05 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः

ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम् ।

आचचक्षे तदा वीरौ कपिराजाय राघवौ ।। 4.5.1 ।।

अथ पापभीतस्य कर्मानुरूपं फलं दिशतो भगवतो ऽपि त्रस्तस्य आचार्यमुखात् भगवद्गुणान् श्रुत्वा तदेकोपायनिष्ठा सूच्यते पञ्चमे ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्शनभीतः सुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्यमृश्यमूकपर्यन्तपर्वतं गतः हनुमान् रामलक्ष्मणौ तत्र प्रतिष्ठाप्य सुग्रीवं तत्रानीतवानिति बोध्यम् ।। 4.5.1 ।।

अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः ।

लक्ष्मणेन सह भ्रात्रा रामो ऽयं सत्यविक्रमः ।। 4.5.2 ।।

अयं रामः सम्प्राप्तः । अयं रामः सत्यविक्रमः । त्वच्छत्रुनिबर्हणक्षम इत्यर्थः ।। 4.5.2 ।।

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।

धर्मे निगदितश्चैव पितुर्निर्देशपारगः ।। 4.5.3 ।।

निगदितः प्रसिद्धः ।। 4.5.3 ।।

तस्यास्य वसतो ऽरण्ये नियतस्य महात्मनः ।

रावणेन हृता भार्या स त्वां शरणमागतः ।। 4.5.4 ।।

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।

दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ।। 4.5.5 ।।

तपसा सत्यवाक्येन वसुधा येन पालिता ।

स्त्रीहेतोस्तस्य पुत्रो ऽयं रामस्त्वां शरणं गतः ।। 4.5.6 ।।

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।

प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ।। 4.5.7 ।।

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।

भयं च राघवाद्घोरं प्रजहौ विगतज्वरः ।। 4.5.8 ।।

तस्येत्यादि ।। 4.5.48 ।।

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः ।

दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ।। 4.5.9 ।।

भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः ।

आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ।। 4.5.10 ।।

तन्मयैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।

यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ।। 4.5.11 ।।

स कृत्वेति । राघवं प्राप्येति शेषः ।। 4.5.911 ।।

रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।

गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ।। 4.5.12 ।।

रोचत इति । मर्यादा व्यवस्था ।। 4.5.12 ।।

एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।

स प्रहृष्टमना हस्तं पीडयामास पाणिना ।। 4.5.13 ।।

एतत्विति । राम इति शेषः ।। 4.5.13 ।।

हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ।। 4.5.14 ।।

हृद्यमित्यर्धम् । पिडितं दृढम् ।। 4.5.14 ।।

ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः ।

काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।। 4.5.15 ।।

मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वाचरति तत इति । भिक्षुरूपं सन्त्यज्येत्यनेन सुग्रीवविश्वासार्थम् “तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम” इति तदुक्तप्रकारेण पुनर्भिक्षुरूपेणैव तदन्तिकं गत इत्यवगम्यते । स्वेन रूपेण वानररूपेण काष्ठयोः अरणिभूतशमीकाष्ठयोः । सप्तम्यन्तं पदम् ।। 4.5.15 ।।

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ।

तयोर्मध्ये ऽथ सुप्रीतो निदधे सुसमाहितः ।। 4.5.16 ।।

दीप्यमानमिति । सत्कृतमित्यभ्यर्च्येत्यस्यानुवादः । तयोः रामसुग्रीवयोः ।। 4.5.16 ।।

ततो ऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ।

सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ।। 4.5.17 ।।

तत इति । प्रदक्षिणं चक्रतुः । अन्योन्यं पाणिं गृहीत्वेति शेषः । उपागतौ अग्निसाक्षिकमिति शेषः ।। 4.5.17 ।।

ततः सुप्रीतमनसौ तावुभौ हरिराघवौ ।

अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ।। 4.5.18 ।।

तत इति । अभिवीक्षन्तौ अभिवीक्षमाणौ ।। 4.5.18 ।।

त्वं वयस्यो ऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ ।

सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ।। 4.5.19 ।।

त्वमिति । एकं समानम्, त्वद्दुःखेन मम दुखं भवतु त्वत्सुखेन मम सुखं भवत्वित्यर्थः । अनेन परसाम्यापत्त्यभ्यर्थनं सूचितम् ।। 4.5.19 ।।

ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् ।

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।। 4.5.20 ।।

लक्ष्मणायाथ संहृष्टो हनुमान् प्लवगर्षभः ।

शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।। 4.5.21 ।।

तत इति । सराघव इत्यनेन एकासनत्वमुक्तम् ।। 4.5.20,21 ।।

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।

प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।। 4.5.22 ।।

तत इति । “प्रत्युवाच तदा रामम्” इति पाठः ।। 4.5.22 ।।

अहं विनिकृतो राम चरामीह भयार्दितः ।

हृतभार्यो वने त्रस्तो दुर्गमे तदुपाश्रितः ।। 4.5.23 ।।

अहमिति । त्रस्तः चकितः । अत्रस्त इति वा ।। 4.5.23 ।।

सो ऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः ।

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ।। 4.5.24 ।।

सो ऽहमिति । त्रस्तः भीतः उत्तरोत्तरं भीतः । यद्वा वालित्रस्तो ऽहमस्मिन् वने अभीतो वसामीत्यर्थः ।। 4.5.24 ।।

वालिनो मे महाभाग भयार्तस्याभयं कुरु ।

कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ।। 4.5.25 ।।

वालिन इति । अभयं भयाभावं कुरु । आर्त्यतिशयेन दार्ढ्याय पुनरुच्यते कर्तुमित्यर्धेन । मे भयं यथा न भवेत्तथा कर्तुमर्हसीत्यन्वयः ।। 4.5.25 ।।

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।

प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ।। 4.5.26 ।।

उपकारफलं मित्रं विदितं मे माहकपे ।

वालिनं तं वधिष्यामि तव भार्यापहारिणम् ।। 4.5.27 ।।

अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः ।

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।। 4.5.28 ।।

प्रहसन्निव कियन्मात्रमेतदिति हसित्वा । इवशब्दो मन्दस्मितत्वे ।। 4.5.2628 ।।

कङ्कपत्त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ।

तीक्ष्णाग्रा ऋजुपर्वाणाः सरोषा भुजगा इव ।। 4.5.29 ।।

कङ्कपत्त्रप्रतिच्छन्नाः कङ्कपत्रैर्बद्धा इत्यर्थः ।। 4.5.29 ।।

तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः ।

शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ।। 4.5.30 ।।

स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।

सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। 4.5.31 ।।

अद्य पश्येत्यनेन क्रियाझाटित्यमुक्तम् ।। 4.5.30,31 ।।

तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् ।

तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम् ।। 4.5.32 ।।

कुरु यतस्वेत्यर्थः । वैरिणं रिपुमिति द्विरुक्त्या वैरकृतं शात्रवं न तु जात्येत्युक्तम् ।। 4.5.32 ।।

सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।

सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ।। 4.5.33 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः ।। 5 ।।

प्रसङ्गात् कविराह सीतेति । सीतानेत्रं राजीवोपमम् । वालिनेत्रं हेमोपमं पिङ्गाक्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य वामनेत्रस्फुरणमनर्थकरम् । स्त्रियास्तु शोभनमिति निमित्तशास्त्रविदः ।। 4.5.33 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प़ञ्चमः सर्गः ।। 5 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.