06 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः

पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ।। 4.6.1 ।।

एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ।। 4.6.1 ।।

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ।

हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ।। 4.6.2 ।।

अयमिति । त्वं यन्निमित्तं वनमागतः तदाख्याति स्म ।। 4.6.2 ।।

लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।

रक्षसा ऽपहृता भार्या मैथिली जनकात्मजा ।। 4.6.3 ।।

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ।

अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ।। 4.6.4 ।।

लक्ष्मणेनेत्यादिश्लोकद्वयम् । तेन पूर्वमविज्ञातेन ।। 4.6.3,4 ।।

भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे ।

अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ।। 4.6.5 ।।

विमोक्ष्यसे त्यक्ष्यसि । नष्टां मधुकैटभापहृतां वेदश्रुतीं श्रूयत इति श्रुतिः शब्दः, वेदरूपश्रुतीमिव वेदगिरमिव । दीर्घः आर्षः ।। 4.6.5 ।।

रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ।

अहमानीय दास्यामि तव भार्यामरिन्दम ।। 4.6.6 ।।

वर्तन्तीं वर्तमानाम् ।। 4.6.6 ।।

इदं तथ्यं मम वचस्त्वमवेहि च राघव ।

न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ।। 4.6.7 ।।

तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ।। 4.6.8 ।।

जरयितुम् आत्मसात्कर्तुम् । विषकृतं विषेण पक्वम् ।। 4.6.7,8 ।।

त्यज शोकं महाबाहो तां कान्तमानयामि ते ।

अनुमानात्तु जानामि मैथिली सा न संशयः ।। 4.6.9 ।।

ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।

क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।

स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ।। 4.6.10 ।।

अनुमानात् योग्यतया या दृष्टा सा मैथीली न संशयः । अनुमानात्तु जानामीत्यस्यैव विवरणमिदम् ।। 4.6.910 ।।

आत्मना प़ञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।

उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ।। 4.6.11 ।।

आत्मनेति । आत्मना मया पञ्चमम् ।। 4.6.11 ।।

तान्यस्माभिर्गृहीतानि निहितानि च राघव ।

आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ।। 4.6.12 ।।

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ।

आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ।। 4.6.13 ।।

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।

प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ।। 4.6.14 ।।

प्रत्यभिज्ञातुं स्मर्तुम् ।। 4.6.1214 ।।

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।

इदं पश्येति रामाय दर्शयामास वानरः ।। 4.6.15 ।।

ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ।

अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ।। 4.6.16 ।।

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।

हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ।। 4.6.17 ।।

उत्तरीयमाभरणानि च उत्तरीयबद्धानीत्यर्थः ।। 4.6.1517 ।।

हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् ।

निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ।। 4.6.18 ।।

अलङ्कारमिति जात्येकवचनम् । रोषितः सञ्जतरोषः ।। 4.6.18 ।।

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ।

परिदेवयितुं दीनं रामः समुपचक्रमे ।। 4.6.19 ।।

परिदेवयितुं प्रलपितुम् । दीनमिति क्रियाविशेषणम् ।। 4.6.19 ।।

पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ।

उत्तरीयमिदं भूमै शरीराद्भूषणानि च ।। 4.6.20 ।।

पश्येति । शरीरात् अपनीयेति शेषः ।। 4.6.20 ।।

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ।

उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ।। 4.6.21 ।।

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।

नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ।। 4.6.22 ।।

ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ।। 4.6.23 ।।

अत्र शाद्वलशब्देन हरिततृणान्युच्यन्ते । स्वार्थे वलजार्षः । तद्वात्यां भूमौ मृदुस्थले उत्सृष्टत्वात् तथारूपम् अविकलरूपं दृश्यते ।। 4.6.2123 ।।

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।

रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ।। 4.6.24 ।।

कं देशं कां दिशं प्रति ह्रियन्ती ह्रियमाणेत्यर्थः । प्राणैः प्राणेभ्यः ।। 4.6.24 ।।

क्व वा वसति तद्रक्षो महद्व्यसनदं मम ।

यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ।। 4.6.25 ।।

हरता मैथिलीं येन मां च रोषयता भृशम् ।

आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ।। 4.6.26 ।।

अपावृतम् उद्घाटितं येन तत्क्क वसतीत्यन्वयः ।। 4.6.25,26 ।।

मम दयिततरा हृता वनान्ताद्रजनिचरेण विमथ्य येन सा ।

कथम मम रिपुं त्वमद्य वै प्लवगपते यमसादनं नयामि ।। 4.6.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः ।। 6 ।।

ममेति । विषमवृत्तम् ।। 4.6.27 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्ठः सर्गः ।। 6 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.