64 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः ।

सङ्गम्य प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः ।। 4.64.1 ।।

एवं प्रक्षिप्ताः पञ्च सर्गाः गताः ।। एवं कृतोदकं सम्पातिं स्वस्थानमानीय प्रकृतकार्याय वानरा गता इत्याह आख्याता इति । समुत्पत्य हर्षेण तत्र लङ्घनं कृत्वा सङ्गम्य पुनरन्योन्यं समेत्य विनेदुः ।। 4.64.1 ।।

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।

हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ।। 4.64.2 ।।

हरयः सम्पातेर्वचनं श्रुत्वा सीतादर्शनकाङ्क्षिणः सन्तः रावणक्षयं रावणनिलयभूतं लङ्काद्वीपमुद्दिश्य सागरं, तन्मार्गभूतं सागरम् आजग्मुरिति सम्बन्धः ।। 4.64.2 ।।

अभिक्रम्य तु तं देशं ददृशुर्भीमाविक्रमाः ।

कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ।। 4.64.3 ।।

कृत्स्नस्य लोकस्य प्रतिबिम्बमिव प्रतिनिधिमिव । इदं तटविशेषणम्, सर्वलोकस्थसमस्तवस्तुसम्पूर्णमित्यर्थः । “प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।।” इत्यमरः ।। 4.64.3 ।।

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।

सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ।। 4.64.4 ।।

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।

व्यत्यस्तैः सुमहाकायैरूर्मिभिश्च समाकुलम् ।। 4.64.5 ।।

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।

क्कचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ।। 4.64.6 ।।

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः ।

रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ।। 4.64.7 ।।

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।

विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ।। 4.64.8 ।।

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।

आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ।। 4.64.9 ।।

सन्निवेशं स्थानम् ।। 4.64.49 ।।

तान् विषादेन महता विषण्णान् वानरर्षभान् ।

उवाच मतिमान् काले वालिसूनुर्महाबलः ।। 4.64.10 ।।

न विषादे मनः कार्यं विषादो दोषवत्तमः ।

विषादो हन्ति पुरुषं बालं क्रुद्ध इवरोगः ।। 4.64.11 ।।

विषादेन विषादकारणेन ।। 4.64.10,11 ।।

विषादो यं प्रसहते विक्रमे पर्युपस्थिते ।

तेजसा तस्य हीनस्य पुरुषार्थे न सिध्यति ।। 4.64.12 ।।

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।

हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ।। 4.64.13 ।।

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।

वासवं परिवार्येव मरुतां वाहिनी स्थिता ।। 4.64.14 ।।

को ऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।

अन्यत्र वालितनयादन्यत्र च हनूमतः ।। 4.64.15 ।।

ततस्तान् हरिवृद्धांश्च तञ्च सैन्यमरिन्दमः ।

अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदवब्रवीत् ।। 4.64.16 ।।

क इदानीं महातेजा लङ्घयिष्यति सागरम् ।

कः करिष्यति सुग्रीवं स्तयसन्धमरिन्दमम् ।। 4.64.17 ।।

को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः ।

इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात् ।। 4.64.18 ।।

कस्य प्रभावाद्दारांश्च पुत्रांश्चैव गृहाणि च ।

इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ।। 4.64.19 ।।

कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।

अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ।। 4.64.20 ।।

यदि कश्चित्समर्थो वः सागरप्लवने हरिः ।

स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ।। 4.64.21 ।।

अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत् ।

स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ।। 4.64.22 ।।

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।

सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ।। 4.64.23 ।।

विषादो यं ( विषादो ऽयं ) प्रसहते अभिभवति । सिद्ध्यतीत्यनन्तरम् इतिकरणं बोध्यम् ।। 4.64.1223 ।।

व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।

नहि वो गमने सङ्गः कदाचित्कस्यत्क्वचित् ।

ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ।। 4.64.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ।। 64 ।।

सङ्गः प्रतिहतिः । ब्रुवध्वमित्यार्षो निर्देशः ।। 4.64.24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुःषष्टितमः सर्गः ।। 64 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.