44 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् ।

स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थो ऽर्थसाधने ।। 4.44.1 ।।

अथ निश्चितकार्यसाधनसमार्थ्याय हमुमते अङ्गुलीयकदानं चतुश्चत्वारिंशे विशेषेण त्वित्यादि । हनुमति विषये अर्थं वक्ष्यमाणार्थम् उक्तवान् । विशेषार्थकथने हेतुमाह स हीति । अर्थसाधने विषये निश्चितार्थः ।। 4.44.1 ।।

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् ।

सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ।। 4.44.2 ।।

सङ्ग्रहेणोक्तमर्थं विस्तरेण दर्शयति अब्रवीच्चेत्यादिना ।। 4.44.2 ।।

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ।

नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ।। 4.44.3 ।।

सासुराः सहगन्धर्वाः सनागनरदेवताः ।

विदिताः सर्वलोकास्ते ससागरधराधराः ।। 4.44.4 ।।

भूमौ सजातीयप्रतिपक्षबहुलायाम्, अन्तरिक्षे निरालम्बे मेघादिसञ्चारमार्गे, अम्बरे वातचक्राक्रान्तप्रदेशे, अमरालये प्रबलाधिष्ठिते स्वर्गे, अप्सु तिर्यक्सञ्चारानर्हासु वा गतिसङ्गं गतिविलम्बं न पश्यामि ।। 4.44.3,4 ।।

गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।

पितुस्ते सदृशं वीर मारुतस्य महौजसः ।। 4.44.5 ।।

गतिः अप्रतिहतगातिः ।। 4.44.5 ।।

तेजसा वापि ते भूतं समं भुवि न विद्यते ।

तद्यथा लभ्यते सीता तत् त्वमेवोपपादय ।। 4.44.6 ।।

तेजसेति । भूतं जन्तुः । तत् तस्मात्कारणात् । तत् सीतान्वेषणम् । उपपादय सम्पादय ।। 4.44.6 ।।

त्वय्येव हनुमान् स्वस्ति बलं बुद्धिः पराक्रमः ।

देशकालानुवृत्तिश्च नयश्च नयपण्डित ।। 4.44.7 ।।

नयपण्डितेत्यनन्तरमितिकरणं बोध्यम् । इत्यब्रवीदिति पूर्वेणान्वयः ।। 4.44.7 ।।

ततः कार्यसमासङ्गमवगम्य हनूमति ।

विदित्वा हनुमानं च चिन्तयामास राघवः ।। 4.44.8 ।।

ततः सुग्रीववचनात् हनूमति कार्यसमासङ्गं कार्यविषयासक्तिम् अवगम्य अस्मिन् सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । स्वयमपि हनुमन्तं कार्यसाधकं विदित्वा चिन्तयामास ।। 4.44.8 ।।

सर्वथा निश्चितार्थो ऽयं हनूमति हरीश्वरः ।

निश्चितार्थकरश्चापि हनुमान् कार्यसाधने ।। 4.44.9 ।।

चिन्ताप्रकारमाह सर्वथेत्यादिना श्लोकद्वयेन । अन्ते इतिकरणं बोध्यम् । कार्यसाधने विषये निश्चितार्थः निश्चितकार्यसाधकः । हनुमानपि निश्चितार्थकरः ।। 4.44.9 ।।

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।

भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ।। 4.44.10 ।।

तदेवमिति । अस्य कार्यफलोदयः अस्य सम्बन्धीनि कार्यसिद्धिः । ध्रुवः निश्चितः ।। 4.44.10 ।।

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।

कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ।। 4.44.11 ।।

व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम् । कृतार्थः संवृत्त इव, अमन्यतेति शेषः ।। 4.44.11 ।।

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।

अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः ।। 4.44.12 ।।

राजपुत्र्या अभिज्ञानम् अभिज्ञायते ऽनेनेत्यात्रिज्ञानम् । ननु त्यक्तसकलधनस्य वन्यवृत्त्या वर्तमानस्य कुतो ऽङ्गुलीयकमिति चेत् इदमेकमेतत्कार्यार्थं रक्षितवान् । अथ एवाङ्गुलीयमुन्मुच्येति नोक्तम् । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात् पूर्वं प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्यास्नेहेन कनिष्ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । “गृहीत्वा पेक्षमाणा सा भर्तुः करविभूषणम्” । इत्युक्तेः ।। 4.44.12 ।।

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा ।

मत्सकाशादनुप्राप्तमनुद्विग्ना ऽनुपश्यति ।। 4.44.13 ।।

भवद्वचनमेवालं किमर्थमेतद्दीयते? तत्राह अनेनेति । पश्यति द्रक्ष्यति ।। 4.44.13 ।।

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।

सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ।। 4.44.14 ।।

स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ।

वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ।। 4.44.15 ।।

हनुमन्तं प्रशंसति व्यवसाय इति । सत्त्वयुक्तो विक्रमः बलं च विक्रमश्चेत्यर्थः ।। 4.44.14,15 ।।

स तत्प्रकर्षन् हरिणां बलं महद्बभूव वीरः पवनात्मजः कपिः ।

गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ।। 4.44.16 ।।

प्रकर्षन् नयन् । हरिणामित्यत्र दीर्घाभाव आर्षः ।। 4.44.16 ।।

अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः ।

पवनसुत यथा ऽभिगम्यते सा जनकसुता हनुमान् तथा कुरुष्व ।। 4.44.17 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ।। 44 ।।

पुनरपि गच्छन्तं प्रति रामवचनम् अतिबलेति । अतिबलेति सम्बुद्धिः । हरिवरविक्रम सिंहश्रेष्ठविक्रम सुग्रीवतुल्याविक्रमेति वा । श्लोकान्ते इति रामो ऽब्रवीदित्यध्याहार्यम् ।। 4.44.17 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ।। 44 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.