56 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले ।

हरयो गृध्रराजश्च तं देशमुपचक्रमे ।। 4.56.1 ।।

अथ सम्पातिसंवनादः षट्पञ्चाशे उपविष्टा इत्यादि । उपचक्रमे प्राप्तुमुपक्रान्तः ।। 4.56.1 ।।

सम्पातिर्नाम नाम्ना तु चिरञ्चीवी विहङ्गमः ।

भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः ।। 4.56.2 ।।

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।

उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ।। 4.56.3 ।।

सम्पातिरित्यादिश्लोकद्वयमेकान्वयम् ।। 4.56.2,3 ।।

विधिः किल नरं लोके विधानेनानुवर्तते ।

याथा ऽयं विहितो भक्ष्याश्चिरान्मह्यामुपागतः ।। 4.56.4 ।।

विधिः दैवम् । विधानेन योगक्षेमसम्पादनेन । यथा यस्मात्कारणात् ।। 4.56.4 ।।

परं पराणां भक्षिष्ये वानराणां मृतं मृतम् ।

उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ।। 4.56.5 ।।

पराणां वानराणां मध्ये मृतं परं वानरं भक्षिष्य इत्येवं वच उवाचेत्यन्वयः ।। 4.56.5 ।।

तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ।

अङ्गदः परमायस्तो हमुमन्तमथाब्रवीत् ।। 4.56.6 ।।

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।

इमं देशमनुप्राप्तो वानराणां विपत्तये ।। 4.56.7 ।।

परमायस्तः परमोद्विग्न इत्यर्थः ।। 4.56.6,7 ।।

रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।

हरिणामियमज्ञाता विपत्तिः सहसागता ।। 4.56.8 ।।

अज्ञाता अचिन्तिता ।। 4.56.8 ।।

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।

गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ।। 4.56.9 ।।

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।

प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ।

अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः ।। 4.56.10 ।।

तेन तस्योपकारार्थं त्यजतात्मानमात्मना ।

प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ।। 4.56.11 ।।

राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ।

कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।। 4.56.12 ।।

स्नेहकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां वद्धाः । अन्योन्यं प्रत्येकं प्रत्येकम् ।। 4.56.1012 ।।

स सुखी गृध्रराजस्तु रावणेन हतो रणे ।

मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ।। 4.56.13 ।।

जटायुषो विनाशेन राज्ञो दशरथस्य च ।

हरणेन च वैदेह्याः संशयं हरयो गताः ।। 4.56.14 ।।

परमां गतिं मुक्तिमित्यर्थः ।। 4.56.13,14 ।।

रामलक्ष्मणयोर्वास अरण्ये सह सीतया ।

राघवस्य च बाणेन वालिनश्च तथा वधः ।। 4.56.15 ।।

रामकोपादशेषाणां राक्षसानां तथा वधः ।

कैकेय्या वरदानेन इदं हि विकृतं कृतम् ।। 4.56.16 ।।

रामलक्ष्मणयोरित्यादि । रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन कृतं हीति सम्बन्धः । इत्यङ्गदो ऽभ्रवीदिति सम्बन्धः ।। 4.56.15,16 ।।

तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ।

भृशचिलतमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट् ।। 4.56.17 ।।

तदसुखमिति । समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं वानराणां दर्शन च । अस्य श्लोकस्यानन्तरं सर्गसमाप्तिर्भवितुमर्हति ।। 4.56.17 ।।

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।

अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ।। 4.56.18 ।।

को ऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।

जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ।। 4.56.19 ।।

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।

नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ।। 4.56.20 ।।

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ।। 4.56.21 ।।

अतिदीर्घस्य कालस्य तुष्टो ऽस्मि परिकीर्तनात् ।

तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ।। 4.56.22 ।।

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।

तस्यैव च मम भ्रातुः सखा दशरथः कथम् ।। 4.56.23 ।।

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।

सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ।। 4.56.24 ।।

तीक्ष्णतुण्डः तीक्ष्णमुखः । “वक्त्रास्ये वदनं तुण्डम्” इत्यमरः ।। 4.56.1824 ।।

इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ।। 4.56.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ।। 56 ।।

अत्र “कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । सखा दशरथः कथम्” इत्येवमनुवादात् पूर्वमिदमप्यङ्गदेनोक्तमिति ध्येयम् । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ।। 4.56.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्पञ्चाशः सर्गः ।। 56 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.