27 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ।। 4.27.1 ।। शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसङ्कुलम् ।। 4.27.2 ।। ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् । मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ।। 4.27.3 ।। तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ।। 4.27.4 ।। अथ […]

26 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड्विंशः सर्गः ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे ।। 4.26.1 ।। अथ सुग्रीवाभिषेकः षड्विंशे तत इत्यादि । क्लिन्नवाससम् आर्द्रवस्त्रम् । सद्यः स्नानादिति भावः । शाखामृगमहामात्राः वानरूपा मन्त्रिणः ।। 4.26.1 ।। अभिगम्य महाबाहुं राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ।। 4.26.2 ।। ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ।। 4.26.3 ।। सर्वे […]

25 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः । समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ।। 4.25.1 ।। अथ रामः सर्वसान्त्वनपूर्वकं वालिनः संस्कारं कारयति पञ्चविंशे सुग्रीवमित्यदि । साङ्गदमिति सुग्रीवविशेषणम् । समानशोकः ताराङ्गदादिभिस्तुल्यशोकः ।। 4.25.1 ।। न शोकपरितापेन श्रेयसा युज्यते मृतः । यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ।। 4.25.2 ।। नेति । शोकपरितापेन शोककृतपरितापेन, युष्मदीयेनेति शेषः । […]

24 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन । पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ।। 4.24.1 ।। अथ ताराप्रलापश्रवणदुःखितसुग्रीवनिर्वेदप्रदर्शन(समाश्वासन)पूर्वकं ताराया रामे प्रतिपत्तिं दर्शयति चतुर्विंशे तामित्यादि । अश्रुवेगेन च दुरासदेन दुष्प्रापेण शोकमहार्णवेन च अभिप्लुतां व्याप्तां तां तारां पश्यन् तेन भ्रातुर्वधेन च तेपे दुःखितो ऽभूत् ।। 4.24.1 ।। स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी […]

23 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् । पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ।। 4.23.1 ।। अथ मरणानन्तरं ताराविलापस्त्रयोविंशे ततः समुपजिघ्रन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकाच्च्युतम् । स्वर्गगमित्यर्थः ।। 4.23.1 ।। शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले ।। 4.23.2 ।। मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि […]

22 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् । आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ।। 4.22.1 ।। एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति दैवात्किञ्चित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति द्वाविंशे वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः ।। 4.22.1 ।। तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः । आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ।। 4.22.2 ।। तमिति । […]

21 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान् हरियूथपः ।। 4.21.1 ।। अथ हनुमत्समाश्वासनमेकविंशे तत इत्यादि । तारां तारकाम् ।। 4.21.1 ।। गुणदेषकृतं जन्तुः स्वकर्मफलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ।। 4.21.2 ।। गुणोति । जन्तुः गुणदोषकृतं ज्ञानाज्ञानाभ्यां कृतं स्वकर्मफलं स्वकर्मवासना हेतुर्यस्य तत्तथोक्तम् । यत् कर्मास्ति तत्तस्य शुभाशुभं फलभूतं […]

20 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः रामचापविसृषटेन शरेणान्तकरेण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना । सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।। 4.20.1 ।। अथ ताराप्रलापो विंशे रामेत्यादिसार्धश्लोकः । सा तारा तं दृष्ट्वा पर्यष्वजत ।। 4.20.1 ।। इषुणा ऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् । वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा । तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ।। 4.20.2 ।। इषुणेत्यादिसार्धः ।। […]

19 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनविंशः सर्गः स वानरमहाराजः शयानः शरविक्षतः । प्रुत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ।। 4.19.1 ।। अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ।। 4.19.2 ।। तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ।। 4.19.3 ।। तारागमनमेकोनविंशे स वानरमहाराज इत्यादि । विक्षतः विशेषेण क्षतः । जीवितान्ते […]

18 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टादशः सर्गः इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा ।। 4.18.1 ।। अथ रामस्योत्तरमष्टादशे इत्युक्त इत्यादि । वालिना इत्युक्त इत्यन्वयः । विचेतसेत्यनेन परुषवचनमज्ञानकृतमित्युच्यते ।। 4.18.1 ।। तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ।। 4.18.2 ।। धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद्वालिमब्रवीत् ।। 4.18.3 ।। तमित्यादि द्वौ । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.