17 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तदशः सर्गः ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः ।। 4.17.1 ।। अथ रामं प्रति वालिनिन्दा सप्तदशे ततः शरेणेत्यादि । आरम्भणार्थो ऽयमनुवादः ।। 4.17.1 ।। स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ।। 4.17.2 ।। तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ।। 4.17.3 […]
16 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ।। 4.16.1 ।। गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः । मर्षयिष्याम्यहं केन कारणेन वरानने ।। 4.16.2 ।। अथ वालिवधः षोडशे तामेवमित्यादि ।। 4.16.1,2 ।। अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ।। 4.16.3 ।। अधर्षितानामिति । धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमिति […]
15 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चदशः सर्गः अथ तस्य निनादं तु सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ।। 4.15.1 ।। अथ ताराबुद्धिः पञ्चदशे अथ तस्येत्यादि । महात्मनः महाधैर्यस्य ।। 4.15.1 ।। श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ।। 4.15.2 ।। श्रुत्वेति । स्थितस्येति शेषः । एकपदे एकस्मिन्नेव स्थाने, सद्य इत्यर्थः । आपतितः […]
14 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्दशः सर्गः सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् । वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ।। 4.14.1 ।। विचार्य सर्वतो दृष्टिं कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ।। 4.14.2 ।। अथ वाल्याह्वानभीतं सुग्रीवं निस्त्रासयति रामश्चतुर्दशे सर्व इत्यादि ।। 4.14.1,2 ।। ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् । परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् । गर्जन्निव […]
13 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । जगाम सहसुग्रीवो वालिविक्रमपालिताम् ।। 4.13.1 ।। समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ।। 4.13.2 ।। अथ पुनः किष्किन्धाप्रवेशस्त्रयोदशे ऋश्यमूकादित्यादि ।। 4.13.1,2 ।। अग्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ।। 4.13.3 ।। पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः । […]
12 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वादशः सर्गः एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ।। 4.12.1 ।। स गृहीत्वा धनुर्घोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ।। 4.12.2 ।। अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे एतच्चेत्यादि ।। 4.12.1,2 ।। स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः । भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं […]
11 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ।। 4.11.1 ।। असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ।। 4.11.2 ।। अथ सुग्रीवो वालिवधक्षमं रामबलं परीक्षितुकामस्तद्बलं दर्शयत्येकादशे रामस्येत्यादि । पूजयाञ्चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ।। 4.11.1,2 ।। वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या […]
10 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ।। 4.10.1 ।। अथ वालिदोषदर्शनेन रामस्य दृढतरा वालिवधप्रतिज्ञा दशमे तत इत्यादि ।। 4.10.1 ।। दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेको नाथनन्दनः ।। 4.10.2 ।। अनाथान् नन्दयतीत्यनाथनन्दनः ।। 4.10.2 ।। इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्त्रं […]
09 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः । पितुर्बहुमतो नित्यं ममापि च तथा पुरा ।। 4.9.1 ।। अथ वाल्यपराधवृत्तान्तो नवमे वाली नामेत्यादिषड्विंशतिः श्लोकाः ।। 4.9.1 ।। पितर्युपरते ऽस्माकं ज्येष्ठो ऽयमिति मन्त्रिभिः । कपीनामीश्वरो राज्ये कृतः परमसम्मतः ।। 4.9.2 ।। पितरीति । अयं ज्येष्ठः । अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः […]
08 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टमः सर्गः परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। 4.8.1 ।। अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे परितुष्ट इत्यादि ।। 4.8.1 ।। सर्वथा ऽहमनुग्राह्यो देवतानामसंशयः । उपपन्नगुणोपेतः सखा यस्य भवान्मम ।। 4.8.2 ।। देवतानामनुग्राह्यः दयनीयो ऽभवम् । यस्य मे भवान् सखा ऽ ऽसीत् । कीदृशः सखा? उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोपपन्नः ।। 4.8.2 ।। शक्यं […]