58 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।

सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ।। 4.58.1 ।।

अथ सम्पातिना सीतास्थानकथनमष्टपञ्चाशे इत्युक्त इत्यादि ।। 4.58.1 ।।

यवीयान् मम स भ्राता जटायुर्नाम वानराः ।

यमाख्यात हतं युद्धे रावणेन बलीयसा ।। 4.58.2 ।।

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।

नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ।। 4.58.3 ।।

यवीयानिति । आख्यात भूते लोट् ।। 4.58.2,3 ।।

पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ।

आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ।। 4.58.4 ।।

पुरेति, परस्परवेगातिशयख्यापनपरावित्यर्थः । आदित्यमुपयातौ सूर्यसमीपं गतौ स्वः ।। 4.58.4 ।।

आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम् ।

मध्यं प्राप्ते दिनकरे जटायुरवसीदति ।। 4.58.5 ।।

आवृत्त्या मण्डलगत्या । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ।। 4.58.5 ।।

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरार्दितम् ।

पक्षाभ्यां छादयामास स्नेहात्परमविह्विलः ।। 4.58.6 ।।

निर्दग्धपक्षः पतितो विन्ध्ये ऽहं वानरर्षभाः ।

अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ।। 4.58.7 ।।

जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा ।

युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ।। 4.58.8 ।।

जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।

आख्याहि यदि जानासि निलयं तस्य रक्षसः ।। 4.58.9 ।।

छादयामास आच्छादयम् ।। 4.58.69 ।।

अदीर्घदर्शनं तं वै रावणं राक्षसाधिपम् ।

अन्तिके यदि वा दूरे यदि जानासि शंस नः ।। 4.58.10 ।।

ततो ऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।

आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन् ।। 4.58.11 ।।

निर्दग्धपक्षो गृध्रो ऽहं हीनवीर्यः प्लवङ्गमाः ।

वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ।। 4.58.12 ।।

अदीर्घदर्शनम् आगाम्यनर्थानवेक्षकम् ।। 4.58.1012 ।।

जानामि वारुणान् लोकान् विष्णोस्त्रैविक्रमानपि ।

महासुरविमर्दान्वाप्यमृतस्य च मन्थनम् ।। 4.58.13 ।।

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।

जरया च हृतं तेजः प्राणाश्च शिथिला मम ।। 4.58.14 ।।

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।

ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ।। 4.58.15 ।।

वारुणान् लोकान् अतलवितलादिलोकान् । त्रैविक्रमान् त्रिविक्रममितानुपरितनलोकानित्यर्थः । महासुरविमर्दान् देवासुरसङ्ग्रामान् ।। 4.58.1315 ।।

क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।

भूषणान्यपविध्यन्ती ग्रात्राणि च विधून्वती ।। 4.58.16 ।।

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।

असिते राक्षसे भाति यथा वा तडिदम्बुदे ।। 4.58.17 ।।

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।

श्रूयतां मे कथयतो निलयं तस्य रक्षसः ।। 4.58.18 ।।

अपविध्यन्ती छेदयन्ती ।। 4.58.1618 ।।

पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च ।

अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ।। 4.58.19 ।।

इतो द्वीपः समुद्रस्य सम्पूर्णे शतयोजने ।

तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ।। 4.58.20 ।।

जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः ।

प्राकारेणार्कवर्णेन महता सुसमावृता ।। 4.58.21 ।।

तस्यां वसति वैदेही दीना कौशेयवासिनी ।

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।। 4.58.22 ।।

जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ।

लङ्कायामथ गुप्तायां सागरेण समन्ततः ।। 4.58.23 ।।

सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् ।

आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ।। 4.58.24 ।।

पुत्र इति । अध्यास्ते । “अधिशीङ्स्थासां कर्म” इति नगर्याः कर्मत्वम् ।। 4.58.1924 ।।

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ।

ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।। 4.58.25 ।।

तत्रैवेति । विक्रमध्वम् “वेः पादविहरणे” इत्यात्मनेपदम् । ज्ञानेन दिव्यज्ञानेन ।। 4.58.25 ।।

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ।

द्वीतीयो बलिभोजानां ये च वृक्षफलाशिनः ।। 4.58.26 ।।

दूरस्थदर्शनं भवतः कुतो जातम्? तत्राह आद्य इत्यादिना । कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणम् । धान्यजीविनः पक्षिविशेषाः कुलिङ्गाः । “ये चान्ये धान्यजीविनः” इति वचनात् । बलिभोजानां काकानाम् ।। 4.58.26 ।।

भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ।

श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ।। 4.58.27 ।।

भासा इति । भासाः जलवायसाः । “भासस्तु जलवायसः” इति निघण्टुः ।

श्येनविशेषा इत्यप्याहुः ।। 4.58.27 ।।

बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।

षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ।

वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ।। 4.58.28 ।।

बलेत्यदि । वैनतेयात् गरुडात् नः अस्माकं जन्म उत्पत्तिः । तेन तस्य या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्यकाण्डे “द्वौ पुत्रौ विनतायास्तु गरुडो ऽरुण एव च । तस्माज्जातो ऽहमरुणात्सम्पातिस्तु ममाग्रजः ।।” इति वचनेन जटायुषोक्तेनेदं विरुद्धमिति चेत्? न “वैनतेयात्” इत्यस्य विनतापुत्रादरुणादित्यर्थ इत्यदोषात्। वैनतेयगतिरित्यत्र वैनतेययोररुणगरुडयोर्गतिरित्यर्थः। अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ।। 4.58.28 ।।

इहस्थो ऽहं प्रपश्यामि रावणं जानकीं तथा ।

अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ।। 4.58.29 ।।

तस्मादाहारवीर्येण निसर्गेण च वानराः ।

आयोजनशतत्साग्राद्वयं पश्याम नित्यशः ।। 4.58.30 ।।

न केवलं दिव्यज्ञानम्, दिव्यचक्षुरप्यस्तीत्याह इहस्थ इति । अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन सम्बध्यते । सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तम् । आहारवीर्येण चक्षुष्याहारबलेनेत्यर्थः । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ।। 4.58.29,30 ।।

अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ।

विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ।। 4.58.31 ।।

वृत्तिः भक्ष्यग्रहणम् । चरणयोधिनां कुक्कुटानाम् । पादमूले पादविकीर्णप्रदेशे । वृत्तिः जीवनम् ।। 4.58.31 ।।

गर्हितं तु कृतं कर्म येन स्म पिशिताशिना ।

प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ।। 4.58.32 ।।

गर्हितमिति । येन पिशिताशिना गर्हितं कर्म सीतापहरणरूपं कृतम् । मे भ्रातुर्हेतोः प्रतीकार्यं तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति शेषः । अयं श्लोकः चरणयोधिनामित्यनन्तरं निवेशनीय इत्याहुः ।। 4.58.32 ।।

उपायो दृश्यतां कश्चिल्लङ्घने लवाणाम्भसः ।

अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ।। 4.58.33 ।।

एवं प्रासङ्गिकं परिसमाप्य प्रकृतमाह उपाय इति । गमिष्यथेत्यत्र किष्किन्धामिति शेषः ।। 4.58.33 ।।

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।

प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ।। 4.58.34 ।।

समुद्रमिति । नेतुमिच्छामि, मामिति शेषः । भवद्भिरिति करणे तृतीया ।। 4.58.34 ।।

ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ।

निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ।। 4.58.35 ।।

पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् ।

बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ।। 4.58.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ।। 58 ।।

तीरं देशम्, तीरप्रदेशमित्यर्थः । तं देशं सम्पात्यावासभूतं देशं पुनः प्रत्यानयित्वा प्रवृत्तिं वृत्तान्तम् उपलभ्य ते वानराः हृष्टाः बभूवुः ।। 4.58.35,36 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ।। 58 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.