10 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ।

अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ।। 4.10.1 ।।

अथ वालिदोषदर्शनेन रामस्य दृढतरा वालिवधप्रतिज्ञा दशमे तत इत्यादि ।। 4.10.1 ।।

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः ।

अनाथस्य हि मे नाथस्त्वमेको नाथनन्दनः ।। 4.10.2 ।।

अनाथान् नन्दयतीत्यनाथनन्दनः ।। 4.10.2 ।।

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।

छत्त्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ।। 4.10.3 ।।

उद्यतम् अर्पितं प्रतीच्छस्व प्रतीच्छ ।। 4.10.3 ।।

आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप ।

दृष्ट्वाहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ।। 4.10.4 ।।

संवत्सरं बिलद्वारि स्थितः अहं च बिलद्वारि समुत्थितं शोणितं दृष्ट्वा आर्तश्चामि ।। 4.10.4 ।।

शोकसंविग्नहृदये भृशं व्याकुलितेन्दियः ।

अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा ।

तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ।। 4.10.5 ।।

शोकसंविग्नहृदयः शोककम्पितहृदयः तद्बिलद्वारम् । तथा त्वया दृष्टप्रकारेण अपिधाय प्रच्छाद्य प्राविशम् ।। 4.10.5 ।।

विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ।

अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ।। 4.10.6 ।।

इह विषादादागतं मां दृष्ट्वा । विषादात् राज्यनाशविषादात् ।। 4.10.6 ।।

त्वमेव राजा मानार्हः सदा चाहं यथापुरम् ।

राजभावनियोगो ऽयं मया त्वद्विरहात्कृतः ।। 4.10.7 ।।

सामात्यपौरनगरं स्थितं निहतकण्टकम् ।

न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।। 4.10.8 ।।

मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ।

याचे त्वां शिरसा राजन् मया बद्धो ऽयमञ्जलिः ।। 4.10.9 ।।

अहं यथापुरं पूर्ववद्युवराजो भवामीत्यर्थः । राजभावनियोगः राजत्वेन राज्यशासनम् ।। 4.10.79 ।।

बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ।

राजभावे नियुक्तो ऽहं शून्यदेशजिगीषया ।। 4.10.10 ।।

बलादिति । शून्यदेशजिगीषया राजशून्यदेशवशीकरणेच्छया ।। 4.10.10 ।।

स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ।

धिक् त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ।। 4.10.11 ।।

स्निग्धमिति । तत्तत्परुषभाषणम् अश्लीलतया विशिष्य नोक्तम् ।। 4.10.11 ।।

प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् ।

मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ।। 4.10.12 ।।

विदितं वो यथा रात्रौ मायावी स महासुरः ।

मां समाह्वयत क्रूरो युद्धकाङ्क्षी सुदुर्मतिः ।। 4.10.13 ।।

तस्य तद्वचनं श्रुत्वा निस्सृतो ऽहं नृपालयात् ।

अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ।। 4.10.14 ।।

स तु दृष्टैव मां रात्रौ सद्वितीयं महाबलः ।

प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ ।। 4.10.15 ।।

अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ।। 4.10.16 ।।

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् ।

अयमुक्तो ऽथ मे भ्राता मया तु क्रूरदर्शनः ।। 4.10.17 ।।

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।

बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ।। 4.10.18 ।।

स्थितो ऽयमिति मत्वा तु प्रविष्टो ऽहं दुरासदम् ।

तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ।। 4.10.19 ।।

प्रकृतीरिति । मामुद्दिश्य प्रकृत्यादीनाहेत्यर्थः ।। 4.10.1219 ।।

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।

निहतश्च मया तत्र सो ऽसुरो बन्धुभिः सह ।। 4.10.20 ।।

अनिर्वेदात् अक्लेशात् ।। 4.10.20 ।।

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्विलम् ।

पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ।। 4.10.21 ।।

भूतले भूविवरे स्तनतः गर्जतः तत्पूर्वोक्तं तस्य बिलं स्तनतः तस्य आस्यात् प्रवृत्तेन रुधिरौघेण पूर्णं सत् दुराक्रममासीदिति योजना ।। 4.10.21 ।।

सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् ।

निष्क्रामन्नैव पश्यामि बिलस्य पिहितं मुखम् ।। 4.10.22 ।।

दुन्दुभेः सुतं भ्रातरमित्यर्थः । यद्वा नायं मायावी मयपुत्रः, किन्तु दुन्दुभिपुत्रोन्य इति बोध्यम् । “पूर्वजो दुन्दुभेः सुतः” इति हि पूर्वमप्युक्तम् । पिहितमिति हेतुगर्भम् । पिहितत्वान्मुखं न पश्यामि ।। 4.10.22 ।।

विक्रोशमानस्य तु मे सुग्रीवेति पुनःपुनः ।

यदा प्रतिवचो नास्ति ततो ऽहं भृशदुःखितः ।। 4.10.23 ।।

विक्रोशमानस्य आह्वयत । “क्रुश आह्वने रोदने च” इति धातुः ।। 4.10.23 ।।

पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् ।

ततो ऽहं तेन निष्क्रम्य पथा पुरमुपागतः ।। 4.10.24 ।।

पादेति । तद्विलं विदारितं क्वचित्सरन्ध्रीकृतम् । तेन पथा रन्ध्रमार्गेण ।। 4.10.24 ।।

अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयता ऽ ऽत्मनः ।

सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ।। 4.10.25 ।।

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।

निर्वासयामास तदा वाली विगतसाध्वसः ।। 4.10.26 ।।

अत्र बिले ।। 4.10.25,26 ।।

तेनाहमपविद्धश्च हृतदारश्च राघव ।

तद्भायाच्च मही क्रान्तेयं सवनार्णवा ।। 4.10.27 ।।

अपविद्धः ताडितः ।। 4.10.27 ।।

ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ।

प्रविष्टो ऽस्मि दुराधर्षं वालिनः कारणान्तरे ।। 4.10.28 ।।

कारणान्तरे मतङ्गशापनिमित्ते सति वालिनो दुराधर्षं दुराक्रमम् ।। 4.10.28 ।।

एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।

अनागसा मया प्राप्तं व्यसनं पश्य राघव ।। 4.10.29 ।।

वैरानुकथनं वैरकारणाख्यानम् ।। 4.10.29 ।।

वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर ।

कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ।। 4.10.30 ।।

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् ।

वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ।। 4.10.31 ।।

अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः ।

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।। 4.10.32 ।।

यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।

तावत्स जीवेत् पापात्मा वाली चारित्रदूषकः ।। 4.10.33 ।।

वालिन इति पञ्चमी ।। 4.10.3033 ।।

आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे ।

त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ।। 4.10.34 ।।

तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।

सुग्रिवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। 4.10.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः ।। 10 ।।

आत्मानुमानात् “आत्मवत्सर्वभूतानि” इति न्यायादित्यर्थः । तारयिष्यामि शोकसागरादिति शेषः ।। 4.10.34,35 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने दशमः सर्गः ।। 10 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.