38 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः

प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् ।

वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ।। 4.38.1 ।।

विसर्जयित्वा स हनीन् शूरांस्तान्कृतकर्मणः ।

मेने कृतार्थमात्मानं राघवं च महाबलम् ।। 4.38.2 ।।

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।

अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ।

किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ।। 4.38.3 ।।

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ।

सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ।। 4.38.4 ।।

एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ।। 4.38.5 ।।

तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ।

विसर्जयामास तदा तारामन्याश्च योषितः ।। 4.38.6 ।।

अथ रामेण सुग्रीवसमागमो ऽष्टात्रिंशे प्रतिगृह्येत्यादि । उपायनम् उपदाम् ।। 4.38.16 ।।

एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् ।

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ।। 4.38.7 ।।

बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ।

तानुवाच ततः प्राप्तान् राजा ऽर्कसदृशप्रभः ।। 4.38.8 ।।

उपस्थापयत क्षिप्रं शिबिकां मम वानराः ।। 4.38.9 ।।

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।

समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ।। 4.38.10 ।।

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ।

लक्ष्मणारुह्यातां शीघ्रमिति सौमित्रिमब्रवीत् ।। 4.38.11 ।।

एतेति । एत आगच्छत ।। 4.38.711 ।।

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम् ।

बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ।। 4.38.12 ।।

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।

शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ।। 4.38.13 ।।

शङ्खभेरीनिनादैश्च हरिभिश्चाभिनन्दितः ।

निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ।। 4.38.14 ।।

स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ।

परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।। 4.38.15 ।।

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ।

अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ।। 4.38.16 ।।

इत्युक्त्वेति । हरिभिः वाहकहरिभिः ।। 4.38.1216 ।।

आसाद्य च ततो रामं कृताञ्जलिपुटो ऽभवत् ।

कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा ।। 4.38.17 ।।

तटाकमिव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् ।

वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ।। 4.38.18 ।।

आसाद्येति । तथा ऽभवन् कृताञ्जलिपुटा अभवन् ।। 4.38.17,18 ।।

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।

प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ।। 4.38.19 ।।

परिष्वज्य च धर्मात्मा निषीदेति ततो ऽब्रवीत् ।। 4.38.20 ।।

तं निषण्णं ततो दृष्ट्वा क्षितौ रामो ऽब्रवीद्वचः ।। 4.38.21 ।।

धर्ममर्थं च कामं च यस्तु काले निषेवते ।

विभज्य सततं वीर स राजा हरिसत्तम ।। 4.38.22 ।।

हित्वा धर्मं तथा ऽर्थं च कामं यस्तु निषेवते ।

स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।। 4.38.23 ।।

पादयोरिति । पूर्वं दूरादञ्जलिः कृतः सम्प्रति समीपे पादयोः पतनम् ।। 4.38.1923 ।।

अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः ।

त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ।। 4.38.24 ।।

उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ।

सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ।। 4.38.25 ।।

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ।। 4.38.26 ।।

अमित्राणामिति । त्रिवर्गफलभोक्ता यथाकालं धर्मार्थकामरूपफलभोक्ता । अयथाकालानुष्ठानवैषम्यं द्योतयति तुशब्दः । धर्मेण राजधर्मेण ।। 4.38.2426 ।।

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।

त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ।

तव देव प्रसादाच्च भ्रातुश्च जयतां वर ।। 4.38.27 ।।

कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ।। 4.38.28 ।।

प्रनष्टेत्यादि सार्धश्लोकमेकं वाक्यम् । देव त्वत्प्रसादात्तव भ्रातुः प्रसादाच्च कपिराज्यादिकं पुनश्च प्राप्तम् ।। 4.38.2728 ।।

एते वानरमुख्याश्च शतशः शत्रुसूदन ।

प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ।। 4.38.29 ।।

ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ।

कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ।। 4.38.30 ।।

देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।

स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ।। 4.38.31 ।।

एत इति । आदाय आहूय ।। 4.38.2931 ।।

शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः ।

अयुतैश्चावृता वीराः शङ्कुभिश्च परन्तप ।। 4.38.32 ।।

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ।

समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ।

आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः ।। 4.38.33 ।।

मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः ।

ते त्वामभिगमिष्न्यन्ति राक्षसं ये सबान्धवम् ।

निहत्य रावणं सङ्ख्ये ह्यानयिष्यान्ति मैथिलीम् ।। 4.38.34 ।।

शतैरित्यादि । अत्र केचित्पदमध्याहर्तव्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचिच्छतसहस्रैरावृता आगमिष्यन्ति । केचित्कोटिभिरावृता आगमिष्यन्ति । केचिदयुतैरावृता आगमिष्यन्ति । केचिच्छङ्कुभिः । केचिदर्बुदैः । केचिन्मध्यैः । केचिदन्तैरावृता आगमिष्यन्ति । केचिद्धरयः समुद्रैरावृता आगमिष्यन्ति । केचित्परार्धैरावृता आगमिष्यन्तीति योजना । सङ्ख्यालक्षणमुक्तं ज्योतिःशास्त्रे “एकं दश शतमस्मात्सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुदवृन्दे खर्वं निखर्वं च । तस्मान्महासरोजं शङ्कुं सरितां पतिं त्वन्तम् । मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तथा ज्ञेयम्” इति । हरियूथपा इत्येतत्प्रथमान्तविशेषणत्वेन सर्वत्र सम्बध्यते ।। 4.38.3234 ।।

ततस्तमुद्योगमवेक्ष्य बुद्धिमान् हरिप्रवीरस्य निदेशवर्तिनः ।

बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ।। 4.38.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ।। 38 ।।

तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पलदर्शनीयवर्णः ।। 4.38.35 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टात्रिंशः सर्गः ।। 38 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.