07 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तमः सर्गः

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।

अब्रवीत् प्राञ्चलिर्वाक्यं सबाष्पं बाष्पगद्गदः ।। 4.7.1 ।।

एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रासङ्गिकसुकृतदर्शनेन तल्लाभत्वरा भगवत उच्यते सप्तमे एवमुक्त इत्यादि । बाष्पगद्गदः रामबाष्पदर्शनेन स्वयमपि बाष्पगद्गदः । “एकं दुःखं सुखं च नौ” इत्यस्य प्रथमोदाहरणमिदम् ।। 4.7.1 ।।

न जाने निलयं तस्य सर्वथा पापरक्षसः ।

सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ।। 4.7.2 ।।

सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम ।

करिष्यामि तथा यत्नं यथा प्राप्यसि मैथिलीम् ।। 4.7.3 ।।

दौष्कुलेयस्य दुष्कुले भवो दौष्कुलेयः । “दुष्कुलाङ्ढक” इति ढक् । तस्य पापरक्षसः परदारापहरणरूपपापकृतो राक्षसस्य निलयं वासस्थानं सामर्थ्यं शक्तिं विक्रमं वा सर्वथा न जाने किञ्चिदपि न जानामीत्यर्थः । नन्विदं वक्ष्यमाणेन विरुद्ध्यते । वक्ष्यति वानरप्रेषणावसरे “द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैर्देवैस्तं मार्गध्वं समन्ततः ।। स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ।।” इति। तत्र हि रावणस्य निलयसामर्थ्यपराक्रमाः सुग्रीवेण स्पष्टमवगता इति गम्यते। सत्यम्, तथापि स्वकार्ये प्रथमं प्रवर्तयितुमेवमुक्तवान् सुग्रीवः। अत एव “ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया” इत्यस्यापि प्रतिवचनं नोक्तवान्। कथं गमनदेशमपि न जानीयात्? य एवमाह “ह्रियमाणा मया दृष्टा” इति। न चैवमादावेव मित्रद्रोहः कृतः स्यादिति वाच्यम्, दूरदर्शिना सुग्रीवेणैवं मनसि कृतम् यदि मया “रावणवृत्तान्तो मया ज्ञातः” इत्युक्तः स्यात् तदाऽतिव्यसनी रामोऽयं सीतान्वेषणे प्रथमं मां प्रवर्तयेत्, तच्चायुक्तम्, वानराणां वालिवशंवदत्वेनास्मदधीनत्वाभावात्। कथञ्चित् केषाञ्चिद्वशीकरणेऽपि रावणेन कृतसख्यो वाली चास्मन्मनोरथानुरूपां प्रवृत्तिं कथं सहेत। तथा चोभयकार्यभङ्गः इत्यज्ञानमभिनीतवान् सुमतिः सुग्रीवः। न चैवं सति वानरप्रेषणकालिकसुग्रीववचनेन कथमिव रामो नाशङ्कतेति वाच्यम्, तारोक्तलक्ष्मणवचनश्रवणेन रामस्य न शङ्कावकाशः। पूर्वमयं न जानाति पश्चात्तारावचनैर्ज्ञातवानिति रामस्यापि प्रतिपत्तिर्भवेत्। एवं ह्याह लक्ष्मणं प्रति तारा “शतकोटिसहस्त्राणि लङ्कायां किल राक्षसाः। अयुतानि च षट्त्रिंशत्सहस्त्राणि शतानि च ।। अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता ।।” इत्यादि। किञ्चि कथं वा लोकालोकपर्यन्तं पर्यटतस्तदपरिज्ञानम्? अत एव हि रामबलपरीक्षासमये दुन्दुभ्यादिधर्षणकथनप्रसङ्गे वक्तव्यमपि रावणजयवृत्तान्तं नोक्तवान्। नन्वेवमिदानीं परमार्थतो न विजानाति सुग्रीवः पश्चात्तारया ज्ञातवानिति किन्न विकल्प्यत इति चेन्न तारादर्शनात् प्रभृति कामपरवशेन सुग्रीवेण तारया सह रामकार्यपर्यालोचनाऽप्रसक्तेः। यदि च सुग्रीवः सर्वथा न जानीयात् तदा सीताक्रोशादिना स्फुटमवगतां दिशं वदेदेव। यच्च कैश्चिदुक्तम् निलयं न जानामीत्यस्य इदानीं तदवस्थानदेशं न जानामीत्यर्थ इति। तन्न सर्वात्मना रावणवृत्तान्तमपरिज्ञाय कियदपि तत्स्वरूपज्ञानं भवत्विति तात्पर्येण “क्व वा वसति तद्रक्षः” इति पृष्टवन्तं प्रतिज्ञातांशमात्रमप्यनुक्त्वा इदानीं तदवस्थानभूमिं न जानामीत्युत्तरस्य छलत्वापत्तेः। तद्वासमात्रज्ञाने तद्भञ्जने स स्वयमेवेहागमिष्यतीति हि रामाभिप्रायः। किञ्च इदानीं निलयापरिज्ञानेऽपि सामर्थ्यपराक्रमौ वा वक्तव्यौ स्याताम्। इतरदिशः प्रति वानराणां प्रेषणम्, तान् प्रति “रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः।” इति वचनं च बहुकालविलम्बेन यत्र कुत्रापि सीतां स्थापयेत्तिष्ठेद्वेति सङ्गच्छते। एतेनेदमपि निरस्तम्। सर्वथा सर्वप्रकारेणापि तन्निलयं न जानामीति विशिष्टाभावोऽर्थः। तथा चाग्रे केनचित्प्रकारेण तन्निलयज्ञानाविरोध इति। वानरान् प्रति यावन्मात्रमुच्यते तावदादावपि वक्तव्यत्वात्। यदपि केनचिदुन्नीतम् संवत्सरपर्यन्तं सीतादुःखकरणाभावे रावणकृतशिवपूजाफलं न भवेदिति दैवप्रतिबन्धवशात्तदानीं सुग्रीवस्याज्ञानमिति। तत्तुच्छम् दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात्। सम्यक्च परदारधर्षणं शिवपूजाफलमिति। तस्माद्यथोक्त एवार्थो ग्राह्यः ।। 4.7.2,3 ।।

रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।

तथा ऽस्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ।। 4.7.4 ।।

सगणं सपरिवारम् । रावणं हत्वा भवन्तं परितोष्य आत्मपौरुषं तथा कर्ता ऽस्मि यथा प्रीतो भविष्यसीति सम्बन्धः ।। 4.7.4 ।।

अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर ।

त्वद्विधानामसदृशमीदृशं विद्धि लाघवम् ।। 4.7.5 ।।

व्रैक्लव्यं दैन्यम् ।। 4.7.5 ।।

मयापि व्यसनं प्राप्तं भार्याहरणजं महत् ।

न चाहमेवं शोचामि न च धैर्यं परित्यजे ।। 4.7.6 ।।

परित्यजे परित्यजामि ।। 4.7.6 ।।

नाहं तामनुशोचामि प्राकृतो वानरो ऽपि सन् ।

महात्मा च विनीतश्च किं पुनर्धृतिमान् भवान् । 4.7.7 ।।

प्राकृतः हीनः । विनीतः वृद्धैः सुशिक्षितः ।। 4.7.7 ।।

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि ।

मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ।। 4.7.8 ।।

सत्त्वयुक्तानां व्यवसायवताम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ” इत्यमरः । मर्यादां व्यवस्थारूपां धृतिम् ।। 4.7.8 ।।

व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तके ।

विमृशन् वै स्वया बुद्ध्या धृतिमान्नावसीदति ।। 4.7.9 ।।

बालिशस्तु नरो नित्यं वैक्लव्यं योनुवर्तते ।

स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ।। 4.7.10 ।।

व्यसन इति । अर्थकृच्छ्रे धननाशे ।। 4.7.9,10 ।।

एषो ऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये ।

पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ।। 4.7.11 ।।

ये शोकमनुर्तन्ते न तेषां विद्यते सुखम् ।

तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ।। 4.7.12 ।।

शोकेनाभिप्रपन्नस्य जीविते चापि संशयः ।

स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ।। 4.7.13 ।।

अन्तरम् अवकाशम् ।। 4.7.1113 ।।

हितं वयस्यभावेन ब्रूमि नोपदिशामि ते ।

वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ।। 4.7.14 ।।

ब्रूमि ब्रमीमि । वयस्यतां मित्रत्वम् ।। 4.7.14 ।।

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।

मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ।। 4.7.15 ।।

प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः ।

सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ।। 4.7.16 ।।

मधुरमिति । प्रमार्जयत् स्वर्थे णिच् । अनित्यमागमशासनमिति अडभावः ।। 4.7.15,16 ।।

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च ।

अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ।। 4.7.17 ।।

एष च प्रकृतिस्थो ऽहमनुनीतस्त्वया सखे ।

दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ।। 4.7.18 ।।

किन्तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।

राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ।। 4.7.19 ।।

अनुरूपं मित्रत्वानुरूपम् । युक्तं शोकनिवारणयोग्यम् । कृतम् उक्तमित्यर्थः ।। 4.7.1719 ।।

मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।

वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते मयि ।। 4.7.20 ।।

विस्रब्धेन स्निग्धेन ।। 4.7.20 ।।

मया य यदिदं वाक्यमभिमानात्समीरितम् ।

तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ।। 4.7.21 ।।

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।

एतत्ते प्रतिजानामि सत्येनैव च ते शपे ।। 4.7.22 ।।

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।

राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ।। 4.7.23 ।।

अभिमानात् शौर्याभिमानात् त्वय्यभिमानाद्वा । तत्त्वं यथार्थम् ।। 4.7.2123 ।।

एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ ।

उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ।। 4.7.24 ।।

एवमति । एकान्तसम्पृक्तौ (संयुक्तौ) एकान्ते रहसि संयुक्तौ एकान्तं नियतं यथा तथा

संयुक्तौ वा । प्रभाषताम् । व्यत्येन परस्मैपदम् । अडभावश्च ।। 4.7.24 ।।

महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य ।

कृतं स मेने हरिवीरमुख्यस्तदा स्वकार्यं हृदयेन विद्वान् ।। 4.7.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तमः सर्गः ।। 7 ।।

महेति स्पष्टम् ।। 4.7.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तमः सर्गः ।। 7 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.