37 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।

हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ।। 4.37.1 ।।

अथ सर्ववानरसमानयनं सप्तत्रिंशे एवमित्यादि ।। 4.37.1 ।।

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।

मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ।। 4.37.2 ।।

महेन्द्रादय एव पञ्च शैलाः ।। 4.37.2 ।।

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः ।

पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ।। 4.37.3 ।।

तरुणेति । पश्चिमायां दिशि ये स्थिताः तेषु ये वानराः स्थिता इति योजना । अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थः ।। 4.37.3 ।।

आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ।

पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ।। 4.37.4 ।।

अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः ।

अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ।। 4.37.5 ।।

आदित्यभवने उदयगिरौ । पद्माः चन्दनविशेषाः ।। 4.37.4,5 ।।

मनःशिलागुहावासा वानराः कनकप्रभाः ।

मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ।। 4.37.6 ।।

तरुणादित्यवर्णाश्च पर्वते च महारुणे ।

पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ।। 4.37.7 ।।

वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।

तापसानां च रम्येषु वनान्तेषु समन्ततः ।। 4.37.8 ।।

मनःशिलागुहावासाः मनःशिलामयगुहावासाः । महारुणे महारुणाख्ये । यत्र यच्छब्दो नास्ति, तत्राध्याहर्तव्यः ।। 4.37.68 ।।

तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् ।

सामदानादिभिः कल्पैराशु प्रेषय वानरान् ।। 4.37.9 ।।

सामेति । कल्पैः उपायैः । समानय तदर्थं प्रेषय ।। 4.37.9 ।।

प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।

त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् ।। 4.37.10 ।।

प्रेषिता इति । प्रेषितदूतत्वरणार्थोक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां लक्ष्मणाय द्योतयितुम् ।। 4.37.10 ।।

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।

इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ।। 4.37.11 ।।

अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया ।

हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ।। 4.37.12 ।।

ये इति । दीर्घसूत्राः चिरक्रियाः उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ।। 4.37.11,12 ।।

शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ।

प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ।। 4.37.13 ।।

मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।

घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ।। 4.37.14 ।।

शतानीति । बहुसङ्ख्याभिधानं लक्ष्मणाय वानरासङ्ख्येयत्वद्योतनार्थम् ।। 4.37.13,14 ।।

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।

आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ।। 4.37.15 ।।

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।

दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ।। 4.37.16 ।।

त इति । गम्यत इति गतिः वासस्थानम् । पृथिव्यां सर्वान् हरीन् आनयन्तु इति सम्बन्धः ।। 4.37.1516 ।।

ते पदं विष्णुविक्रान्तं पतत्ित्रज्योतिरध्वगाः ।

प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ।। 4.37.17 ।।

ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।

वानरा वानरान् सर्वान् रामहेतोरचोदयन् ।। 4.37.18 ।।

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।

सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ।। 4.37.19 ।।

ते पदमिति । पतत्ित्रज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः सन्तः विष्णुविक्रान्तं पदम् आकाशं प्रयाताः ।। 4.37.1719 ।।

ततस्ते ऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः ।

तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ।। 4.37.20 ।।

अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः ।

तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ।। 4.37.21 ।।

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।

ततः कोटिसहस्राणि वानराणामुपागमन् ।। 4.37.22 ।।

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।

तेषां कोटिसहस्राणां सहस्रं समवर्तत ।। 4.37.23 ।।

अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।

विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ।। 4.37.24 ।।

तत इति । यत्र येन हेतुना राघवो वर्तते ततः तस्माद्धेतोः तस्मात् गिरेः अञ्जनगिरेः निर्ययुः ।। 4.37.2024 ।।

क्षीरोदवेलानिलयास्तमालवनवासिनः ।

नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ।। 4.37.25 ।।

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा ।

आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ।। 4.37.26 ।।

क्षीरोदेति । अत्रापतन् द्रुतमित्यनुषज्यते । सङ्ख्या न विद्यत इति । उत्तरत्र सङ्ख्याकीर्तनं प्रधानाभिप्रायेण ।। 4.37.25,26 ।।

ये तु त्वरयितुं याता वानराः सर्ववानरान् ।

ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ।। 4.37.27 ।।

तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ।

सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ।। 4.37.28 ।।

अन्ननिष्यन्दजातानि मूलानि च फलानि च ।

अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ।। 4.37.29 ।।

तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम् ।

यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ।। 4.37.30 ।।

तानि मूलानि दिव्यानि फलानि च फलाशनाः ।

औषधानि च दिव्यानि जगृहुर्हरियूथपाः ।। 4.37.31 ।।

तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च ।

आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ।। 4.37.32 ।।

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।

सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ।। 4.37.33 ।।

ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः ।

किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ।। 4.37.34 ।।

ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।

तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ।। 4.37.35 ।।

सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।

पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ।। 4.37.36 ।।

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।

प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ।। 4.37.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ।। 37 ।।

ये त्वति । तुशब्दो हनुमत्प्रेरितवानरख्यावर्तकः, नीलेन पूर्वं प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने समागमनम् । सद्यो हनुमत्प्रेरितानां तदसम्भवात् । तं प्रसिद्धम् ।। 4.37.2737 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तत्रिंशः सर्गः ।। 37 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.