47 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः

र्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः ।

व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ।। 4.47.1 ।।

अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे दर्शनार्थं त्वित्यादि । यथोक्तं देशम् ।। 4.47.1 ।।

सरांसि सरितः कक्षानाकाशं नगराणि च ।

नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ।। 4.47.2 ।।

सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः ।

प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् ।। 4.47.3 ।।

तदेव विवृणोति सरांसीत्यादिना । कक्षान् गुल्मान् । लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशम् । नदीदुर्गान् नदीभिर्दुर्गमान् ।। 4.47.2,3 ।।

विचित्य दिवसं सर्वे सीताधिगमने धृताः ।

समायान्ति स्ममेदिन्यां निशाकालेषु वानराः ।। 4.47.4 ।।

विचित्येति । धृताः तत्पराः ।। 4.47.4 ।।

सर्वर्तुकामान् देशेषु वानराः सफलान् द्रुमान् ।

आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते ।। 4.47.5 ।।

विचित्येति श्लोकोक्तं विवृणोति सर्वेति । सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफलादयः, सर्वर्तुसम्भवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभूज्यमानत्वेन सफलान् द्रुमानासाद्य सर्वेष्वहस्सु एकमासान्तर्गतसर्वदिनेषु रजनीं रजन्यामेव शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ।। 4.47.5 ।।

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।

कपिराजेन सङ्गम्य निराशाः कपियूथपाः ।। 4.47.6 ।।

तदहः प्रस्थानदिनं प्रथमं कृत्वा तदारभ्य मासे पूर्णे सति निराशाः सीतान्वेषणे निरुत्साहाः सन्तः कपिराजेन सङ्गम्य तस्मै स्वागमनं निवेद्येत्यर्थः, प्रस्नवणं माल्यवन्तं गताः ।। 4.47.6 ।।

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ।

अदृष्ट्वा विनतः सीतामाजगाम महाबलः ।। 4.47.7 ।।

उत्तरां च दिशं सर्वां विचित्य स महाकपिः ।

आगतः सह सैन्येन वीरः शतवलिस्तदा ।। 4.47.8 ।।

एवं सामान्येन वानरागमनमुक्त्वा प्रत्येकं च दर्शयति विचित्येद्यादिना । सचिवैः सहायभूतैः ।। 4.47.7,8 ।।

सुषेणः पश्चिमामाशां विचित्य सह वानरैः ।

समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे ।। 4.47.9 ।।

उपचक्रमे उपागतः ।। 4.47.9 ।।

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।

आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ।। 4.47.10 ।।

प्रस्रवणपृष्ठस्थं प्रस्रवणाग्रस्थम् । रामेण सहासीनम्, रामेण सहितमित्यर्थः ।। 4.47.10 ।।

विचिताः पर्वताः सर्वे वनानि गहनानि च ।

निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ।। 4.47.11 ।।

गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः ।

विचिताश्च महागुल्मा लताविततसन्तताः ।। 4.47.12 ।।

वनानि क्षुद्रवनानि गहनानि महावनानि सागरान्ताः समुद्रतीराणि लताविततसन्तताः लताभिर्वितताः व्याप्ताः निरन्तरा इति महागुल्मविशेषणम् ।। 4.47.11,12 ।।

गहनेषु च देशेषु दुर्गेषु विषमेषु च ।

सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ।। 4.47.13 ।।

गहनेषु दुष्प्रवेशेषु, नानाद्वीपेष्वित्यर्थः । दुर्गेषु दुःखेन गन्तव्येषु, निम्नोन्नतेष्वित्यर्थः । अतिप्रमाणानि अतिमात्रशरीराणि विचितानि, किमयं रावणः उत नेतीति भावः ।। 4.47.13 ।।

उदारसत्त्वाभिजनो महात्मा स मैथीलीं द्रक्ष्यति वानरेन्द्रः ।

दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ।। 4.47.14 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ।। 47 ।।

उदारसत्त्वः श्रेष्ठसत्त्वो ऽभिजनो वंशो यस्य स उदारसत्त्वाभिजनः । महाबलवतः पुत्र इति सीतादर्शने प्रथमो हेतुः । महात्मा महाधैर्य इति द्वितीयः । दिशं त्वित्यादिना तृतीयो हेतुः । इति अब्रुवन् वानरा इति पूर्वेणान्वयः । अस्मिन् सर्गे चतुर्दशश्लोकाः ।। 4.47.14 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ।। 47 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.