46 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् ।

कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ।। 4.46.1 ।।

अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे गतेष्वित्यादि ।। 4.46.1 ।।

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।

श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ।। 4.46.2 ।।

प्रणतात्मवान् प्रणतदेहवान् ।। 4.46.2 ।।

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।

परिकालयते वाली मलयं प्रति पर्वतम् ।। 4.46.3 ।।

यदेति । केचिदत्र दुन्दुभिशब्देन उपचारान्मायाव्येवोच्यते मायाविनो वृत्तान्तस्यानुवादादित्याहुः । तन्न, महिषाकृतिमित्यस्य विरोधात् । “तदा विवेश महिषः । महिषो विन शेदिति” इति पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनमर्हति । तर्हि कथमुपपत्तिरिति चेत्? उच्यते पूर्वं मायाविवृत्तान्ताभिधानादत्र महिषवृत्तान्ताभिधानाच्च तदानीमुभावप्यागताविति वेदितव्यम् । तत्र महिषः कथञ्चित् स्वात्मानं गोपयित्वा वालिनि विनिर्गते पुनः मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः । वक्ष्यत्येवमन्यत्रापि विषये । यथा रावणेन सीतोपप्लवे उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यौ, तत्रैका पूर्वमुक्ता अन्या वानरसन्निधावनुवादे । तस्मादयमृषेः स्वभाव इति बोध्यम् । परिकालयते पलाययति । कलतेर्मितो वृद्धिरार्षी ।। 4.46.3 ।।

तदा विवेश महिषो मलयस्य गुहां प्रति ।

विवेश वाली तत्रापि मलयं तज्जिघांसया ।। 4.46.4 ।।

तत्रापि गुहायामपि । तज्जिघांसया मलयं विवेष ।। 4.46.4 ।।

ततो ऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।

न च निष्क्रमते वाली तदा संवत्सरे गते ।। 4.46.5 ।।

विनीतवत् विनययुक्तमिति क्रियाविशेषणम् ।। 4.46.5 ।।

ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।

तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ।। 4.46.6 ।।

भ्रातृशोक एव विषं तेन अर्दितः, अभवमिति शेषः ।। 4.46.6 ।।

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।

शिला पर्वतसङ्काशा बिलद्वारि मयावृता ।। 4.46.7 ।।

अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति ।

ततो ऽहमागां किष्किन्धां निराशस्तस्य जीविते ।

राज्यं च सुमहत्प्राप्तं तारया रुमया सह ।। 4.46.8 ।।

अथेति । अहं गुरुर्निहत इति कृतबुद्धिः, अभवमिति शेषः । विनशेत् विनश्येदित्यर्थः ।। 4.46.7,8 ।।

मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ।

आजगाम ततो वाली हत्वा तं दानवर्षभम् ।। 4.46.9 ।।

वसामि अवसम् । दानवर्षभं मायाविनम् ।। 4.46.9 ।।

ततो ऽहमददां राज्यं गौरवाद्भययन्त्रितः ।। 4.46.10 ।।

भययन्त्रितः भयपरवशः ।। 4.46.10 ।।

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ।

परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ।। 4.46.11 ।।

परिकालयते निरकासयत् ।। 4.46.11 ।।

ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः ।

नदीश्च विविधाः पश्यन् वनानि नगराणि च ।। 4.46.12 ।।

आदर्शतलसङ्काशा ततो वै पृथिवी मया ।

अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ।। 4.46.13 ।।

सानुबन्धः सामात्यः । नदीः पश्यन्नहं प्रधावित इत्यन्वयः ।। 4.46.12,13 ।।

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ।

पर्वतांश्च नदी रम्याः सरांसि विविधानि च ।। 4.46.14 ।।

पश्यामि अपश्यम् ।। 4.46.14 ।।

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ।

क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ।। 4.46.15 ।।

परिकालयमानस्तु वालिना ऽभिद्रुतस्तदा ।

पुनरावृत्य सहसा प्रस्थितो ऽहं तदा विभो ।। 4.46.16 ।।

अप्सरसा अपसरसाम् । पूर्वसवर्णदीर्घः । वालिनाभिद्रुतः परिकालयमानो ऽहं द्रुमादिकमपश्यमिति पूर्वेणान्वयः ।। 4.46.15,16 ।।

पुनरावर्तमानस्तु वालिना ऽभिद्रुतो द्रुतम् ।

दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ।। 4.46.17 ।।

विन्ध्यपादप सङ्कीर्णां चन्दनद्रुमभूषिताम् ।

द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतो ऽपरान् ।। 4.46.18 ।।

पश्चिमां तु दिशं प्राप्तो वालिना समभिद्रुतः ।

सम्पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् ।

प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः ।। 4.46.19 ।।

पुनरित्यादिश्लोकद्वयमेकान्वयम् । अस्याः पूर्वस्याः दिशः पुनरावृत्य प्रस्थितो ऽस्मि । आवर्तमानो ऽहं पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्किन्धाया दक्षिणतो ऽपि विन्ध्यपर्वतशेषो ऽस्तीति गम्यते ।। 4.46.1719 ।।

हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ।। 4.46.20 ।।

हिमवन्तमिति । अपश्यमिति शेषः ।। 4.46.20 ।।

यदा न विन्दं शरणं वालिना समभिद्रुतः ।

तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् ।। 4.46.21 ।।

शरणं रक्षणम् । न विन्दं नाविन्दम् ।। 4.46.21 ।।

इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ।

मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ।। 4.46.22 ।।

प्रविशेद्यदि वै वाली मूर्धा ऽस्य शतधा भवेत् ।

तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति ।। 4.46.23 ।।

इदानीमित्यादि । राजन् अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदा ऽस्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथाभिशप्तः तथा इदानीं मे स्मृतमिति योजना । निरुद्विग्नः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्यमब्रवीदिति सम्बन्धः ।। 4.46.22,23 ।।

ततः पर्वतमासाद्य ऋश्यमूके नृपात्मज ।

न विवेश तदा वाली मतङ्गस्य भयात्तदा ।। 4.46.24 ।।

आसाद्य, स्थितो ऽहमिति शेषः ।। 4.46.24 ।।

एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् ।

पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ।। 4.46.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।

अस्य ऋश्यमूकस्य गुहां सीताभरणस्थानभूताम् ।। 4.46.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ।। 46 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.