्राप्येवं द्रष्टव्यं । हयानां साग्रकोटि: द्वे अयुते चेत्यन्वयः । एते एतावन्तः । यद्वा गजानामित्यादिशब्दाः गजादिपराः । एवमुत्तरोत्तराधिक -सङ्ख्योच्यते । हयानां द्वे अयुते । रक्षसां साग्रकोटि: पूर्णा कोटि: । एते रावणस्येष्टा अन्तरङ्गाः । स्वसेविन इत्यर्थः । आततायिनः क्रूरा इत्यर्थः ॥ १५ – १६ ।।

 

एकैकस्यात्र युद्धार्थे राक्षसस्य विशांपते
परिवारः सहस्राणां सहस्रमुपतिष्ठते
।। १७ ।।

अत्र राक्षसेषु । एकैकस्य राक्षसस्य । सहस्राणां सहस्रं दशलक्षसङ्ख्याविशिष्टः परिवारः । इदानीं । युद्धार्थे युद्धनिमित्तं । उपतिष्ठत इत्यन्वयः ॥ १७ ॥

 

एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः

एवमुक्त्वा महाबाहु राक्षसांस्तानदर्शयत् ।

लङ्कायाः सचिवैः सर्वा रामाय प्रत्यवेदयत् ।। १८ ।।

एतामिति सार्धश्लोकः ॥ तान् मन्त्रिभूतान् । दर्शनानन्तरं सचिवैः प्रयोज्यकर्तृभिः । लङ्कायां सर्वां प्रवृत्तिमित्यनुषज्यते । रामाय प्रत्यवेदयत् । सचिवैरपि तं वृत्तान्तमावेदयदित्यर्थः ॥ १८ ॥


रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्

रावणावरजः श्रीमान्रामप्रियचिकीर्षया ।। १९ ।।

राममित्यादिश्लोकत्रयं ॥ उत्तरं अनन्तरवक्तव्यं ॥ १९ ॥

 

कुबेरं तु यदा राम रावणः प्रत्ययुध्यत
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः
।। २० ।।

दिग्विजयकालिकबलादाधुनिकबलमधिकमिति कथयितुं पूर्वबलं परिगणयति- कुबेरमिति । निर्यान्ति निर्ययुः ॥ २० ॥

 

पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्
सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः
।। २१ ।।

पराक्रमेण पराभिभवसामर्थ्येन । वीर्येण युद्धे स्वयमविकृतत्वेन । तेजसा प्रतापेन । सत्त्वगौरवात् धैर्यातिशयेनेत्यर्थः । दर्पेण च । रावणस्य अत्र ये सदृशास्तादृशा राक्षसा इति पूर्वेणान्वयः ॥ २१ ॥

 

अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे
।। २२ ।।

स्वामिसन्निधौ शत्रुबलवर्णनमयुक्तमित्याशङ्क्य परिहरति — अत्रेति ॥ अत्र बलवर्णने सति । मन्युः क्रोधः । न कर्तव्यः । रोषये शत्रुनिरसनाय रोषमुत्पादये । न भीषये शत्रुबलवर्णनेन न भीतिमुत्पादये । रोषोत्पादनस्य फलमाह – समर्थोहीति ॥ २२ ॥

 

तद्भवांश्चतुरङ्गेण बलेन महता वृतः
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्
।। २३ ।।

तत् राक्षसबलस्य व्यूढत्वात् । महता बलेन वृतो भवानपि । चतुरङ्गेण रावणसेनावच्चतुरवयवेन । व्यूह्य विभज्य । निर्मथिष्यसि । मध्यमपुरुषत्वमार्षं । चतुरङ्गकार्यकरत्वाच्चतुरङ्गत्वमित्यन्ये ॥ २३ ॥

 

रावणावरजे वाक्यमेवं ब्रुवति राघवः
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्
।। २४ ।।

प्रतिघातार्थं प्रतिक्रियार्थं ॥ २४ ।।

 

पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः
प्रहस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः
।। २५ ।।

अङ्गदो वालिपुत्रस्तु बलेन महता वृतः
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ
।। २६ ।।

पूर्वद्वारेस्थित्वेति शेषः ॥ २५ – २६ ॥

 

हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः
।। २७ ।।

अप्रमेयात्मेति मायाविन इन्द्रजितोयमेवार्ह इति भावः ।। २७ ।।

 

दैत्यदानवसङ्घानामृषीणां च महात्मनाम्
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः
।। २८ ।।

परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः
।। २९ ।।

उत्तरं नगरद्वारमहं सौमित्रिणा सह
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः
।। ३० ।।

स्वस्यचोत्तरद्वारनिरोधहेतुमाह – दैत्यदानवेत्यादिश्लोकत्रयं ॥ विप्रकारप्रियः प्रियविप्रकार: । वा प्रियस्य इति पूर्वनिपातः । विप्रकारः पीडा । क्षुद्रः क्षुद्रबुद्धिः । प्रजा: संतापयन् लोकान् परिक्रामतीत्यन्वयः । तस्याहमिति लोके यत्तच्छब्दाध्याहारेणाहंशब्दद्वयनि- र्वाहः । योहं धृतः निश्चितः । सोहं प्रवेक्ष्यामीत्यन्वयः । स्वयमेव अद्वारेण । यद्वा तस्याहमित्यर्धान्तमेकं वाक्यं । उत्तरमित्यादि भिन्नं वाक्यं ॥ २८- ३० ।।

 

वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान्
राक्षसेन्द्रानुजश्चैव गु
ल्मो भवतु मध्यमः ।। ३१ ।।

गुल्मो भवतु मध्यमः । मध्यमसेना भव- त्वित्यर्थः । बलवद्भ्यां रावणेन्द्रजिद्भ्यामधिष्ठितयोरुत्तरपश्चिमयोः मध्यमगुल्मो भवत्वित्यर्थः ॥ ३१ ॥

 

न चैव मानुषं रूपं कार्यं हरिभिराहवे
एषा भवतु संज्ञा
नो युद्धेऽस्मिन्वानरे बले ।। ३२ ।।

वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति ।। ३३ ।।

संज्ञा संकेतः । अस्य प्रयोजनमाह-वानरा इति । नः अस्माकं । वानरा एवास्मिन् स्वजने चिह्नं भविष्यतीति । अस्माकं वानरत्वमेवात्मीयत्वज्ञापकंभवि- ष्यतीत्यर्थः । यदि वानराअपि कामरूपधारणेन युद्ध्येयुः । राक्षसानामपि तादृशत्वादात्मपरविवेको न स्यात् । वानरत्वंतु जघन्यतया न ते भजिष्यन्तीति भावः । इदानीं मानुषरूपपरिग्रह प्रतिषेधसामर्थ्यादितःपूर्वं मानुषरूपं परिगृह्य स्थिता इति गम्यते ॥ ३२-३३ ॥


वयं तु मानुषेणैव सप्त योत्स्यामहे परान्

अहमे सह भ्रात्रा लक्ष्मणेन महौजसा
आत्मना पञ्चमश्चायं सखा मम विभीषणः
।। ३४ ।।

मानुषेण मनुष्यसंबन्धिना । रूपेणेति शेषः । विभीषणादीनामपि मानुषरूपसंस्थान -सादृश्यादेवमुच्यते ॥ ३४ ॥

 

स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्
सुवेलारोहणे बुद्धि
श्चकार मतिमान्मतिम्

रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ।। ३५ ।।

ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा
प्रहृष्टरूपोऽभिजगाम लङ्कां
कृत्वा मतिं सोऽरिवधे महात्मा ।। ३६ ।।

स राम इत्यादिसार्घश्लोक एकान्वयः ॥ कृत्यसिद्ध्यर्थं कार्यसिद्ध्यर्थं । सुवेलारोहणे विषये । बुद्धिः बुद्धिमान् । मतुब्लोप आर्षः । मतिं इच्छां । सुवेलारोहणे बुद्धिं चकार मतिमान्मतिमिति च पाठः । सुवेलारोहणबुद्धिमेव मतिं चकार । नान्यामित्यर्थः । आरोहणेच्छाहेतुमाह- रमणीयतरमिति । सौन्दर्यावलोकनमेव तदारोहणहेतुः । नतु लङ्काप्राप्तिः । अतएव लङ्कोपरोधायावरोहणं वक्ष्यति — ततस्त्विति ॥ पृथिवीं सुवेलकटकभूमिं । महात्मा महाबुद्धिः । प्रह्रष्टरूप: अतिशयेन प्रहृष्टः । प्रशंसायां रूपप् । लङ्कां लङ्कैकदेशसुवेलं । महात्मा महाभृतिरिति द्वितीयमहात्मशब्दार्थः । अभिजगाम । आरोहणायेति । भावः ॥ ३५ – ३६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥ ३७

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- ख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.