07 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तमः सर्गः एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत् प्राञ्चलिर्वाक्यं सबाष्पं बाष्पगद्गदः ।। 4.7.1 ।। एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रासङ्गिकसुकृतदर्शनेन तल्लाभत्वरा भगवत उच्यते सप्तमे एवमुक्त इत्यादि । बाष्पगद्गदः रामबाष्पदर्शनेन स्वयमपि बाष्पगद्गदः । “एकं दुःखं सुखं च नौ” इत्यस्य प्रथमोदाहरणमिदम् ।। 4.7.1 ।। न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा […]

06 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ।। 4.6.1 ।। एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ।। 4.6.1 ।। अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः । हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ।। 4.6.2 ।। अयमिति । त्वं यन्निमित्तं वनमागतः तदाख्याति स्म ।। 4.6.2 […]

05 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ ।। 4.5.1 ।। अथ पापभीतस्य कर्मानुरूपं फलं दिशतो भगवतो ऽपि त्रस्तस्य आचार्यमुखात् भगवद्गुणान् श्रुत्वा तदेकोपायनिष्ठा सूच्यते पञ्चमे ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्शनभीतः सुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्यमृश्यमूकपर्यन्तपर्वतं गतः हनुमान् रामलक्ष्मणौ तत्र प्रतिष्ठाप्य सुग्रीवं तत्रानीतवानिति बोध्यम् ।। 4.5.1 ।। अयं रामो […]

04 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः । श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ।। 4.4.1 ।। अथाचार्यमुखेन चेतनालाभश्चतुर्थे तत इत्यादि । मधुरसम्भाषं मधुरभाषणं तद्वचः श्रुत्वा कृत्यवान् कार्यवान् रामः इति हेतोः प्रहृष्टः सन् सुग्रीवं मनसा गतः । “तमेव चावां मार्गाव” इति वचनभावतया रामस्य कृत्यवत्त्वज्ञानम् ।। 4.4.1 ।। भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः । […]

03 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे तृतीयः सर्गः वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ।। 4.3.1 ।। प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषाञ्चित् स्वपरत्वे वर्तमाने केषाञ्चिद्विषयान्तरप्रावण्यमवलोक्य दूयमानमानसस्य दयावृत्तिविशेषः प्रतिपादितः । द्वितीये चेतनस्य भगवदपराधदण्डभीतस्य तस्मिन्नभिमुख्यमुक्तम् । अथ तल्लाभहेत्वाचार्यकृत्यं दर्शयति तृतीये वच इत्यादि ।। 4.3.1 ।। कपिरूपं परित्यज्य हनुमान् मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया […]

02 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् ।। 4.2.1 ।। अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये तौ त्वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ।। 4.2.1 ।। उद्विग्नहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ।। 4.2.2 ।। उद्विग्नहृदयः भीतमनस्कः ।। […]

01 Sarga किष्किन्धाकाण्डः

।। किष्किन्धाकाण्डः ।। ।। श्लोकसहितव्याख्यानम् ।। श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे प्रथमः सर्गः स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ।। 4.1.1 ।। श्रीरङ्गेशाय नमः । क्वाहं मन्दमतिर्गभीरमधुरं रामायणं तत्क्कच व्याख्याने ऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् । को भारो ऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपा कूपारो रचयत्यदः सपदि मज्जिह्वाग्रसिंहासनः ।। 1 ।। श्रीरामायणराजस्य समर्प्य मणिमेखलाम् […]

75 Sarga अरण्यकाण्डः

दिवं तु तस्यां यातायां शबर्या स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ।। 3.75.1 ।। अथ पम्पागमनं पञ्चसप्ततितमे दिवं त्वित्यादि । स्वेन तेजसा उपलक्षितायामिति शेषः ।। 3.75.1 ।। स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवो ऽब्रवीत् ।। 3.75.2 ।। एकाग्रम् एकचित्तम् ।। 3.75.2 ।। दृष्टो ऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो […]

74 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ।। 3.74.1 ।। एवमेतावत्पर्यन्तं भगवत्कैङ्कर्यतत्फले दर्शिते । अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे तावित्यादि । प्रतीचीं दिशं गृह्य गृहीत्वा कबन्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुः प्रतस्थाते ।। 3.74.1 ।। तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ।। 3.74.2 ।। […]

73 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः निदर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ।। 3.73.1 ।। अथ कबन्धः सुग्रीवस्थानमार्गं दर्शयित्वा गत इत्याह त्रिसप्ततितमे निदर्शयित्वेत्यादि । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा प्रदर्श्य “क्त्वा च च्छन्दसि” इति क्त्वाप्रत्ययः । पूर्वोक्तमुपायमिति शेषः ।। 3.73.1 ।। एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.