19 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनविंशः सर्गः

स वानरमहाराजः शयानः शरविक्षतः ।

प्रुत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ।। 4.19.1 ।।

अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम् ।

रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ।। 4.19.2 ।।

तं भार्या बाणमोक्षेण रामदत्तेन संयुगे ।

हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ।। 4.19.3 ।।

तारागमनमेकोनविंशे स वानरमहाराज इत्यादि । विक्षतः विशेषेण क्षतः । जीवितान्ते जीवितान्तकाले ।। 4.19.13 ।।

सा सपुत्रा ऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् ।

निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् ।। 4.19.4 ।।

सा सपुत्राप्रियमिति । अप्रियमितिच्छेदः । विविधान्नानाकक्ष्यात् गिरिगह्वराद्गिरिगुहातः । गुहारूपा हि किष्किन्धेत्युक्तम् ।। 4.19.4 ।।

ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः ।

ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ।। 4.19.5 ।।

सा ददर्श ततस्त्रस्तान् हरीनापततो भृशम् ।

यूथादिव परिभ्रष्टान् मृगान्निहतयूथपान् ।। 4.19.6 ।।

ये त्वित्यादिश्लोकद्वयमेकान्वयम् ।। 4.19.5,6 ।।

तानुवाच समासाद्य दुःखितान् दुःखिता सती ।

रामवित्रासितान्त्सर्वाननुबद्धानिवेषुभिः ।। 4.19.7 ।।

पूर्वं सामान्यतो विदितवृत्तान्तापि विशेषजिज्ञासया पृच्छति तानिति ।। 4.19.7 ।।

वानरा राजसिंहस्य यस्य यूयं पुरःसराः ।

तं विहाय सुसंत्रस्ताः कस्माद्द्रवथ दुर्गताः ।। 4.19.8 ।।

राज्यहेतोः स चेद् भ्राता भ्रात्रा रौद्रेण पातितः ।

रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः ।। 4.19.9 ।।

वानरा इत्यादिश्लोकद्वयमेकान्वयम् । दुर्गताः अगतिकाः राज्यलाभाय सुग्रीवेण वाली हतश्चेद्भवतां किं भयमित्यर्थः । मार्गणैरिति बहुवचनं सम्भावनयोक्तम् ।। 4.19.8,9 ।।

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः ।

प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम् ।। 4.19.10 ।।

अविक्लिष्टं सयुक्तिकमिति यावत् ।। 4.19.10 ।।

जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् ।

अन्तको रामरूपेण हत्वा नयति वालिनम् ।। 4.19.11 ।।

क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च शिलास्तथा ।

वाली वज्रसमैर्बाणै रामेण विनिपातितः ।। 4.19.12 ।।

जीवपुत्रे इति । अपुत्रायाः खलु मृतभर्त्रनुगमनमिति भावः । नयति लोकान्तरमिति शेषः ।। 4.19.11,12 ।।

अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् ।

अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ।। 4.19.13 ।।

रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम् ।

पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ।। 4.19.14 ।।

विद्रुतं पूर्वं किष्किन्धातो निर्गतमिदं बलं प्रसृतं प्रकीर्णं सत् अभिद्रुतं किष्किन्धाभिमुख्येन द्रुतम् ।। 4.19.13,14 ।।

अथवा ऽरुचितं स्थानमिह ते रुचिरानने ।

आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः ।। 4.19.15 ।।

अथवेति । हे रुचिरानने ते इह किष्किन्धायां स्थानम् अवस्थानम् । अरुचितम् अनभिमतम्, अत्र स्थातुम् अस्माकं न रोचते इत्यर्थः । हि अस्मात्कारणात् वानराः शत्रुभूताः दुर्गाणि किष्किन्धायाः दुष्प्रवेशस्थलानि । आविशन्ति आक्रमिष्यन्ति । अन्यानि अस्मदावासस्थलभिन्नानीत्यर्थः ।। 4.19.15 ।।

अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः ।

लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम् ।। 4.19.16 ।।

अस्त्वाक्रमणम् । ततः किमित्यत्राह अभार्या इति । अभार्याः भार्याविरहिताः सभार्याः समानभार्याः, साधारणभार्या इत्यर्थः । ये वालिना विप्रवासिताः वनचारिणः सन्ति तेभ्यः विप्रयुक्तेभ्यः स्वभार्याविरहिभ्यः लुब्धेभ्यः साधारणभार्यान्तराभिलाषिभ्यः स्वेभ्यः ज्ञातिभ्यः सुग्रीवादिभ्यः । नः अस्माकम् अत्र किष्किन्धास्थाने तुमुलं निरन्तरं भयं भवति । अनेन भाविसुग्रीवव्यापारः सूचितः । रुचिरानन इत्यादिसम्बोधनात्तस्याः सहमरणसाहसं द्योत्यते ।। 4.19.16 ।।

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना ।

आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ।। 4.19.17 ।।

पुत्रेण मम किं कार्यं किं राज्येन किमात्मना ।

कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ।। 4.19.18 ।।

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ।

यो ऽसौ रामप्रयुक्तेन शरेण विनिपातितः ।। 4.19.19 ।।

अल्पेति । अल्पान्तरगतानां किञ्चिदवकाशं प्राप्तानाम्, सम्भाषणाय कियन्मात्रावकाशं प्राप्तानामित्यर्थः । आत्मनः प्रतिरूपं स्वबुद्ध्यनुगुणम्, यद्वा आन्तरं बुद्धिः अल्पबुद्धीनामित्यर्थः ।। 4.19.1719 ।।

एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता ।

शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ।। 4.19.20 ।।

एवमिति । बाहुभ्यां हस्ताभ्यामित्यर्थः ।। 4.19.20 ।।

आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ।

हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ।। 4.19.21 ।।

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् ।

महावातसमाविष्टं महामेघौघनिःस्वनम् ।। 4.19.22 ।।

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् ।

नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ।। 4.19.23 ।।

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ।

अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ।। 4.19.24 ।।

नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ।

अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तमम् ।

रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ।। 4.19.25 ।।

दानवेन्द्राणां मायाविप्रभृतीनाम् । वज्राणामिति प्रयोगबाहुल्यापेक्षया बहुवचननिर्देशः । महावातसमाविष्टं समाविष्टमहावातमिव स्थितम् । समावेशः सङ्घीभावः, यद्वा समाविष्टमिति भावे निष्ठा । महावातसमावेशमिव स्थितम् । पराक्रान्तं पराक्रमः । नर्दतां मध्ये भीमं नर्दन्तम् । शार्दूलेन सिंहेन “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः श्वेतपिङ्गलः । व्यादीर्णास्यो महानादः शार्दूलो ऽतुलविक्रमः ।।” इति वैजयन्ती। यद्वा असम्भावितत्वद्योतनाय शार्दूलहिसितसिंहमिवेत्यभूतोपमा। अर्चितमिति। अत्र भागवताद्युक्तकालीयनागप्रहरणवेलायां बलिस्थानं चैत्यमप्युन्मथितमित्यवगन्तव्यमित्याहुः। सर्वलोकस्य सर्वलोकेन अर्चितं सपताकम् अलङ्कृतमित्यर्थः। सवेदिकं श्रमहरवेदिकासम्पन्नम्। एवं वर्तमानमपि तत्र निगूढनागग्रहणाय गरुडोन्मथितं चैत्यमिव स्थितमित्यर्थः। शौर्यादिसम्पन्नोऽपि भ्रातृभार्यापहरणपापवत्त्वेन हत इत्यत्र दृष्टान्तोऽयम्। अवष्टभ्येति। ऊर्जितं दृढं धनुरवष्टभ्य तिष्ठन्तम्, अनेनाकर्षकाकार उच्यते। चकारेण तादृशसंस्थानविशेषेणाकर्षकता कथ्यते। भर्तारं हतवन्तं रामं तत्साहाय्यकृतं तदनुजं तेन संहारयितारं सुग्रीवं च ददर्श। शुभा तत्र शत्रुत्वबुद्धिं विहाय शुभहृदया बभूव। न रामस्य दोषोऽस्ति किन्तु वालिन एव। पानीयपानाय तटाके खाते तत्र कण्ठे गुर्वीं शिलां बद्ध्वा पतित्वा म्रियमाणस्यैव हि दोषः, अयमप्यनुकूलश्चेत् कथमेतं न रक्षेत्। किञ्च “मम प्राणा हि पाण्डवाः” इत्युक्तरीत्या स्वप्राणभूते स्वाश्रिते हिंसां कुर्वन्तं कथं मृष्येत्। अत एव हि प्रथमयुद्धे न हिंसितवान् किन्तु स्वाश्रितापराधं दृष्ट्वैव पुनर्युद्धे वालिनं हतवानित्यमन्यतेति भावः ।। 4.19.2125 ।।

तानतीत्य समासाद्य भर्तारं निहतं रणे ।

समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह ।। 4.19.26 ।।

तमिममर्थं व्यञ्जयन्नाह तानिति । अतीत्येति नातिक्रम उच्यते । सर्वेषां समीपस्थत्वात् । किन्तु तत्र दोषबुद्धिमकृत्वेत्यर्थः । भर्तारं समासाद्येति उपसर्गेण स्वाज्ञानेनायं हत इति बुद्धवतीति ज्ञाप्यते ।। 4.19.26 ।।

सुप्त्वैव पुनरुत्थाय आर्यपुत्रेति क्रोशती ।

रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः ।। 4.19.27 ।।

सुप्त्वेति । सन्दितं बद्धम् । मृत्युदामभिः मृत्युपाशैः, आसन्नप्राणमित्यर्थः ।। 4.19.27 ।।

तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव ।

विषादमगमत्कष्टं दष्ट्वा चाङ्गदमागतम् ।। 4.19.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनविंशः सर्गः ।। 19 ।।

तामिति । कष्टं विषादम्, अत्यन्तविषादमित्यर्थः ।। 4.19.28 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनाविंशः सर्गः ।। 19 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.