13 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः

ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।

जगाम सहसुग्रीवो वालिविक्रमपालिताम् ।। 4.13.1 ।।

समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।

शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ।। 4.13.2 ।।

अथ पुनः किष्किन्धाप्रवेशस्त्रयोदशे ऋश्यमूकादित्यादि ।। 4.13.1,2 ।।



अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।

सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ।। 4.13.3 ।।

पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः ।

तारश्चैव महातेजा हरियूथपयूथपः ।। 4.13.4 ।।

अग्रत इति । संहतग्रीवः निबिडकण्ठ इत्यर्थः । इदं स्वरूपकीर्तनम्, गजपुष्पीबन्धनेन वा ।। 4.13.3,4 ।।



ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ।

प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ।। 4.13.5 ।।

अथ कार्यसिद्धिसूचकपदार्थानुभवविशेषं दर्शयति ते वीक्षमाणा इत्यादिना ।। 4.13.5 ।।



कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा ।

शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ।। 4.13.6 ।।

कन्दराणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशेलरन्ध्रविशेषान् । गुहाः देवखातबिलानि । दरीः गुहाविशेषान् ।। 4.13.6 ।।



वैडूर्यविमलैः पर्णैः पद्मैश्चाकोशकुङ्मलैः ।

शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन् ।। 4.13.7 ।।

आकोशकुड्मलैः ईषद्विकसितमुकुलैः ।। 4.13.7 ।।



कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः ।

चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ।। 4.13.8 ।।

कारण्डैः “कारण्डको महापक्षी” इति वैजयन्ती । सारसैः सरोनिवासैः शकुनैरुपनादितान् तटाकान् व्यलोकयन्निति पूर्वेणान्वयः ।। 4.13.8 ।।



मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् ।

चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् ।। 4.13.9 ।।

मृदुशष्पेति । चरतः स्थितांश्चापश्यन् ।। 4.13.9 ।।



तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।

घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ।। 4.13.10 ।।

तटाकवैरिण इत्यादि । तटाकवैरिणः कलुषीकरणात् । एकचरान् एकाकिनः द्विरदाः द्विदन्ता इति चतुर्दन्तव्यावृत्तिः ।। 4.13.10 ।।



मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् ।

वारणान् वारिदप्रख्यान् महीरेणुसमुक्षितान् ।। 4.13.11 ।।

वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान् ।

पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ।। 4.13.12 ।।

गिरितटोत्कृष्टान् उल्लिखितगिरितटान् ।। 4.13.11,12 ।।



तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।

द्रुमषण्ड वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ।। 4.13.13 ।।

तेषां त्विति । द्रुमषण्डं वृक्षषण्डमयमिति लतागुल्मव्यावृत्तिः ।। 4.13.13 ।।



एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।

मेघसङ्घातविपुलः पर्यन्तकदलीवृतः ।। 4.13.14 ।।

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे ।

कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ।। 4.13.15 ।।

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।

गच्छन्नेवाचचक्षे ऽथ सुग्रीवस्तन्महद्वनम् ।। 4.13.16 ।।

एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ।

उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ।। 4.13.17 ।।

अत्र सप्तजना नाम मुनयः संशितव्रताः ।

सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ।। 4.13.18 ।।

एष इति । मेघ इवेति नीलवर्णे उपमा ।। 4.13.1418 ।।



सप्तरात्रकृताहारा वायुना वनवासिनाः ।

दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ।। 4.13.19 ।।

सप्तरात्रेति । सप्तरात्रकृताहाराः वायुना सप्तरात्रस्य एकवारं कृताहाराः । सप्तभिर्वर्षशतैरित्यन्वयः ।। 4.13.19 ।।



तेषामेवंप्रभावानां द्रुमप्राकारसंवृतम् ।

आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ।। 4.13.20 ।।

पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ।

विशन्ति मोहाद्ये तत्र निवर्तन्ते न ते पुनः ।। 4.13.21 ।।

तेषामित्यादि । विशन्तीति । ये मोहादत्राश्रमे विशन्ति न ते निवर्तन्ते किन्तु तत्रैव नश्यन्तीत्यर्थः ।। 4.13.20,21 ।।



विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः ।

तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ।। 4.13.22 ।।

दिवं गताः शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्तीत्याशयेनाह विभूषणेत्यादिना । भूषणरवेण नृत्तमुपलक्ष्यते । सकलाक्षरा इति गीतस्वनविशेषणम् । तूर्यशब्दो ऽत्र गीतभिन्नवाद्यपरः ।। 4.13.22 ।।



त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्यत्र प्रकाशते ।

वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ।। 4.13.23 ।।

एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ।

मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ।। 4.13.24 ।।

त्रेतेति । त्रेताग्निदीपने लिङ्गमाह धूमो हीति । घनः निबिडः ।। 4.13.23,24 ।।



कुरु प्रणामं धर्मात्मन् तान् समुद्दिश्य राघव ।

लक्ष्णणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ।। 4.13.25 ।।

कुर्विति । समुद्दिश्य किञ्चित्फलमुद्दिश्य तेषां प्रणामं कुरु ।। 4.13.25 ।।



प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् ।

न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ।। 4.13.26 ।।

प्रणमन्तीति । शरीरे अशुभं व्याध्यादिकम् ।। 4.13.26 ।।



ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ।

समुद्दिस्य महात्मानस्तानृषीनभ्यवादयत् ।। 4.13.27 ।।

महात्मानः महात्मनः ।। 4.13.27 ।।



अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः ।

सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ।। 4.13.28 ।।

ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् ।

ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ।। 4.13.29 ।।

अभिवाद्येत्यनेन सर्वेषामभिवादनमनूद्यते । अत्राभिवादनं नमस्कारः, तेषां परोक्षत्वात् । अनेन सज्जनप्रणामो विजयावह इत्ययमर्थः सूचितः । तदिदं द्योत्यते उपरितनश्लोके उदिताग्र्यतेजस इति । प्रणामेनिति भावः ।। 4.13.28,29 ।।



ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः ।

पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ।। 4.13.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः ।। 13 ।।

सह युगपत् ।। 4.13.30 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोदशः सर्गः ।। 13 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.