65 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः

ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः ।

स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ।। 4.65.1 ।।

गजो गवाक्षो गवयः शरभो गन्धमादनः ।

मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ।। 4.65.2 ।।

आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।

गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ।। 4.65.3 ।।

गवयो वानरस्तत्र वानरांस्तानुवाच ह ।

त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ।। 4.65.4 ।।

शरभस्तानुवाचाथ वानरान् वानरर्षभः ।

चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ।। 4.65.5 ।।

वानरस्तु महातेजा अब्रवीद्गन्धमादनः ।

योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ।। 4.65.6 ।।

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।

योजनानां परं षष्टिमहं प्लवितुमुत्सहे ।। 4.65.7 ।।

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।

गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ।। 4.65.8 ।।

सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् ।

अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ।। 4.65.9 ।।

ततो ऽङ्गदवच इत्यादि । गतौ गमनविषये । यद्यपि गजादयो ऽपि शतयोजनलङ्घने शक्ताः, “भूतले सागरे वा ऽपि शैलेषु च वनेषु च । पातालस्यापि मध्ये वा न ममाच्छिद्यते गतिः ।” इति सुग्रीवसन्निधौ वानरयूथपैः स्वस्वशक्तेः ख्यापितत्वात् “नहि वो गमने सङ्गः कदाचित्कस्यचित्क्वचित्” इति पूर्वमङ्गदोक्तेश्च । तथापि रावणाधिष्ठितलङ्काप्रवेशसीतान्वेषणादिकं दुष्करमन्येनेति तत्साधकहनुमत्प्रोत्साहनाय तथोक्तवन्त इति ध्येयम् ।। 4.65.19 ।।

तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।

ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ।। 4.65.10 ।।

पूर्वमस्माकमप्यासीत् कश्चिद्गतिपराक्रमः ।

ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ।। 4.65.11 ।।

किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।

यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ।। 4.65.12 ।।

साम्प्रतं कालभेदेन या गतिस्तां निबोधत ।

नवतिं योजनानां तु गमिष्यामि न संशयः ।

तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत् ।। 4.65.13 ।।

न खल्वेतावदेवासीद्गमने मे पराक्रमः ।

मया महाबलेश्चैव यज्ञे विष्णुः सनातनः ।। 4.65.14 ।।

तेषामिति । तेषां कथयतां तेषु कथयत्सु सत्सु ।। 4.65.1014 ।।

प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ।

स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।। 4.65.15 ।।

यौवने च तदा ऽ ऽसीन्मे बलमप्रतिमं परैः ।

सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ।। 4.65.16 ।।

नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ।

अथोत्तरमुदारार्थमब्रवीङ्गदस्तदा ।। 4.65.17 ।।

अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः ।

अहमेतद्गमिष्यामि योजनानां शतं महत् ।। 4.65.18 ।।

निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चिता ।

तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ।। 4.65.19 ।।

त्रयाणां विक्रमाणां समाहारः त्रिविक्रमम् ।। 4.65.1519 ।।

ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ।। 4.65.20 ।।

ज्ञायत इति । हर्यृक्षसत्तमेति । ऋक्षत्वं वानरावान्तरजातिः, अतः सुग्रीवादेः ऋक्षराजत्वमिति ।। 4.65.20 ।।

कामं शतं सहस्रं वा नह्येष विधिरुच्यते ।

योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ।। 4.65.21 ।।

काममिति । भवान् योजनानां शतं सहस्रं वा गन्तुं प्रतिनिवर्तितुं च कामं शक्तः । एष विधिः भृत्यैः स्वामिप्रस्थापनं नोच्यते न विधीयते ।। 4.65.21 ।।

नहि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन ।

भवता ऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम ।। 4.65.22 ।।

तदेव विवृणोति नहीति ।। 4.65.22 ।।

भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।

स्वामी कलत्रं सैन्यस्य गरितेषा परन्तप ।

तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ।। 4.65.23 ।।

अपि चैतस्य कार्यस्य भवान् मूलमरिन्दम ।

मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।

मूले हि सति सिद्ध्यन्ति गुणाः पुष्पफलोदयाः ।। 4.65.24 ।।

तद्भवानस्य कार्यस्य साधने सत्यविक्रम ।। 4.65.25 ।।

बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप ।

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।। 4.65.26 ।।

भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ।

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।। 4.65.27 ।।

प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ।

यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः ।। 4.65.28 ।।

पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ।

न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः ।। 4.65.29 ।।

तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ।

न हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ।। 4.65.30 ।।

अतीत्य तस्य सन्देशं विनाशो गमने भवेत् ।

तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।। 4.65.31 ।।

तद्भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति ।

सो ऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।। 4.65.32 ।।

जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततो ऽङ्गदम् ।

अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते ।

एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ।। 4.65.33 ।।

कलत्रं रक्षणीयं वस्तु ।। 4.65.2333 ।।

ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ।

सञ्चोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ।। 4.65.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ।। 65 ।।

तत इति । प्रतीतं प्रख्यातम् ।। 4.65.34 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ।। 65 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.