24 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः

तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन ।

पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ।। 4.24.1 ।।

अथ ताराप्रलापश्रवणदुःखितसुग्रीवनिर्वेदप्रदर्शन(समाश्वासन)पूर्वकं ताराया रामे प्रतिपत्तिं दर्शयति चतुर्विंशे तामित्यादि । अश्रुवेगेन च दुरासदेन दुष्प्रापेण शोकमहार्णवेन च अभिप्लुतां व्याप्तां तां तारां पश्यन् तेन भ्रातुर्वधेन च तेपे दुःखितो ऽभूत् ।। 4.24.1 ।।

स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ।

जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः ।। 4.24.2 ।।

स इति । मुखेन उपलक्षितः सः वीक्ष्य, तारामिति शेषः ।। 4.24.2 ।।

स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम् ।

यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ।। 4.24.3 ।।

स तमिति । उदात्तं श्रेष्ठं लक्षणेन सुलक्षणेन लक्षिताङ्गम् ।। 4.24.3 ।।

यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ।

ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन ।। 4.24.4 ।।

यथेति । यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य । दृष्टफलं दृष्टराज्यफलकं कर्म त्वया कृतम् । जीवितेन सह स्थितेषु भोगेषु जीविते भोगेषु च मनो निवृत्तमित्यर्थः ।। 4.24.4 ।।

अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते ।

हते ऽग्रजे संशयिते ऽङ्गदे च न राम राज्ये रमते मनो मे ।। 4.24.5 ।।

अस्यामिति । पुरे पुरस्थजने संशयिते पितृमरणदुःखेन जीवति वा न वेति संशयविषयीभूते सति राज्ये मनः न रमते रतिं न प्राप्नोति ।। 4.24.5 ।।

क्रोधादमर्षादतिविप्रधर्षात् भ्रातुर्वधो मे ऽनुमतः पुरस्तात् ।

हते त्विदानीं हरियूथपे ऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ।। 4.24.6 ।।

क्रोधादिति । क्रोधान्निर्निमित्तनिर्वासनकृतात् अमर्षात्परुषभाषणाक्षमया अतिविप्रधर्षात् अत्यन्तमाक्रमणाच्च ।। 4.24.6 ।।

श्रेयो ऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके ।

यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ।। 4.24.7 ।।

श्रेय इति । यथा तथा कथञ्चित् स्ववृत्त्या वानरजात्युचितवृत्त्या तस्मिन् शेलमुख्ये ऋश्यमूके निवासः श्रेयस्करः । इमं वालिनं निहत्य त्रिदिवस्य स्वर्गस्य लाभो ऽपि न श्रेय इत्यर्थः ।। 4.24.7 ।।

न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच ।

तस्यैव तद्राम वचो ऽनुरूपमिदं पुनः कर्म च मे ऽनुरूपम् ।। 4.24.8 ।।

न त्वामिति । महात्मा महास्वभावः मतिमान् कर्तव्याकर्तव्यविवेकशीलः अयं वाली त्वां न जिघांसामि न मारयितुमिच्छामि चर यथेष्टं गच्छेति मामुवाचेति यत् तद्वचः तस्यैव अनुरूपं सदृशम्, तद्बुद्धिशीलतुल्यम् । इदं भ्रातृवधरूपं कर्म तु मे दुरात्मनो दुर्मतेरनुरूपम् ।। 4.24.8 ।।

भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत ।

राज्यस्य दुःखस्य च वीर सारं न चिन्तयन् कामपुरस्कृतः सन् ।। 4.24.9 ।।

भ्रातेति । राज्यस्य भ्रातृवधसाध्यस्य दुःखस्य वधानन्तरभाविदुःखस्य च सारम् उत्कर्षं न चिन्तयन्, उभयोस्तारतम्यमचिन्तयन्नित्यर्थः ।। 4.24.9 ।।

वधो हि मे मतो नासीत्स्वमाहात्म्यव्यतिक्रमात् ।

ममासीद् बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ।। 4.24.10 ।।

महात्मेत्युक्तं विशदयति वध इति । अस्य वालिनः स्वमाहात्म्यस्य स्वमहत्त्वस्य अव्यतिक्रमात् अनतिक्रमात् मे वधः मन्निधनं मतो नासीत् । मम तु बुद्धिदौरात्म्यात् बुद्देर्दुःस्वभावात् । प्राणहारी भ्रातृवधकारी व्यतिक्रमः अमर्यादा आसीत् ।। 4.24.10 ।।

द्रुमशाखावभग्नो ऽहं मुहूर्तं परिनिष्ठनन् ।

सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ।। 4.24.11 ।।

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।

मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ।। 4.24.12 ।।

मतो नासीदित्युक्तं विशदयति द्रुमेति । परिनिष्ठनन् आर्तरवं कुर्वन् न पुनः कर्तुमर्हसि, युद्धमिति शेषः । अत्रेतिकरणं द्रष्टव्यम् ।। 4.24.11,12 ।।

अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम् ।

प्राप्तो ऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ।। 4.24.13 ।।

अचिन्तनीयमिति । अचिन्तनीयम् अपरिच्छेद्यमित्यर्थः । परिवर्जनीयं साधुभिस्त्यक्तव्यम् । अनीप्सनीयम् अनभिलषणीयम्, कदाचिदपि इच्छाया अयोग्यमित्यर्थः । स्वनवेक्षणीयं सुतरामदर्शनीयम्, जुगुप्सितमित्यर्थः । त्वष्टुः पुत्रः त्वाष्ट्रः विश्वरूपः । तं हत्वा इन्द्रो महान्तं पाप्मानमगमदिति कथा ।। 4.24.13 ।।

पाम्पानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च ।

को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छन् ।। 4.24.14 ।।

पाम्पानमिति । इन्द्रस्य परमैश्वर्यसम्पन्नस्य पाम्पानं मह्यादयः ऊषरफेननिर्यासऋतुरूपेण जगृहुः खातपूरणादिवरप्रदत्त्वात् । मम तु शाखामृगस्य कस्याप्यनुपकारकस्य पाप्मानं प्रतिपत्तुं किञ्चिद्वरं प्राप्तुमिच्छन् को नाम क्षमेत, ग्रहीतुमिति शेषः । यद्यपि विश्वरूपाख्यायिकायां त्वाष्ट्रशिरस्त्रयच्छेदकृतब्रह्महत्यात्रितयं पृथिवीवनस्पतिस्त्रिय एव जगृहुरित्युक्तम् । तथापि शाखान्तरानुरोधेन जलेनापि कश्चिदंशो गृहीत इत्यवगन्तव्यम् ।। 4.24.14 ।।

नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् ।

अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा ।। 4.24.15 ।।

नार्हामीति । कुलनाशयुक्तं कुलनाशफलकम्, वालिविनाशेनाङ्गदादेरजीवनादिति भावः । एवंविधं भ्रातृवधरूपं कर्म कृत्वा प्रजानां सम्मानं प्रजाकर्तृकराजसम्मानं नार्हामि । अत एव यौवराज्यमेव नार्हामि, कुतो महाराज्यमिति भावः ।। 4.24.15 ।।

पापस्य कर्ता ऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव ।

शोको महान् मामभिवर्तते ऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ।। 4.24.16 ।।

पापस्येति । क्षुद्रस्य दुष्टस्य विगर्हितस्य विशेषेण शिष्टैर्निन्दितस्य लोकापकृतस्य सर्वलोकैस्त्यक्तस्य पापस्य कर्ता ऽस्मि । एतादृशपापस्योत्तरपापहेतुत्वज्ञापनाय तृच्प्रत्ययः । वृष्टेरुत्पन्नो ऽम्बुवेगो यथा तादृशशोको मां निम्नमिवाभिवर्तते । उभयत्राप्युपमावाचकप्रयोगो महाकविनिबन्धनेष्वस्त्येव ।। 4.24.16 ।।

सोदर्यघाता ऽपरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः ।

एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ।। 4.24.17 ।।

सोदर्येति । सोदर्यस्य भ्रातुः घात एवापरगात्रवालौ अपरकायपुच्छौ यस्य स तथा, सन्ताप एव हस्तादीनि यस्य स तथा । वधादपि सन्तापस्य प्राधान्यादूर्ध्वकायत्वरूपणम्, वधप्रकारवैविध्यात्सन्तापवैविध्याच्च नानावयवत्वेन रूपणम् । “एनोमयः” इति स्वार्थे मयट् । पापमेव हस्ती । एनसो दृप्तत्वमुत्कटत्वं तस्य प्रवृद्धत्वं महत्त्वं गजस्योन्नतत्वम् ।। 4.24.17 ।।

अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधु वृत्तम् ।

विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम् ।। 4.24.18 ।।

अहं इति । हे नृवर राधव मे हृदि इदं साधु वृत्तम्, अंहः स्वेन सह वर्तमानं पापम् अविषह्य असोढ्वा निवर्तते निर्गच्छति । कथमिव? विवर्णं जातरूपम् अग्नौ परितप्यमानं सत् किट्टं यथा ऋजीषांशमविषह्य निवर्तते, किट्टाद्वियुज्यत इत्यर्थः । बतेति विषादे ।। 4.24.18 ।।

महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम ।

अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमितीव मन्ये ।। 4.24.19 ।।

अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् अस्याङ्गदस्य शोकतापात् महाबलानां हरियूथपानाम् इदं परिदृश्यमानं कुलं यूथम् अर्धस्थितप्राणमिव भवतीति मन्ये । “सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्” इत्यमरः ।। 4.24.19 ।।

सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशो ऽङ्गदेन ।

न चापि विद्येत स वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः ।। 4.24.20 ।।

सुत इति । सुजनः सौजन्यवान् । सुवश्यः सुतरां वश्यः, स्वाधीनः सुतः । सुलभ्यः लोके सुखेन लब्धुं योग्यः । अङ्गदेन तुल्यः पुत्रस्तु कुतो हेतोः सुलभ्यः, दुर्लभ इत्यर्थः । सोदरसन्निकर्षो ऽपि दुर्लभः इत्याह न चापीति । सन्निकर्षः सन्निधानम् ।। 4.24.20 ।।

यद्यङ्गदो वीर वरार्ह जीवेज्जीवेच्च माता परिपालनार्थम् ।

विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ।। 4.24.21 ।।

अङ्गदो यदि जीवेत्तदा तारापि जीवेत् अन्यथा नेत्याह यदीति ।। 4.24.21 ।।

सो ऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन् ।

इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः ।। 4.24.22 ।।

अङ्गदमरणं निश्चित्याह सो ऽहमिति । पुत्रेण अङ्गदेन । “भ्रातृ़णामेकजातानां यद्येकः पुत्रवान् भवेत् । तेन पुत्रेण ते सर्वे पुत्रिणो मनुरब्रवीत् ।।” इति स्मृतिः। सख्यमिति। तन्मरणे मरणं हि स्नेहस्य पराकाष्ठा। निदेशे त्वदाज्ञायाम् ।। 4.24.22 ।।

कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र ।

कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम् ।। 4.24.23 ।।

कृत्स्नमिति । अप्रतीते अप्रकाशे, मृत इति यावत् । मां विनापि त्वं सर्वं कार्यं कर्तुं क्षम इत्यर्थः ।। 4.24.23 ।।

इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य ।

सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव ।। 4.24.24 ।।

अथ रामस्याश्रितकार्यमेव स्वकार्यम्, नतु स्वतः किञ्चिदस्ति । अत एव मम शत्रुर्वालीति सुग्रीवेणोक्ते तं निहत्य तस्मिन्नश्रूणि मुक्त्वा शोचति सति स्वयमपि तथा शोचति स्मेत्याह इत्येवमिति । यद्वा सर्वेश्वरस्य कुत्रचिद्विषयीकारस्तत्सन्तानपर्यन्तः घण्टाकर्णमालाकारादिष्विवेत्याह इत्येवमिति । रघुप्रवीर इत्यनेन स्वस्य वानरेण सम्बन्धान्तरप्रसक्तिर्नास्तीत्युच्यते । वाल्यनुजस्य आर्तस्य वाल्यनुजे आर्ते सतीत्यर्थः । वचः श्रुत्वा सञ्जातबाष्पः तदार्तिनिमित्तकार्त्तिक इत्यर्थः । परवीरहन्ता आश्रितविरोधिनिरसनशीलः ताच्छील्ये तृन् (च्) । सुग्रीववचनात् कृतवलिवधत्वेन तच्छोचनादशोचदित्यर्थः । अनेन रामस्य क्रोधशोकावाश्रितक्रोधशोकायत्तावित्ययमर्थः सूचितः ।। 4.24.24 ।।

तस्मिन् क्षणे ऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान् भुवनस्य गोप्ता ।

रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सो ऽथ ददर्श ताराम् ।। 4.24.25 ।।

तस्मिन्निति । तस्मिन्क्षणे तस्मिन्वसरे अभीक्ष्णं पुनःपुनः अवेक्ष्यमाणः, तारयेति शेषः । अनेन तारायाः रामविषयमानुकूल्यमुक्तम् । क्षितिक्षमावान् क्षितेर्यादृशी क्षमा तादृशक्षमावान् क्षमावत्त्वभुवनगोप्तृत्वगुणौ तारया चिन्तितौ कविनोक्तौ । रुदन्तीमित्यादिना ताराया दयनीयतोक्ता । समुत्सुकः शोकापनयने कृतादरः ।। 4.24.25 ।।

तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम् ।

उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम् ।। 4.24.26 ।।

सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना ।

ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ।। 4.24.27 ।।

रामागमनमालोक्य मन्त्रिणस्तामुत्थापयामासुरित्याह तामिति ।। 4.24.26,27 ।।

सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा ।

अदृष्टपूर्वं पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ।। 4.24.28 ।।

सुसंवृतमिति । पार्थिवलक्षणैः राजलक्षणैः सुसंवृतम् अन्यूनतया युक्तमित्यर्थः । चारुनेत्रम् पुण्डरीकाक्षं मृगशावनेत्रा “विद्वानेव विजानाति विद्वज्जनपरिश्रमम्” इति न्यायेन स्वयं चारुनेत्रतया तत्रैव प्रथमं दृष्टिं न्यधादिति भावः । अदृष्टपूर्वम् इतः पूर्वं कुत्राप्यदृष्टचरम्, योगं विना अदृष्टमित्यर्थः । पुरुषप्रधानं पुरुषोत्तमम् अयं स इति विजज्ञे । यः पूर्वं भर्तारं हतवान् सो ऽयमिति ज्ञातवती । यद्वा यः पूर्वमङ्गदाच्छ्रुतः, यद्वा यः पूर्वं पुण्डरीकाक्षत्वादिगुणविशिष्टतया महाजनेभ्यः श्रुतः स एवायमित्यर्थः । अत एव वक्ष्यति त्वमप्रमेयश्चेति ।। 4.24.28 ।।

तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ।

आर्ता ऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ।। 4.24.29 ।।

तस्येति । व्यसननिवर्तनक्षमा गुणा उच्यन्ते । परिविह्वलन्ती मूर्छन्तीत्यर्थः ।। 4.24.29 ।।

सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा ।

मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ।। 4.24.30 ।।

सेति । रणे उत्कर्षणेन उत्कर्षेण लब्धं लक्षं शरव्यं यस्य तथा । एकेन शरेण स्वभर्तृहन्तारमितयर्थः । तं रामं शोकेन सम्भ्रान्तः अयथाभूतः शरीरभावः शरीरकृतभावः यस्याः सा, कुपितेत्यर्थः । मनस्विनी मत्प्रियहन्तारं यावच्छक्ति परुषाणि वदेयमिति कृताध्यवसाया समासाद्य विशुद्धसत्त्वा रामसन्निधिमाहात्म्येन निवृत्तकालुष्यतया समुन्मिषितशुद्धसत्त्वा तारा वाक्यमुवाच । परुषभाषणोद्युक्तयैव वाचा अस्तौषीदित्यर्थः ।। 4.24.30 ।।

त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ।

अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः ।। 4.24.31 ।।

एवं पुरुषोत्तमत्वपुण्डरीकाक्षत्वादिभिरनुसंहितं परत्वं तारा ऽनुसन्धत्ते त्वमप्रमेयश्चेति । त्वं वक्ष्यमाणकल्याणगुणानुगुणधर्मिवैलक्षण्ययुक्तः । अप्रमेयः “वेदाहम्” इत्युपक्रम्य “महान्तं क इत्था वेद” इति वेदैरप्यपरिच्छेद्यः, अप्रमेयः “सो अङ्ग वेद यदि वा न वेद” इति स्वेनापि परिच्छिद्य ज्ञातुमशक्यः । त्वमप्रमेयः प्रत्यक्षगम्यो ऽपि मनसा दुर्विभाव्यस्वभावः, त्वमप्रमेयः शरचापधरो ऽपि त्वं शङ्खचक्रधरो ऽसि, त्वमप्रमेयः सौलभ्यदशैव न परिच्छेत्तुं शक्यते, त्वमप्रमेयः परिकररहितो ऽपि प्रतापातिशयेन निरवधिकपरिकरपरिगत इव दुरवगाहो ऽसीत्येकवचनस्य भावः । एवमन्तःकरणेन दुष्प्रापो ऽपि किं बाह्यकरणैः सुप्रापः? नेत्याह दुरासदश्च । मनसापि दुरासदः कथं प्रकारान्तरेण स्वासद इति भावः । दुरासदश्च “महाजनो येन गतः स पन्थाः” इत्युक्तं सन्मार्गं विना पथस्खलितेन दुष्प्राप इत्यर्थः । दुरासदश्च “षद्लृ, विशरणगत्यवसादनेषु” इति धातुपाठोक्तार्थत्रयमपि तन्त्रेणोच्यते । नित्यत्वान्न विशरणार्हः, विभुत्वान्न विचालनार्हः, नित्यानन्दत्वान्नावसादमापादयितुं शक्य इत्यर्थः । दुरासदश्च वालिवधकुपितानां प्रतीकाराय सन्निधानमपि गन्तुमशक्य इत्यर्थः । दुरासदश्च बाह्यकुदृष्टिभिरुक्त्याभासैरप्रकम्प्यवैभव इत्यर्थः । एवमप्रमेयत्वदुर्धर्षत्वाभ्यां सुदृप्तो ऽपि न परदारराज्यपरिग्रहलुब्ध इत्याह जितेन्द्रियश्चेति । निःस्पृहतया सुग्रीवाय दत्तराज्य इत्यर्थः । जितेन्द्रियश्च यः को ऽपि पुरुषः काञ्चिद्योषितमालक्ष्य निर्वर्णयति, त्वं तु न तथा “न रामः परदारान् वै चक्षुर्भ्यामपि पश्यति” इत्युक्तेः । जितेन्दियश्च “पश्यत्यचक्षुः स शृणोत्यकर्णः । अपाणिपादो जवनो ग्रहीता” इत्याद्युक्तरीत्या सर्वेन्द्रियैर्विनापि सर्वं सर्वत्र सर्वदा जानन्नित्यर्थः । जितेन्द्रियः “दुर्ग्रहं मनसाप्यन्यैरिन्द्रियैरपि दुर्जयैः” इत्युक्तरीत्या वाङ्मनसागोचरः । त्वं जितेन्द्रियः त्वमेव जितेन्द्रियः । सर्वं वाक्यं सावधारणम् । अब्भक्षो वायुभक्ष इतिवत् ।” “अहल्यायै जारः सुरपतिरभूदात्मतनयां प्रजानाथो ऽयासीदभजत गुरोरिन्दुरबलाम् ।” इत्युक्तरीत्या त्वद्व्यतिरिक्ताः सर्वे ऽपि विषयचपलाः । त्वमेको जितेन्द्रियः इत्यर्थः । एवं विरक्तोप्ययमस्मद् हिंसया अधार्मिक इति मया स्थितम् । न तथेत्याह उत्तमधार्मिकश्च । स्वाश्रितसंरक्षणार्थमेवंविधव्यापारकारितया परमधार्मिकः । स्वार्थकर्मकारी अधमधार्मिकः । स्वपरसाधारणकर्मकारी मध्यमधार्मिकः । परार्थमेव प्रवर्तमान उत्तमधार्मिकः । यद्वा वर्णाश्रमाचारसमाराध्यो धार्मिकः । उत्तमधार्मिको भक्तिमार्गभजनीयः । यद्वा उत्तमधार्मिकः शरणागतसंरक्षकः । यद्वा “उपायो गुरुरेव स्यात्तेनानुगृहीतो ब्रह्मलोकं गच्छति” इत्युक्तधर्मवानुत्तमधार्मिकः । यद्वा “आनृशंस्यं परो धर्मः” इत्युक्तधर्मवान् धार्मिकः । स्वाश्रितानामापत्सु स्ववक्षोलक्षीकुर्वन्नुत्तमधार्मिकः । यद्वा आर्तसुग्रीवरक्षणाद्धार्मिकः, अकृत्यकरणेन नारकिणं वालिनं निहत्य तस्य पूतत्वकरणादुत्तमधार्मिकः । प्रच्छन्नवेधितया निरपराधवधेन च कथमस्य धर्मिकत्वमित्याशङ्क्याह अक्षय्यकीर्तिश्च । आश्रितापराधितया तिर्यक्षु मृगया न्यायेन पराङ्मुखवधस्यादोषत्वात्तिर्यग्भिराभिमुख्येन युद्धकरणस्य सार्वभौमस्यावद्यावहत्वाच्च तव कीर्तिर्न दूषयितुं शक्येत्यर्थः । अक्षयकीर्तिश्च “तस्य नाम महद्यशः” इत्युक्तरीत्या परत्वप्रथायुक्तः । विचक्षणश्च दूरदृष्टितया युक्तायुक्तविचारपूर्वकं सर्वकार्यकृत् । अत एव हि निरपराधवधो मा भूदिति कदाचिद्वालितः पराभवं प्रापितवान् । लक्ष्यवैपरीत्यपरिहाराय गजपुष्पीं धारितवान् । एवं शत्रुसंहर्तापि “सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् । हत्वा” इत्युक्तरीत्या अङ्गदादिष्वकिञ्चित्करतया प्रशस्तक्षमावानसीत्याह क्षितिक्षमावान् । स्वाश्रितापराधकारिविषये तव सान्वयविनाशकरणे प्राप्ते ऽपि तत्क्षमणं तवातिश्लाघ्यमित्यर्थः ।

क्षितिक्षमावान् “क्षमया पृथिवीसमः” इत्युकरीत्या पञ्चाशत्कोटियोजनवस्तीर्णायाः पृथिव्या यावती क्षमा तावती तवैकस्यास्तीति भावः । नित्ययोगे मतुम् । तेन कदाचिदप्यस्याक्षमाप्रसङ्गो ऽपि नास्तीति द्योत्यते । क्षतजोपमाक्षः वालिविषये कोपातिशयेनाद्यापि शोणीकृतनयनो ऽपि तदीयेषु क्षमावान् । यद्वा “रक्तास्यनेत्रपाणिः । त्रिताम्न” इत्यादिसामुद्रिकोक्तरीत्या रक्तान्तनेत्रः । “रामो रक्तान्तलोचनः” इति ह्युक्तिः । अत्र प्रतिपदं चकारप्रयोगः एकैक एव गुणः परत्वे पर्याप्तं लिङ्गमिति द्योतयितुम् । क्षमावानित्यत्र चकाराप्रयोगस्तु रामेण क्षान्ते सर्वैरपि क्षान्तमेव । अतोन्यत्रापि सम्भवेन निरपेक्षत्वाभावाच्चकाराप्रयोगः । क्षतजोपमाक्ष इत्यत्र तु विग्रहगुणत्वेन भिन्नाधिकरणत्वात् समुच्चयाभावः । क्षतजोपमाक्षेति सम्बुद्ध्यन्तं वा । यद्वा अप्रमेयः अनाश्रितानां दुर्ज्ञेयः । चकारादाश्रितानां सुप्रमेयः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्” इति श्रुतेः । “नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।” इत्युक्तेश्च । एवमनाश्रितानां दुरासदो दुष्प्रापः । चकारादाश्रितानां सुलभः । जितेन्द्रियः चकारादाश्रितविषये चपलः । उत्तमधार्मिकः चकाराद् दूरीकृताधर्मः । अक्षय्यकीर्तिः तदनुरूपकृत्यश्चशब्दार्थः । विचक्षणः चकारादाश्रितविषयत्यागाशक्तश्च “मित्रभावेन सम्प्राप्तं न त्यजेयम्” इत्यशक्तिर्ह्युच्यते । अत्रत्य चकारः देहलीदीपन्योयेनोभयत्रान्वेति । तेन दयादिकं समुच्चीयते ।। 4.24.31 ।।

त्वमात्तबाणासनबाणपाणिर्महाबलः संहननोपपन्नः ।

मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ।। 4.24.32 ।।

त्वमिति । अनेनाप्राकृतविग्रहत्वमुच्यते । संहननेन समीचीनावयवसंस्थानेन उपपन्नः युक्तः मनुष्यदेहाभ्युदयं मानुषशरीरपरिग्रहं विहाय दिव्येन देहाभ्युदयेन देहसौभाग्येन युक्तः ।। 4.24.32 ।।

येनैकबाणेन हतः प्रियो मे तेनेव मां त्वं जहि सायकेन ।

हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ।। 4.24.33 ।।

एवं रामस्य दिव्यतेजोविशेषदर्शनेन विस्मिता क्षणं विस्मृतशोका तद्वैभवं वर्णयित्वा स्वप्रकृत्यनुसारेण प्रलपति येनेत्यादिना ।। 4.24.33 ।।

स्वर्गे ऽपि पद्मामलपत्त्रनेत्रः समेत्य सम्प्रेक्ष्य च मामपश्यन् ।

न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसो ऽभजिष्यत् ।। 4.24.34 ।।

स्वर्गे ऽपीति । पद्मामलपत्रनेत्रो वाली स्वर्गे ऽपि अप्सरोभिः समेत्य ताः सम्प्रेक्ष्य च मामपश्यन् उच्चावचताम्रचूडाः विविधताम्रकुसुमैः कृतशेखराः विचित्रवेषाप्सरसः नाभजिष्यत् न भजिष्यति । लृडर्थे लृङ् ।। 4.24.34 ।।

स्वर्गे ऽपि शेकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली ।

रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथात्वम् ।। 4.24.35 ।।

नगेन्द्रस्य ऋश्यमूकस्य ।। 4.24.35 ।।

त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः ।

तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत ।। 4.24.36 ।।

त्वं वेत्थेति । कुमारः युवा तत् वनिताविरहदुःखं प्रजानन् त्वं मां जहि । वाली ममादर्शनजं दुःखं न भजेत ।। 4.24.36 ।।

यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् ।

आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र ।

शास्त्रप्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ।। 4.24.37 ।।

यच्चापीत्यादिसार्धश्लोकः । मह्यं स्त्रीघातदोषो न भवेदिति भवान् यन्मन्येत तन्न युक्तम् । इयं तारा अस्य वालिनः आत्मा इति मत्वा मां जहि, तेन ते स्त्रीवधः स्त्रीवधदोषो न स्यात् । आत्मेत्येतदुपपादयति शास्त्रेति । “अर्धो वा एष आत्मनो यत्पन्ती आत्मा हि दाराः” इत्यादिरूपात् विविधात् वेदाद्वेदरूपात् शास्त्रप्रयोगादित्यन्वयः । यद्वा वेदात् शास्त्रप्रयोगात् धर्मशास्त्रप्रयोगाच्चेति वा ऽर्थः ।। 4.24.37 ।।

दारप्रदानान्न हि दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके ।। 4.24.38 ।।

सुकृतमप्यस्तीत्याह दारेति ।। 4.24.38 ।।

त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर ।

अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीर घातात् ।। 4.24.39 ।।

न केवलं पापनिवृत्तिसुकृते, प्रायश्चित्तं चेदमित्याह त्वं चापीति । वीरघातादित्येतत्सुग्रीवदुःखदुःखितरामहृदयानुसारेणोक्तम् । त्वमुत्तमधार्मिकश्चेति पूर्वमुक्तत्वात् ।। 4.24.39 ।।

आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् ।

अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेणधीमता ।

विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ।। 4.24.40 ।।

इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ।। 4.24.41 ।।

आर्तामिति । अपनीयमानां वालिना वञ्चिताम् ।। 4.24.40,41 ।।

मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा ।

तं चैव सर्वं सुखदुःखयोगं लोको ऽब्रवीत्तेन कृतं विधात्रा ।। 4.24.42 ।।

हितवचनमेवाह मा वीरेति । विमतिं जीवितुं न शक्ष्यामीत्यादिविरुद्धमतिम् । सर्वो लोकः विधात्रा ब्रह्मणा विहितो निर्मितः । हिः प्रसिद्धौ । तं सुखदुःखयोगं च विधात्रा कृतमिति लोकः पण्डितः पामरश्चाब्रवीत् ।। 4.24.42 ।।

त्रयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य ।

प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ।

धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति ।। 4.24.43 ।।

वस्तुस्थितिश्च तथेत्याह त्रय इति । लोकाः लोकस्थजनाः विहतं विधानं ब्रह्मकल्पितं प्रकारं नातिक्रमन्ते हि यस्मात्तस्य वशगाः । प्रीतिमिति । तां वालिसम्भोगसदृशभोगामिति द्योतयति ।। 4.24.43 ।।

आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन ।

सा वीरपन्ती ध्वनता मुखेन सुवेषरूपा विरराम तारा ।। 4.24.44 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः ।। 24 ।।

प्रभावयुक्तेन अङ्गदयौवराज्यप्रदानसमर्थेन परन्तपेन तद्विरोधिनिरसनसमर्थेन आश्वसिता अत एव ध्वनता शब्दायमानेन मुखेनोपलक्षिता । सुवेषरूपेत्यनेन समाश्वासनकृतान्तरहर्षवत्त्वं सूचितम्, स्वलङ्कारयुक्तशरीरेत्यर्थः ।। 4.24.44 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्विशः सर्गः ।। 24 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.