23 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।

पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ।। 4.23.1 ।।

अथ मरणानन्तरं ताराविलापस्त्रयोविंशे ततः समुपजिघ्रन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकाच्च्युतम् । स्वर्गगमित्यर्थः ।। 4.23.1 ।।

शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ।

उपलोपचिते वीर सुदुःखे वसुधातले ।। 4.23.2 ।।

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।

शेषे हि तां पिरिष्वज्य मां च न प्रतिभाषसे ।। 4.23.3 ।।

शेष इति । दुःखमित्येतत् क्रियाविशेषणम् । सुदुःखे सुतरां दुःखकरे ।। 4.23.2,3 ।।

सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ।

सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ।। 4.23.4 ।।

सुग्रीवस्येति । त्वं सुग्रीवस्य त्वत्तो (तव) बहुशः कान्दिशीकस्य वशं प्राप्तः । सुग्रीव एव विक्रन्त इत्येष विधिः दैवव्यापारः अहो आश्चर्यकरो भवति ।। 4.23.4 ।।

ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते ।

एषां विलपितं कृच्छ्रमङ्गदस्य च शेचतः ।

मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ।। 4.23.5 ।।

ऋक्षवानरेति । कृच्छ्रं दुःखम् ।। 4.23.5 ।।

इदं तद्वीरशयनं यत्र शेषे हतो युधि ।

शायिता निहता यत्र त्वयैव रिपवः पुरा ।। 4.23.6 ।।

इदमिति । युधि हतो यत्र शेषे पुरा त्वया निहता रिपवो यत्र शायिताः तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तव युद्धेनैव मरणं प्राप्तं खल्विति भावः ।। 4.23.6 ।।

विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ।

मामनाथां विहायैकां गतस्त्वमसि मानद ।। 4.23.7 ।।

विशुद्धसत्त्वाभिजनेति । कूटयुद्धाभावाद्विशुद्धबल । सत्कुलप्रसूतत्वाद्विशुद्धकुल (कूटयुद्धाभावाद्विशुद्धबलसत्कुलप्रसूतत्वादभिजनशुद्धकुल) ।। 4.23.7 ।।

शूराय न प्रदातव्या कन्या खलु विपश्चिता ।

शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ।। 4.23.8 ।।

शूरायेति । अप्रदातव्यत्वे हेतुमाह शूरभार्यामिति ।। 4.23.8 ।।

अवभग्नश्च मे मानो भग्ना मे साश्वती गतिः ।

अगाधे च निमग्ना ऽस्मि विपुले शोकसागरे ।। 4.23.9 ।।

अवभग्नश्चेति । गतिः पतिशुश्रूषेत्यर्थः । यद्वा गम्यत इति गतिः, सुखमित्यर्थः ।। 4.23.9 ।।

अश्मसारमयं नूनमिदं मे हृदयं दृढम् ।

भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ।। 4.23.10 ।।

अश्मसारेति । अश्मसारमयत्वे हेतुः दृढमिति ।। 4.23.10 ।।

सुहृच्चै व हि भर्ता च प्रकृत्या मम च प्रियः ।

आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ।। 4.23.11 ।।

पतिहीना तु या नारी कामं भवतु पुत्रिणी ।

धनधान्यैः सुपूर्णा ऽपि विधवेत्युच्यते जनैः ।। 4.23.12 ।।

हृदयभेदने हेतुमाह सुहृदिति । पञ्चत्वं मरणम् ।। 4.23.11,12 ।।

स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ।

कृमिरागपरिस्तोमे त्वमात्मशयने यथा ।। 4.23.13 ।।

रेणुशोणितसंवीतं गात्रं तव समन्ततः ।

परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ।। 4.23.14 ।।

कृतकृत्यो ऽद्य सुग्रीवो वैरे ऽस्मिन्नतिदारुणे ।

यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ।। 4.23.15 ।।

स्वगात्रैरिति । कृमेः इन्द्रगोपस्य राग इव रागो यस्मिन् स कृमिरागः । परिस्तोमः आस्तरणं यस्मिन् स तथा ।। 4.23.1315 ।।

शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ।

वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ।। 4.23.16 ।।

शरेणेति । वार्यामि वारिता ऽस्मीत्यर्थः ।। 4.23.16 ।।

उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ।

गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ।। 4.23.17 ।।

उद्बबर्हेति । उद्बबर्ह उद्धृतवान् । नीलः सुग्रीवसेनापतिः ।। 4.23.17 ।।

तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ।

अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ।। 4.23.18 ।।

तस्येति । निष्कृष्यमाणस्य तस्य द्युतिः अस्तमस्तकसंरुद्धः अस्ताद्रिशिखरनिरुद्धः

दिनकरादुद्गच्छन् रश्मिरिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः ।। 4.23.18 ।।

पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ।

ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् ।। 4.23.19 ।।

अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ।

आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ।। 4.23.20 ।।

रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ।

उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ।। 4.23.21 ।।

पेतुरिति । व्रणेभ्यः इति बहुवचनं पाशाधिकरणन्यायेनावयवबहुत्वात् । यद्वा शिलापादपप्रहारकृतव्रणानि । एतावत्पर्यन्तं शोणितनिर्गमशून्यतया स्थितानि इदानीं शरव्रणाच्छोणितनिर्गमकाले सर्वेभ्यो ऽपि शोणितानि सुस्रुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं सर्वात्मना प्राणो न गत इति गम्यते ।। 4.23.1921 ।।

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।

सम्प्रसक्तस्य वैरस्य गतो ऽन्तः पापकर्मणा ।। 4.23.22 ।।

बालसूर्योदयतनुं प्रयान्तं यमसादनम् ।

अभिवादय राजानं पितरं पुत्र मानदम् ।। 4.23.23 ।।

एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ।

भुजाभ्यां पीनवृत्ताभ्यामङ्गदो ऽहमिति ब्रुवन् ।। 4.23.24 ।।

अवस्थामिति । पापकर्मणा पापरूपकर्मणा सम्प्रसक्तस्येति सम्बन्धः ।। 4.23.2224 ।।

अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ।

दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ।। 4.23.25 ।।

अहं पुत्रसहाया त्वामुपासे गतचेतसम् ।

सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ।। 4.23.26 ।।

अभिवादयमानमिति । त्वामभिवादयमानमित्यन्वयः ।। 4.23.25,26 ।।

इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि ।

अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ।। 4.23.27 ।।

या दत्ता देवराजेन तव तुष्टेन संयुगे ।

शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ।। 4.23.28 ।।

इष्ट्वेति । रामप्रहरणाम्भस्येवावभृथ इति व्यस्तरूपकम् ।। 4.23.27,28 ।।

राजश्रीर्न जहाति त्वां गतासुमपि मानद ।

सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ।। 4.23.29 ।।

राजश्रीरिति । शैलराजं मेरुम् आवर्तमानस्य अस्तं गच्छत इत्यर्थः ।। 4.23.29 ।।

न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव ।

हता सपुत्रा ऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ।। 4.23.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ।। 23 ।।

न म इति । पथ्यं हितं वचः । न कृतं नानुष्ठितम् ।। 4.23.30 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोविंशः सर्गः ।। 23 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.