22 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ।

आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ।। 4.22.1 ।।

एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति दैवात्किञ्चित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति द्वाविंशे वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः ।। 4.22.1 ।।

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः ।

आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ।। 4.22.2 ।।

तमिति । आभाष्य सम्बोध्य ।। 4.22.2 ।।

सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बषात् ।

कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ।। 4.22.3 ।।

सुग्रीवेति । किल्बिषात् राज्यविवासनदारहणरूपकिल्बिषाद्धेतोः मां दोषेण गन्तुं दोषसहितं ज्ञातुं नार्हसि, किन्तु भविष्येण भाविफलेन हेतुना जातेन बुद्धिमोहेन बालात्कृष्यमाणं मां गन्तुमर्हसि ।। 4.22.3 ।।

युगपद्विहितं तात न मन्ये सुखमावयोः ।

सौहार्दं भ्रातृयुक्तं हि तदिदं तात नान्यथा ।। 4.22.4 ।।

युगपदिति । आवयोः भ्रात्रोः भातृयुक्तं भ्रातृत्वप्रयुक्तं सौहार्दं सुखं राज्यमुखं च । एतदुभयं दैवेन युगपन्न विहितं मन्ये ध्रुवम् । अव्ययमेतत् । तदिदं दैवकृतं युगपदविधानम् अन्यथा न हि अन्यप्रकारं न भवति हि ।। 4.22.4 ।।

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।

मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ।। 4.22.5 ।।

प्रतीति । प्रतिपद्य, पालयेति शेषः । यद्वा प्रतिपद्य प्राप्नुहि । श्यन्नन्तो ऽयम् । वैवस्वतक्षयं यमगृहम् ।। 4.22.5 ।।

जीवितं हि राज्यं च श्रियं च विपुलामिमाम् ।

प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ।। 4.22.6 ।।

जीवितमिति । अगर्हितं यशः केनाप्यवध्यो वालीति प्रसिद्धं यशः ।। 4.22.6 ।।

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।

यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ।। 4.22.7 ।।

अस्यामवस्थायां चरमावस्थायां यद्वचो वक्ष्यामि एतद्यद्यप्यसुकरं तथाप्यवश्यं कर्तुमर्हसि । मदुक्तरीत्या राजा भवेत्यर्थः ।। 4.22.7 ।।

सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ।

बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ।

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ।। 4.22.8 ।।

सुखार्हमिति । वयसा बालमप्यबालिशं बालबुद्धिरहितम् । ममेति । प्राणैः प्राणेभ्यः, मम पुत्रं औरसम् पुत्रमिव पश्येति संबन्धः ।। 4.22.8 ।।

मया हीनमहीनार्थं सर्वतः परिपालय ।

त्वमेवास्य हि दाता च परित्राता च सर्वतः ।

भयेष्वभयदश्चैव यथा ऽहं प्लवगेश्वर ।। 4.22.9 ।।

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ।

रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ।। 4.22.10 ।।

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।

करिष्यत्येष तारेयस्तरस्वी तरुणो ऽङ्गदः ।। 4.22.11 ।।

मयेत्यादि । अस्य अङ्गदस्य दाता, वस्त्राभरणादीनामिति शेषः । सर्वतः शत्रुभ्यः परित्राता । भयेष्वभयदः शत्रुपुत्रत्वेन स्थानान्निष्कासनादिभयहेतुषु विषये अभयदः ।। 4.22.911 ।।

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ।

औत्पातिके च विविधे सर्वतः परिनिष्ठिता ।। 4.22.12 ।।

सुषेणेति । अर्थसूक्ष्मविनिश्चये सूक्ष्मार्थविनिश्चये औत्पातिके उत्पातविषयज्ञाने च । परिनिष्ठिता सञ्जातनिष्ठा, समर्थेति यावत् ।। 4.22.12 ।।

यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् ।

नहि तारामतं किञ्चिदन्यथा परिवर्तते ।। 4.22.13 ।।

यदिति । न परिवर्तते न भवतीत्यर्थः ।। 4.22.13 ।।

राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।

स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ।। 4.22.14 ।।

राघवस्य चेति । विमानितः, राघव इति शेषः ।। 4.22.14 ।।

इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ।

उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि ।। 4.22.15 ।।

इमामिति । सम्प्रजह्यान्मृते मयि मृते सति श्रीरिमां काञ्चनीं मालां सम्प्रजह्यात् । ततः पूर्वमेव मयि जीवति गृहाणेति भावः ।। 4.22.15 ।।

इत्येमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।

हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ।। 4.22.16 ।।

इतीति । दीनः अभूदिति शेषः । ग्रहग्रस्तः राहुग्रस्तः ।। 4.22.16 ।।

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ।

जग्रह सो ऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ।। 4.22.17 ।।

तदिति । तत्तदनन्तरं शान्तः त्यक्तवैरः ।। 4.22.17 ।।

तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वा ऽ ऽत्मजं स्थितम् ।

संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ।। 4.22.18 ।।

तामिति । प्रेत्यभावाय मरणाय । संसिद्धः कृतनिश्चयः ।। 4.22.18 ।।

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।

सुखदुःखसहः काले सुग्रीववशगो भव ।। 4.22.19 ।।

यथा हि त्वं महाबाहो लालितः सततं मया ।

न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ।। 4.22.20 ।।

अद्य मत्प्रयाणानन्तरं देशाकालौ भजस्व । गत्यर्था ज्ञानार्थाः । देशाकालौ जानीहि । अस्मिन् देशे अस्मिन् काले च एवं वर्तितव्यम्, एवं न वर्तितव्यमिति विवेचयेत्यर्थः । प्रियाप्रिये क्षममाणः प्रभोः प्रियवचनवदप्रियवचनमपि सोढव्यमित्यर्थः । काले सुखदुःखसहः दुःखकाले सुखं सुखकाले दुःखं च सहमान इत्यर्थः । सुग्रीववशगो भव सुग्रीवपरतन्त्रो भव ।। 4.22.19,20 ।।

मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम ।

भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ।। 4.22.21 ।।

मास्येति । अस्य सुग्रीवस्यामित्रैर्गतं प्राप्तं पुरुषं मा गच्छेः । अस्य शत्रुमित्रं न भजेरित्यर्थः । शत्रुभिः सह च मा गच्छेः ।। 4.22.21 ।।

न चातिप्रणयः कार्यः कर्तव्यो ऽप्रणयश्च ते ।

उभयं हि महान् दोषस्तस्मादन्तरदृग्व ।। 4.22.22 ।।

न चेति । अतिप्रणयः अतिस्नेहः, अप्रणयः स्नेहाभावश्च । अन्तरदृग्भव मध्यमभावमवलम्बस्वेत्यर्थः ।। 4.22.22 ।।

इत्युक्त्वा ऽथ विवृत्ताक्षः शरसम्पीडितो भृशम् ।

विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ।। 4.22.23 ।।

इतीति । विवृत्ताक्षः भ्रामितनेत्रः । विवृतैः प्रकाशितैः, अत एव भीमैः दशनैः दन्तैरुपलक्षितः उत्क्रान्तजीवितः उद्गतप्राणः ।। 4.22.23 ।।

ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः ।

परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः ।। 4.22.24 ।।

तत इति । परिदेवयमानाः रुदन्त इत्यर्थः । प्लवगपुङ्गवाः बलेन श्रेष्ठाः । पुनश्च हरियूथपाः यूथस्य निर्वोढारः । वानराः वानरजातयः ।। 4.22.24 ।।

किष्किन्धा ह्यद्य शून्य ऽसीत्स्वर्गते वानराधिपे ।

उद्यानानि च शून्यानि पर्वताः काननानि च ।

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः ।। 4.22.25 ।।

परिदेवनमेवाह किष्किन्धेत्यादिना । शून्या शून्यप्राया ।। 4.22.25 ।।

यस्य वेगेन महता काननानि वनानि च ।

पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः ।। 4.22.26 ।।

यस्येति । वेगेन पराक्रमेण काननानि अरण्यानि, वनानि जलानि सरांसीत्यर्थः । पुष्पौघेण अनुबध्यन्ते सम्बध्यन्ते, सदा पुष्पितानि भवन्तीत्यर्थः । तत्पुष्पानुबन्धनम् अद्य तु वालिमरणानन्तकाले । यद्वा वनानि क्षुद्रारण्यानि यस्मिन् वालिनि गच्छति सति तदूरुवेगेनाविशेषेण सर्वाणि वनानि पुष्पैः सहानुगच्छन्तीत्यर्थः ।। 4.22.26 ।।

येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः ।

गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ।। 4.22.27 ।।

नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति ।

ततस्तु षोडशे वर्षे गोलभो विनिपातितः ।। 4.22.28 ।।

हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान् ।

सर्वाभयकरो ऽस्माकं कथमेष निपातितः ।। 4.22.29 ।।

येनेति । गोलभस्य गोलभाख्यस्य । उपशाम्यति उपाशाम्यत् । भूते लट् । दंष्ट्राकरालवान् करालदंष्ट्रावान् । परनिपातः ।। 4.22.2729 ।।

हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे ।

वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ।। 4.22.30 ।।

हत इति । शर्म सुखम् । सिंहयुत इति । सिंहस्थानीयो रामः ।। 4.22.30 ।।

ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा ।

जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ।। 4.22.31 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः ।। 22 ।।

ततस्त्विति । व्यसनार्णवे आप्लुता मग्नेति यावत् ।। 4.22.31 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वाविंशः सर्गः ।। 22 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.