16 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।

वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ।। 4.16.1 ।।

गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ।

मर्षयिष्याम्यहं केन कारणेन वरानने ।। 4.16.2 ।।

अथ वालिवधः षोडशे तामेवमित्यादि ।। 4.16.1,2 ।।

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।

धर्षणामर्षणं भीरु मरणादतिरिच्यते ।। 4.16.3 ।।

अधर्षितानामिति । धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमिति वा । धर्षणायाः तिरस्कारस्य मर्षणमिति वार्थः ।। 4.16.3 ।।

सोढुं न च समर्थो ऽहं युद्धकामस्य संयुगे ।

सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ।। 4.16.4 ।।

सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जत इति । हीनग्रीवस्येति परुषोक्तिः ।। 4.16.4 ।।

न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।

ध्रमज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ।। 4.16.5 ।।

पापं निरपराधवधम् ।। 4.16.5 ।।

निवर्तस्व सह स्त्रीभिः कथं भूयो ऽनुच्छसि ।

सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ।। 4.16.6 ।।

निवर्तने क्रियमाणे ऽपि भूयः सौहृदं सुहृत्कर्तव्यं हितोपदेश इति यावत् । भक्तिः कृता प्रकाशितेत्यर्थः ।। 4.16.6 ।।

प्रति योत्साम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् ।

दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ।। 4.16.7 ।।

सुग्रीवं प्रतियोत्स्यामि ।। 4.16.7 ।।

अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् ।

वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ।। 4.16.8 ।।

सम्प्रहारव्याकुलेन त्वया कथं तस्य प्राणरक्षणं कर्तुं शक्यं तत्राह अहं हीति । यथेप्सितम् ईप्सितं तत्प्राणरक्षणमनतिक्रम्य । आजौ युद्धे स्थितस्य ।। 4.16.8 ।।

न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् ।

कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ।। 4.16.9 ।।

शापितासि मम प्राणैर्निवर्तस्व जयेन च ।

अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ।। 4.16.10 ।।

नेति । गर्वितं गर्वम् । आयस्तम् आयासं, प्रत्यत्नमिति यावत् । सहिष्यतीति परस्मैपदमार्षम् । सहायत्वं बुद्धिसाहाय्यम् ।। 4.16.9,10 ।।

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।

चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ।। 4.16.11 ।।

तं त्विति । दक्षिणा स्वस्मिन् परस्मिंश्च तुल्यहिता ।। 4.16.11 ।।

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ।

अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ।। 4.16.12 ।।

प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।

नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ।। 4.16.13 ।।

मन्त्रवत् स्वस्त्ययनमन्त्रवत् । मन्त्रश्च वैदिकादन्य इति ज्ञेयः ।। 4.16.12,13 ।।

स निःश्वस्य महातेजा वाली परमरोषणः ।

सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ।। 4.16.14 ।।

स निःश्वस्येति । चारयन् प्रस्थित इति शेषः ।। 4.16.14 ।।

स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ।

सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ।। 4.16.15 ।।

स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितम् ।। 4.16.15 ।।

स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।

गाढं परिदधे वासो वाली परमरोषणः ।। 4.16.16 ।।

पर्यवस्थितं समीपे अवस्थितम् ।। 4.16.16 ।।

स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।

सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ।। 4.16.17 ।।

श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ।

सुग्रीवो ऽपि तमुद्दिश्य वालिनं हेममालिनम् ।। 4.16.18 ।।

तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् ।

आपतन्तं महावेगमिदं वचनमब्रवीत् ।। 4.16.19 ।।

एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः ।

मया वेगविमुक्तस्ते प्राणानादाय यास्यति ।। 4.16.20 ।।

स वालीति । कृतक्षणः कृतोत्सवः लब्धावसरो वा । “निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः” इत्यमरः ।। 4.16.1720 ।।

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।

तवैव चाहरन् प्राणान् मुष्टिः पततु मूर्धनि ।। 4.16.21 ।।

एवमिति । पततु मूर्धनीत्यनन्तरमितिकरणं द्रष्टव्यम् ।। 4.16.21 ।।

ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगितः ।

अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ।। 4.16.22 ।।

सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा ।

गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ।। 4.16.23 ।।

तेन वालिना ताडितः । अत एव सङ्क्रुद्धः वेगितः सञ्जातवेगः, पुनः प्रहारायेति शेषः । अत्र सुग्रीव इत्यध्याहार्यम् । सोत्पीडः सनिर्झरः ।। 4.16.22,23 ।।

स तु वाली प्रचलितः सालताडनविह्वलः ।

गुरुभारसमाक्रान्तो नौसार्थ इव सागरे ।। 4.16.24 ।।

स त्विति । नौः पोतः ।। 4.16.24 ।।

तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।

प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ।

परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ।। 4.16.25 ।।

तावित्यादि । विक्रान्तौ विक्रमवन्तौ । भीमबलौ च तौ विक्रान्तौ चेति कर्मधारयः । सुपर्णसमवेगिनौ गरुडवेगतुल्यवेगवन्तौ कर्मधारयान्मत्वर्थीयः । चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव प्रवृद्धावभूतामित्यर्थः ।। 4.16.25 ।।

ततो ऽवर्धत वाली तु बलवीर्यसमन्वितः ।

सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ।। 4.16.26 ।।

अवर्धत तेजसेति शेषः । परिहीयते पर्यहीयतेत्यर्थः ।। 4.16.26 ।।

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ।

वालिनं प्रति सामर्षो दर्शयामास लाघवम् ।। 4.16.27 ।।

लाघवं शैघ्र्यम् । “लघु माधुर्यशीघ्रयो” इति निघण्टुः ।। 4.16.27 ।।

वृक्षैः सशाखैः सशिखैर्वज्रकोटिनिभैर्नखैः ।

मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनःपुनः ।

तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ।। 4.16.28 ।।

वृक्षैरित्यादिना । तयोर्युद्धमभूद्घोरमिति पाठः ।। 4.16.28 ।।

तौ शोणिताक्तौ युद्ध्येतां वानरौ वनचारिणौ ।

मेघाविव महाशब्दैस्तर्जमा(या)नौ परस्परम् ।। 4.16.29 ।।

हीयमानमथो ऽपश्यत्सुग्रीवं वानरेश्वरम् ।

वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ।। 4.16.30 ।।

ताविति । युध्येताम् अयुध्यताम् । तर्जमा(या)नाविति उभयत्र आगमशासनस्यानित्यत्वादडभावः मुमभावश्च ।। 4.16.29,30 ।।

ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।

शरं च वीक्षते वीरो वालिनो वधकारणात् ।। 4.16.31 ।।

ततो राम इति । शरं वीक्षते, वालिवधोचितं शरं पर्यालोचयदित्यर्थः ।। 4.16.31 ।।

ततो धनुषि सन्धाय शरमाशीविषोपमम् ।

पूरयामास तच्चापं कालचक्रमिवान्तकः ।। 4.16.32 ।।

तत इति । कालचक्रं यमस्यायुधविशेषः ।। 4.16.32 ।।

तस्य ज्यातलघोषेण त्रस्ताः पत्त्ररथेश्वराः ।

प्रदुद्रुवुर्मृगाश्चैव युगान्त इवमोहिताः ।। 4.16.33 ।।

तस्येति । पत्त्ररथेश्वराः पक्षिश्रेष्ठाः ।। 4.16.33 ।।

मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।

राघवेण महाबाणो वालिवक्षसि पातितः ।। 4.16.34 ।।

मुक्तस्त्विति । वज्रस्येव निर्घोषो यस्य तथा प्रदीप्ताशनिसन्निभः प्रदीप्तविद्युत्तुल्यः । “अशनिस्तु द्वयोर्वज्रे सौदामिन्याम्” इति दर्पणः ।। 4.16.34 ।।

ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः ।

वेगेनाभिहतो वाली निपपात महीतले ।। 4.16.35 ।।

इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतेले ।

आश्वयुक्समये मासि गत श्रीको विचेतनः ।। 4.16.36 ।।

तत इत्यादिश्लोकद्वयमेकान्वयम् । उद्धूतः पातितः । आश्वयुक्समये आश्वयुक्समयरूपे मासि पौर्णमास्यां महीतले पातित इत्यन्वयः ।। 4.16.35,36 ।।

नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् ।

ससर्ज दीप्तं तममित्रमर्द्दनं सधूममग्निं मुखतो यथा हरः ।। 4.16.37 ।।

अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः ।

विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ।। 4.16.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः ।। 16 ।।

उक्तमर्थं वृत्तान्तरेण सङ्गृह्णाति नरोत्तम इत्यादिश्लोकद्वयेन । कालयुगान्तकोपमं, युगान्तकालोपममित्यर्थः । स्वर्थे कप्रत्ययः । युगान्तकालो युगान्तमृत्युः । काञ्चनरूप्यभूषितं परभागाय स्वर्णरजताभ्यामलङ्कृतम् । सधूममित्यनेन ज्वालोन्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकवचनादेकेन बाणेन वाली हत इत्युक्तम् । इदम् उत्तरत्र तारावाक्येन “रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः” इत्यनेन बहुबाणहतत्ववचनेन विरुध्यते । मैवम्, व्याकुलवचनत्वात्तस्य । यतः तारा एकबाणहतं श्रुत्वाप्येवमाह । वक्ष्यति हि ” तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ।। ” इति । सर्गोपक्रमे च “निजघान च तत्रैनं शरेणैकेन राघवः ।” इत्यत्र एकशब्दः प्रयुक्तः । “प्रतिज्ञातं च रामेण तथा वालिवधं प्रति” इति प्रतिज्ञानिर्वाहाय छद्मना ऽपि वालिवधः कृतः । अस्मिन् सर्गे एकोनचत्वारिंशच्छ्लोकाः ।। 4.16.37,38 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षोडशः सर्गः ।। 16 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.