67 Sarga किष्किन्धाकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः।।67।।

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।

वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ।। 4.67.1 ।।

सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः ।

विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ।। 4.67.2 ।।

प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः ।

त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ।। 4.67.3 ।।

संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।

समाविध्य च लाङ्गूलं हर्षाच्च बलमोयिवान् ।। 4.67.4 ।।

तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः ।

तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ।। 4.67.5 ।।

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।

मारुतस्यौरसः पुत्त्रस्तथा सम्प्रति जृम्भते ।। 4.67.6 ।।

तं दृष्ट्वेत्यादि । जृम्भमाणं वर्धमानम् ।। 4.67.16 ।।

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।

अम्बरीषमिवादीप्तं विधूम इव पावकः ।। 4.67.7 ।।

हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः ।

अभिवाद्य हरीन्वृद्धान् हनुमानिदमब्रवीत् ।। 4.67.8 ।।

अशोभतेति । आदिप्तमम्बरीषमिव स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावक इव अशोभत । अम्बरीषं भ्राष्ट्रम् । “क्लीबे ऽम्बरीषं भ्राष्टो ना” इत्यमरः ।। 4.67.7,8 ।।

अरुजत्पर्वताग्राणि हुताशनसखो ऽनिलः ।

बलवानप्रमेयश्च वायुराकाशगोचरः ।। 4.67.9 ।।

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।

मारुतस्यौरसः पुत्त्रः प्लवने नास्ति मत्समः ।। 4.67.10 ।।

अरुजदित्यादि । अनिलः गमनशीलः । “अन प्राणने” इत्यस्मादौणादिक इलप्रत्ययः । शीघ्रवेगस्य शीघ्राः वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । तत्साम्यमसहमानस्ततो ऽप्याधिक्यमाह शीघ्रगस्येति । यद्वा शीघ्रवेगस्य अत एव शीघ्रगस्य ।। 4.67.9,10 ।।

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।

मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ।। 4.67.11 ।।

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।

समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ।। 4.67.12 ।।

ममोरुजङ्घवेगेन भविष्यति समुत्थितः ।

समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः ।। 4.67.13 ।।

उत्सहेयमिति । विस्तीर्णमिति मेरुविशेषणम् । वानरसेनाभयनिवृत्यर्थं स्वोत्कर्षंमपि स्वयं निवेदयति ।। 4.67.1113 ।।

पन्नगाशनमाकाशे पतन्तं पक्षिसेविते ।

वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ।। 4.67.14 ।।

पन्नगाशनं स्वोचिताहारलाभाय निरवधिकत्वरामसम्पन्नम् । यद्वा आहारग्रहणत्वरया सर्वेषां भयावहम् । पतन्तं न तु वर्तमानम् । आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति स्वपरिकरसम्पत्तिरुच्यते । वैनतेयं विनतापुत्रम् । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं तस्यापि प्राणदातुः पुत्रः । परिगन्तुं परितो गन्तुं प्रदक्षिणीकर्तुम् । सहस्रशः एकयत्नेन सहस्रशः परिगन्तुं शक्तः । आजानसिद्धसामर्थ्यो ऽस्मि ।। 4.67.14 ।।

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।

अनस्तमितमादित्यमभिगन्तुं समुत्सहे ।। 4.67.15 ।।

उदयात् प्रस्थितम् उदयगिरेर्निर्गच्छन्तम् आदित्यं स्वस्थानात् प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्यानस्तमितं ज्वलन्तं रश्मिमालिनमादित्यमभिगन्तुं प्रत्युद्गन्तुं समुत्सहे । ज्वलन्तमित्यनेन मध्याह्न एवाभिगमनं सूच्यते ।। 4.67.15 ।।

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।

प्रवेगेनैव महता भीमेन प्लवगर्षभाः ।। 4.67.16 ।।

ततः सूर्यप्रत्युद्गमनानन्तरम् । भूमिमसंस्पृश्य कुत्राप्यविश्रम्य भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुनरप्येकवारं सूर्यमभिगन्तुमुत्सह इत्यर्थः । शतयोजनस्थां लङ्कां गन्तुं किमुत? इति भावः ।। 4.67.16 ।।

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।

सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ।। 4.67.17 ।।

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः ।

हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ।। 4.67.18 ।।

उत्सहेयमिति । आकाशगोचरान् ग्रहनक्षत्रादीन् ।। 4.67.17,18 ।।

लतानां विविधं पुष्पं पादपानां च सर्वशः ।

अनुयास्यन्ति मामद्य प्लवमानं विहायसा ।। 4.67.19 ।।

लतानामिति । पुष्पमिति जात्येकवचनम् ।। 4.67.19 ।।

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ।। 4.67.20 ।।

द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ।

महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ।। 4.67.21 ।।

दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ।

विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ।

सागरं क्षोभयिष्यामि प्लवमानः समाहितः ।। 4.67.22 ।।

भविष्यतीति । स्वातेः पन्थाः परिपूर्णताराच्छायापथः ।। 4.67.2022 ।।

वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ।। 4.67.23 ।।

ऋते सुपर्णराजानं मारुतं वा महाजवम् ।

न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ।। 4.67.24 ।।

निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।

सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ।। 4.67.25 ।।

भविष्यति हि मे रूपं प्लवमानस्य सागरे ।

विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव ।। 4.67.26 ।।

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।

अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ।। 4.67.27 ।।

मारुतस्य समो वेगे गरुडस्य समोजवे ।

अयुतं योजनानां तु गमिष्यामीति मे मतिः ।। 4.67.28 ।।

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।

विक्रम्य सहसा हस्तादमृतं तदिहानये ।। 4.67.29 ।।

लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ।

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ।। 4.67.30 ।।

प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ।

तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ।। 4.67.31 ।।

उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम् ।

वीरकेसरिणः पुत्र हनुमन् मारुतात्मज ।। 4.67.32 ।।

ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः ।

तव कल्याणरुचयः कपिमुख्याः समागताः ।। 4.67.33 ।।

मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ।

ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।

गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ।। 4.67.34 ।।

वैनतेयस्येति । मम या शक्तिः सा मारुतस्य वैनतेयस्य वेति सम्बन्धः ।। 4.67.2334 ।।

स्थास्यामश्चैकपादेन यावदागमनं तव ।

त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ।

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ।। 4.67.35 ।।

स्थास्यामश्चैकपादेन, तथा सत्वराः स्मेत्यर्थः ।। 4.67.35 ।।

नेयं मम मही वेगं लङ्घने धारयिष्यति ।

एतानीह नगस्यास्य शिलासङ्कटशालिनः ।

शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ।। 4.67.36 ।।

एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् ।

नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु ।। 4.67.37 ।।

एतानि मम निष्पेषं पादयोः प्लवतां वराः ।

प्लवतो धारयिष्यन्ति योजनानामितः शतम् ।। 4.67.38 ।।

ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः ।

आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ।। 4.67.39 ।।

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।

लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ।। 4.67.40 ।।

नेयमित्यादि । शिलासङ्कटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । “सङ्कटो दन्तुरे तुङ्गे विपद्रोगविशेषयोः” इति विश्वः ।। 4.67.3640 ।।

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ।

मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ।। 4.67.41 ।।

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।

विचचार हिरश्रेष्ठो महेन्द्रसमविक्रमः ।। 4.67.42 ।।

पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ।

रराज सिंहाभिहतो महान्मत्त इव द्विपः ।। 4.67.43 ।।

मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ।। 4.67.44 ।।

सलिलोत्पीडैः सलिलप्रवाहैः सङ्कुलम् ।। 4.67.4144 ।।

वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ।

नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।। 4.67.45 ।।

उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ।

त्यज्यमानमहासानुः सन्निलीनमहोरगः ।। 4.67.46 ।।

पानसंसर्गकर्कशैः पानसंसर्गदृढैः । “कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्” इत्यमरः । पानप्रवृत्तौ दृढाभिनिवेशैरित्यर्थः ।। 4.67.45,46 ।।

चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ।

निःश्वसद्भिस्तदा ऽ ऽर्तैस्तु भजङ्गैरर्धनिस्सृतैः ।। 4.67.47 ।।

सपताक इवाभाति स तदा धरणीधरः ।। 4.67.48 ।।

उद्धातः समूहः ।। 4.67.47,48 ।।

ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः ।

सीदन्महति कान्तारे सार्थहीन इवाध्वगः ।। 4.67.49 ।।

ऋषिभिरिति । सार्थहीनः, अभूदिति शेषः ।। 4.67.49 ।।

स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।

मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ।। 4.67.50 ।।

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ।। 67 ।।

स इति । वेगसमाहितात्मा वेगविषये समर्पितमनाः । मनः समाधाय मनः समाहितं कृत्वा ।। 4.67.50 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तषष्टितमः सर्गः ।। 67 ।।

इत्थं शठारिगुरुवर्यपदारविन्द

सेवारसाधिगतसर्वरहस्यबोधः ।

गोविन्धराजविबुधः प्रमुदे बुधानां

कैष्किन्धकाण्डविषयां विततान टीकाम् ।।

।। इति किष्किन्धाकाण्डः समाप्तः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.