48 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः

सह ताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः ।

सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ।। 4.48.1 ।।

अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनिरसनपर्यन्तो वृत्तान्तो ऽष्टचत्वारिंशे सह ताराङ्गदाभ्यामित्यादि ।। 4.48.1 ।।

स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ।

विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ।। 4.48.2 ।।

पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान् ।

वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ।। 4.48.3 ।।

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् ।

न सीतां दद्दशुर्वीरा मैथिलीं जनकात्मजाम् ।। 4.48.4 ।।

ते भक्षयन्तो मूलानि फलानि विविधानि च ।

अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ।

स तु देशो दुरन्वेषो गुहागहनवान् महान् ।। 4.48.5 ।।

निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम् ।

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ।। 4.48.6 ।।

तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ।

देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ।। 4.48.7 ।।

पर्वताग्नान् विन्ध्याग्रप्रदेशान् । पर्वतान् पर्यन्तपर्वतान् ।। 4.48.27 ।।

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ।

निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ।। 4.48.8 ।।

न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।

शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ।। 4.48.9 ।।

वन्ध्याफलाः फलैर्वन्ध्याः, निष्फला इत्यर्थः ।। 4.48.8,9 ।।

न यत्र वृक्षा नौषध्यो न लता नापि वीरुधः ।

स्निग्धपत्त्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ।

प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ।। 4.48.10 ।।

स्निग्धपत्रा इत्यादि । अत्रापि न सन्तीत्यनुषज्यत इति केचित् । तन्न, भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । किन्तु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनीमात्रमित्यर्थः । सर्वे ऽपि महातटाकाः स्थलपद्मिनीत्वं गता इति भावः । अन्यं देशं विविशुरिति पूर्वेणान्वयः ।। 4.48.10 ।।

कण्डुर्नाम महाभागः सत्यवादी तपोधनः ।

महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ।। 4.48.11 ।।

देशस्य तादृशत्वे निमित्तमृषिरित्याह कण्डुरित्यादिना ।। 4.48.11 ।।

तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः ।

प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ।। 4.48.12 ।।

तत्र वने विषये । जीवितान्ताय तस्य नाशाय कुपितः ।। 4.48.12 ।।

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ।

अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ।। 4.48.13 ।।

अशरण्यम् अनाश्रयम् । अभवदिति शेषः ।। 4.48.13 ।।

तस्य ते काननान्तांश्च गिरीणां कन्दराणि च ।

प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ।। 4.48.14 ।।

तत्र चापि महात्मानो नापश्यन् जनकात्मजाम् ।

हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ।। 4.48.15 ।।

तस्येति । नदीनां प्रभवानि गिरिगणमध्यप्रदेशाः ।। 4.48.14,15 ।।

ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् ।

ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ।। 4.48.16 ।।

सुरनिर्भयं सुरेभ्यो निर्भयम् ।। 4.48.16 ।।

तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम् ।

गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान् ।। 4.48.17 ।।

गाढं परिहिताः दृढं परिहितवसनाः अभवन् ।। 4.48.17 ।।

सो ऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद्वली ।

अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम् ।। 4.48.18 ।।

तमापतन्तं सहसा वालिपुत्रो ऽङ्गदस्तदा ।

रावणो ऽयमिति ज्ञात्वा तलेनाभिजघान ह ।। 4.48.19 ।।

संहितं दतृढमित्यर्थः ।। 4.48.18,19 ।।

स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।

असुरो ऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ।। 4.48.20 ।।

पर्यस्तः पातितः ।। 4.48.20 ।।

तेपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ।

व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ।। 4.48.21 ।।

तस्मिन्नसुरे निरुच्छ्वासे, मृत इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने चिरमन्वेषितवन्त इति बोध्यम् ।। 4.48.21 ।।

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ।

अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ।। 4.48.22 ।।

अपरम् अदूरम् । “परं दूरान्यमुख्येषु” इति वैजयन्ती । गिरिगह्वरं गिरिमध्यप्रदेशम् ।। 4.48.22 ।।

ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।

एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ।। 4.48.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ।। 48 ।।

विनिष्पत्य विनिर्गत्य । समागताः सङ्घीभूताः । अस्मिन्सर्गे चतुर्विंशतिश्लोकाः ।। 4.48.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ।। 48 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.