61 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकषष्टितमः सर्गः

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ।

आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा ।। 4.61.1 ।।

भगवन् व्रणयुक्तत्वाल्लज्जया व्यकुलोन्द्रियः ।

परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ।। 4.61.2 ।।

ततस्तदित्यादि ।। 4.61.1,2 ।।

अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ ।

आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ।। 4.61.3 ।।

कैलासशिखरे बध्वा मुनीनामग्रतः पणम् ।

रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ।। 4.61.4 ।।

अथावां युगपत्प्राप्तावपश्याव महीतले ।

रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ।। 4.61.5 ।।

क्कचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः ।

गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ।। 4.61.6 ।।

तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ ।

आवामालोकयावस्तद्वनं शाद्वलसन्निभम् ।। 4.61.7 ।।

उपलैरिव सञ्छन्ना दृश्यते भूः शिलोञ्चयैः ।

आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ।। 4.61.8 ।।

हिमवांश्चैव विन्ध्याश्च मेरुश्च सुमहान्नगः ।

भूतले सम्प्रकाशन्ते नागा इव जलाशये ।। 4.61.9 ।।

अहमिति । पतितौ प्राप्तौ ।। 4.61.39 ।।

तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदा ऽ ऽवयोः ।

समाविशति मोहश्च तमो मूर्च्छा च दारुणा ।। 4.61.10 ।।

तीव्र इति । मोहः चित्तविभ्रमः । मूर्च्छा इन्द्रियैः सह मनस उपप्लवः । तमः अज्ञानम् ।। 4.61.10 ।।

न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी ।

युगान्ते नियतो लोको हतो दग्ध इवाग्निना ।। 4.61.11 ।।

नेति । याम्येत्यादिकं दिगन्तराणामुपलक्षणम् । नियतो लोकः नियतसन्निवेशो लोकः । युगान्ते अग्निना दग्धो हत इव, अदृश्यतेति शेषः ।। 4.61.11 ।।

मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् ।

यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि ।

यत्नेन महता भूयो रविः समवलोकितः ।। 4.61.12 ।।

तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ।। 4.61.13 ।।

मनश्चेत्यादि । संश्रयम् आश्रयभूतं चक्षुरिन्द्रियं सन्निवर्त्य स्वेन विप्रयुज्य भूयो भृशं हतं मे मनः महता यत्नेन अस्मिन् चक्षुषि पुनः सन्धाय यत्नेन भूयो रविः समवलोकित इति सम्बन्धः “हतं भूयः सन्निवर्त्य तु संश्रयम् । यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि ।। यत्नेन महता भूयो रविः समवलोकितः” इति पाठः ।। 4.61.12,13 ।।

जटायुर्मामनापृच्छ्य निपपात महीं ततः ।

तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ।। 4.61.14 ।।

जटायुरिति । निपपात महीम्, महीं प्रति निपपातेत्यर्थः । पतन्तं दृष्ट्वा अहमाकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्णं मुक्तवान्, जटायुषो रक्षणार्थं तदुपरि सत्वरमागच्छमित्यर्थः ।। 4.61.14 ।।

पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते ।

प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ।। 4.61.15 ।।

आशङ्के तं निपतितं जनस्थाने जटायुषम् ।

अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ।। 4.61.16 ।।

राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।

सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः ।। 4.61.17 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकषष्टितमः सर्गः ।। 61 ।।

पक्षाभ्यामिति । प्रमादात् सूर्यो धक्ष्यतीति बुद्ध्यवधानाभावात् ।। 4.61.1517 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकषष्टितमः सर्गः ।। 61 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.