62 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विषष्टितमः सर्गः सीतामपश्यन् धर्त्मात्मा कामोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः ।। 3.62.1 ।। अथ रामस्य “दृङ्मनः सङ्गसङ्कल्पा जागरः कृशाता ऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ।।” इत्युक्तावस्थास्वरतिं नाम षष्ठीमवस्थां प्रदर्शयति द्विषष्टितमे सीतामित्यादि। धर्मात्मा कामोपहतचेतन इत्याभ्यां धर्माविरुद्धकामस्यानिन्द्यत्वमुक्तम्। महाबाहुरित्यूर्ध्वबाहुत्वमुच्यते। कमललोचन इत्यनेन समधुपद्मसाम्यादश्रुकालुष्यमुच्यते। कामेन सीताविप्रलम्भजनितव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं यस्य स तथा ।। 3.62.1 ।। […]
61 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः दृष्ट्वा ऽ ऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च विध्वस्तान्यासनानि च ।। 3.61.1 ।। अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ।। 3.61.2 ।। अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे दृष्ट्वेत्यादिश्लोकद्वयमेकान्वयम् । शून्यं सीतारहितम् । रहितां सीतयेति शेषः । विध्वस्तानि रावणाक्रान्तत्वादिति भावः । सर्वशः […]
60 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्टितमः सर्गः भृशमाव्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत् ।। 3.60.1 ।। एवमियता प्रबन्धेन सम्भोगशृङ्गारो वर्णितः । अथ विप्रलम्भशृङ्गारमासुवेलारोहणाद्वर्णयितुमारभते । तदङ्गत्वेन रसान्तराणि दर्शितानि । “संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियपुक्तयोः ।” इति लक्षणात् । तत्र “अभिलाषमानःसङ्गौ सङ्कल्पो गुणसंस्तुतिः प्रद्वेषः । तापाभिमतत्यागावुन्मादो मीर्च्छना च मृतिः” इत्युक्तविप्रलम्भावस्थास्वष्टमीं दशामाह सर्गत्रयेण भृशमित्यादि । आव्रजमानस्य आगच्छतः । अधो वामलोचनं […]
59 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनषष्टितमः सर्गः अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ।। 3.59.1 ।। एवं सङ्ग्रहेणोक्तमर्थं पुनर्विस्तरेण वक्तुमुपक्रमते अथेत्यादि । अन्तरा मध्येमार्गम् । दुःखार्दितमिति क्रियाविशेषणम् । मारीचवधस्थानात् स्वाश्रमं गच्छन् मध्ये पप्रच्छेत्यर्थः ।। 3.59.1 ।। तमुवाच किमर्थं त्वमागतो ऽपास्य मैथिलीम् । यदा सा तव विश्वासाद्वने विरहिता मया ।। 3.59.2 ।। तमिति । तं […]
58 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्चाशः स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ।। 3.58.1 ।। अथ सीताप्राप्तिसन्देहकृतशोकप्रलापो ऽष्टपञ्चाशे स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेहीं विसृज्यागतं लक्ष्मणं पर्यपृच्छत पर्यपृच्छत् ।। 3.58.1 ।। प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।। 3.58.2 ।। प्रश्नस्वरूपमाह […]
57 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्णं पथि निवर्तते ।। 3.57.1 ।। एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेषं दर्शयितुमारभते राक्षसमित्यादि । निवर्तते न्यवर्तत ।। 3.57.1 ।। तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम् । क्रूरस्वनो ऽथ गोमायुर्विननादास्य पृष्ठतः ।। 3.57.2 ।। तस्येति । द्रष्टुकामस्य तदर्थं सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा […]
56 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः सा तथोक्ता तु वैदेही निर्भया शोककर्शितता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ।। 3.56.1 ।। तथैतच्छ्रुत्वा परुषं भाषमाणायाः सीतायाः पुनरशोकवनिकानयनं षट्पञ्चाशे सा तथेत्यादि । अन्तरतो मध्ये, पतिव्रतायाः परपुरुषं प्रत्यभिमुखतया भाषणायोगात् ।। 3.56.1 ।। राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ।। 3.56.2 ।। धर्मसेतुः धर्मस्य सेतुरिव […]
55 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चपञ्चाशः सर्गः सन्दिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ।। 3.55.1 ।। पूर्वं स्वप्रभावकथनमुखेन प्रलोभनं कृतवान् । अथ भोगोपकरणप्रदर्शनमुखेन रावणः सीतां प्रलोभयति पञ्चपञ्चाशे सन्दिश्येत्यादि । बुद्धिवैक्लव्यात् बुद्धिदौर्बल्यात्, अकृतबुद्धित्वादित्यर्थः ।। 3.55.1 ।। स चिन्तयानो वैदेहीं कामबाणसमर्पितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ।। 3.55.2 ।। समर्पितः पीडित इत्यर्थः । अभित्वरन् […]
54 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ।। 3.54.1 ।। अथ सीताया अशोकवनिकायां स्थापनमाह ह्रियमाणा त्वित्यादि । नाथं रक्षकम् ।। 3.54.1 ।। तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च । मुमोच यदि रामाय शंसेयुरिति मैथिली ।। 3.54.2 ।। तेषामित्यादिसार्धश्लोक एकान्वयः । उत्तरीयम् उत्तरीयभूतं कौशेयम् […]
53 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिपञ्चाशः सर्गः खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोद्विग्ना भये महति वर्तिनी ।। 3.53.1 ।। अथ सीता रावणस्य चौर्यवृत्त्यादिकं बहुशो निन्दति खमित्यादिना । दुःखिता बभूवेति शेषः । परमोद्विग्ना कम्पिता । “ओविजी भयचलनयोः” इत्यस्मान्निष्ठा । वर्तिनी वर्तामाना ।। 3.53.1 ।। रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ।। 3.53.2 ।। […]