भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
त्रयोदशोऽध्याय:
पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूप-भगवदुपासनाङ्गभूतं प्राप्तु: प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोग-कर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम्। मध्यमे च परमप्राप्यभूतभगवत्तत्त्वयाथात्म्य-तन्माहात्म्यज्ञानपूर्वकैकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयितैश्वर्यापेक्षाणां आत्मकैवल्यमात्रापेक्षाणां च भक्तियोगस्तत्तदपेक्षितसाधनमिति चोक्तम् । इदानीमुपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्व-योदिता विशोध्यन्ते । तत्र तावत्त्रयोदशे देहात्मनो: स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपाय:, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश्च अचित्संबन्धहेतु:, ततो विवेकानुसन्धानप्रकारश्चोच्यते ।
श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥ १ ॥
इदं शरीरं देवोऽहम्, मनुष्योऽहम्, स्थूलोऽहम्, कृशोऽहमिति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुरात्मनोऽर्थान्तरभूतस्य भोगक्षेत्रमिति शरीरयाथात्म्यविद्भिः अभिधीयते। एतदवयवश: संघातरूपेण च, इदमहं वेद्मीति यो वेत्ति, तं वेद्यभूतादस्मात् वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विद: आत्मयाथात्म्यविद: प्राहु: । यद्यपि देहव्यतिरिक्तघटादि अर्थानुसन्धानवेलायां देवोऽहम्, मनुष्योऽहं घटादिकं जानामि‘ इति देहसामानाधिकरण्येन ज्ञातारमात्मानमनुसन्धत्ते, तथापि देहानुभववेलायां देहमपि घटादिकमिव इदमहं वेद्मि इति वेद्यतया वेदितानुभवतीति वेदितुरात्मनो वेद्यतया शरीरमपि घटादिवदर्थान्तरभूतम्। तथा घटादेरिव वेद्यभूताच्छरीरादपि वेदिता क्षेत्रज्ञोऽर्थान्तरभूत: । सामानाधिकरण्येन प्रतीतिस्तु वस्तुतश्शरीरस्य गोत्वादिवदत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेरुपपन्ना । तत्र वेदितुरसाधारणाकारस्य चक्षुरादिकरणाविषयत्वात् योगसंस्कृतमनोविषयत्वाच्च प्रकृतिसन्निधानादेव मूढा: प्रकृत्याकारमेव वेदितारं पश्यन्ति, तथा च वक्ष्यति, उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: (१५.१०) इति ॥१॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि मदात्मकं विद्धि क्षेत्रज्ञं चापीति अपिशब्दात् क्षेत्रमपि मां विद्धीत्युक्तमिति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धे: तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धे: मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृत: (बृ.५.७.३) इत्यारभ्य, य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृत: (बृ.५.७.२२) इत्याद्या: । इदमेवान्तर्यामितया सर्वक्षेत्रज्ञानामात्मत्वेनावस्थानं भगवत: तत्सामानाधिकरण्येन व्यपदेशहेतु: । अहमात्मा गुडाकेश सर्वभूताशयस्थित: (१०.२०), न तदस्ति विना यत्स्यान्मया भूतं चराचरम् (१०.३९), विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ( १०.४२) इति पुरस्तादुपरिष्टाच्चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, आदित्यानामहं विष्णु: (१०.२१) इत्यादिना। यदिदं क्षेत्रक्षेत्रज्ञयो: विवेकविषयं तयोर्मदात्मकत्वविषयं च ज्ञानमुक्तम्, तदेवोपादेयं ज्ञानमिति मम मतम् । केचिदाहु: क्षेत्रज्ञं चापि मां विद्धि इति सामानाधिकरण्येनैकत्वमवगम्यते । ततश्चेश्वरस्यैव सतोऽज्ञानात्क्षेत्रज्ञत्वमिव भवतीत्यभ्युपगन्तव्यम् । तन्निवृत्त्यर्थश्चायमेकत्वोपदेश: । अनेन च आप्ततमभगवदुपदेशेन, रज्जुरेषा न सर्प: इत्याप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत्क्षेत्रज्ञत्वभ्रमो निवर्तत इति ।
ते प्रष्टव्या: अयमुपदेष्टा भगवान् वासुदेव: परमेश्वर: किमात्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञान: उत नेति । निवृत्ताज्ञानश्चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्युपदेशादिव्यापाराश्च न संभवन्ति । अथात्मसाक्षात्काराभावादनिवृत्ताज्ञान:, न तर्ह्यज्ञत्वादेवात्मज्ञानोपदेशसंभव: उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: (४.३४) इति ह्युक्तम्। अत एवमादिवादा अनाकलितश्रुतिस्मृति-इतिहासपुराण-न्यायस्ववाग्विरोधैरज्ञानिभिर्जगन्मोहनाय प्रवर्तिता इत्यनादरणीया: ।
अत्रेदं तत्त्वम् – अचिद्वस्तुनश्चिद्वस्तुन: परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकमाहु: काश्चन श्रुतय:, अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्ध: (श्वे.९) , मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.४.१०), क्षरं प्रधानममृताक्षरं हर: क्षरात्मानावीशते देव एक: (श्वे.१.१०) – अमृताक्षरं हर: इति भोक्ता निर्दिश्यते प्रधानमात्मनो भोग्यत्वेन हरतीति हर: स कारणं करणाधिपाधिपो न चास्य कश्चिञ्जनिता न चाधिप: (श्वे.६.९), प्रधानक्षेत्रज्ञपतिर्गुणेश: (श्वे.६.१३), पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् (ना), ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.१.९), नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.४.१०), भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.१.५), पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.१.६), तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति (मु.३.१.१), अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: (श्वे.४.५, तै.ना.२२.५) गौरनाद्यन्तवती सा जनित्री भूतभाविनी (म.उ) समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान: । जुष्टं यदा पश्यत्यन्यमीशं अस्य महिमानमिति वीतशोक: (श्वे.४.७) इत्याद्या:। अत्रापि, अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां (भ.गी.७,४), सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ …. मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्धि परिवर्तते ॥ (भ.गी.९.७,८,१०), प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि, मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवस्सर्वभूतानां ततो भवति भारत (भ.गी.१४.३) इति । जगद्योनिभूतं महद्ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि ततो मत्सङ्कल्पकृतात् चिदचित्संसर्गादेव देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थ:।
एवं भोक्तृभोग्यरूपेणावस्थितयो: सर्वावस्थावस्थितयोश्चिदचितो: परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वमाहु: काश्चन श्रुतय:, य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयति (बृ.आ.५.७.३) इत्यारभ्य, य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृत: (बृ.५.७.२२) इति; तथा, य: पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद इत्यारभ्य, योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद, यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण (सुबा.७), अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थमचिद्वस्त्वभिधीयते, अस्यामेवोपनिषदि, अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सुबा.२) इति वचनात् अन्त:प्रविष्टश्शास्ता जनानां सर्वात्मा (य.आ.३.११.२) इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकार: परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीममर्थं ज्ञापयितुं काश्चन श्रुतय: कार्यावस्थं कारणावस्थं च जगत्स एवेत्याहु:, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१), तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत (छा.६.२.३) इत्यारभ्य, सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा (छा.६.८.६), ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो (छा.६.८.७) इति । तथा, सोऽकामयत , बहु स्यां प्रजायेयेति । स तपोऽतप्यत, स तपस्तप्त्वा, इदं सर्वमसृजत इत्यारभ्य, सत्यं चामृतं च सत्यमभवत् (आ.६) इति । अत्रापि श्रुत्यन्तरसिद्धिश्चिदचितो: परमपुरुषस्य च स्वरूपविवेक: स्मारित:, हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२), तत्सृष्ट्वा, तदेवानुप्रविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्….. विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् (आ.६) इति च । एवं भूतमेव नामरूपव्याकरणम्, तद्धेदं तर्ह्यव्याकृतमासीत्, तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७) इत्यत्राप्युक्तम्।
अत: कार्यावस्थ: कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीर: परमपुरुष एवेति कारणात्कार्यस्य अनन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितमुपपन्नतरम् । हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२) इति, तिस्रो देवता: इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात्सर्वे वाचका: शब्दा: अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिन: शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अत: स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणमिति जगतो ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतर: । यथा शुक्लकृष्णरक्त-तन्तुसंघातोपादानत्वेऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थाया-मपि न सर्वत्र वणसङ्कर:, तथा चिदचिदीश्वरसंघातोपादानत्वेऽपि जगत: कार्यावस्थायामपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्कर:। तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च इह तु चिदचितोस्सर्वावस्थयो: परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात्तत्प्रकार: परमपुरुष एव कराण कार्यं च स एव सर्वदा सर्वशब्दवाच्य इति विशेष: । स्वभावभेदस्तदसङ्करश्च तत्र चात्र च तुल्य: । एवं च सति परस्य ब्रह्मण: कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावात् अविकृतत्वमुपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुन: आत्मतयावस्थानात् कार्यत्वमप्युपपन्नम् । अवस्थान्तरापत्तिरेव हि कार्यता ।
निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणसंबन्धाभावादुपपद्यन्ते । अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: (छा.८.१.५) इति हेयगुणान् प्रतिषिध्य, सत्यकामस्सत्यसङ्कल्प: इति कल्याणगुणगणान् विदधतीयं श्रुतिरेव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति। ज्ञानस्वरूप ब्रह्म इति वादश्च सर्वज्ञस्य सर्वशक्तेर्निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मण: स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतर: । यस्सर्वज्ञ: सर्ववित् (मु.१.१.१०), परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८), विज्ञातारमरे केन विजानीयात् (बृ.४.४.१४) इत्यादिका: ज्ञातृत्वमावेदयन्ति । सत्यं ज्ञानम् (आ.१) इत्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम्।
सोऽकामयत बहु स्याम् (आ), तदैक्षत बहु स्याम् (छा.६.२.३), तन्नामरूपाभ्यामेव व्याक्रियत (बृ.३.४.७) इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्रसरूपतया नानाप्रकारमवस्थितमिति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वं अतत्त्वमिति प्रतिषिध्यते, मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ….. नेह नानास्ति किञ्चन (कठो.४.१०), ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ.४.४.१४) इत्यादिना । न पुन:, बहु स्यां प्रजायेय इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते । यत्र त्वस्य सर्वमात्मैवाभूत् (बृ.६.४.१५) इति निषेधवाक्यारम्भे च तत्स्थापितम्, सर्वं तं परादाद्योऽन्यतरात्मनस्सर्वं वेद (बृ.४.४.६), तस्य एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेद: (सुबा.२) इत्यादिना।
एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनामविरोध:, चिदचितो: परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयो: कारणदशायां नामरूपविभागानर्हासूक्ष्मदशापत्तिं कार्यदशायां च तदर्हास्थूलदशापत्तिं वदन्तीभि: श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्य औपाधिकब्रह्मभेद-वादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिदप्यवकाशो दृश्यत इत्यलमतिविस्तरेण ॥ २ ॥
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥
तत्क्षेत्रं यच्च यद्द्रव्यम्, यादृक्च येषामाश्रयभूतम्, यद्विकारि ये चास्य विकारा:, यतश्च यतो हेतोरिदमुत्पन्नम् यस्मै प्रयोजनायोत्पन्नमित्यर्थ:, यत् – यत्स्वरूपं चेदम्, स च य: – स च क्षेत्रज्ञो य: यत्स्वरूप:, यत्प्रभावश्च ये चास्य प्रभावा:, तत्सर्वम्, समासेन संक्षेपेण मत्त: शृणु ॥ ३ ॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै: ॥ ४ ॥
तदिदं क्षेत्रक्षेत्रज्ञयाथात्म्यमृषिभि: पराशरादिभि: बहुधा बहुप्रकारं गीतम् अहं त्वं च तथान्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ कर्मवश्या गुणा ह्येते सत्त्वाद्या: पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ आत्मा शुद्धोऽक्षरश्शान्तो निर्गुण: प्रकृते: पर: ॥ (वि.पु.२.१३.७१) तथा, पिण्ड: पृथक्यत: पुंस: शिर:पाण्यादिलक्षण:। ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहम् (वि.पु.२.१३.८९) तथा च, किं त्वमेतच्छिर: किं नु उरस्तव तथोदरम् । किमु पादादिकं त्वं वै तवैतत्किं महीपते ॥ समस्तावयवेभ्यस्त्वं पृथक्भूय व्यवस्थित: । कोऽहमित्येव निपुणो भूत्वा चिन्तय पार्थिव॥ (वि.पु.२.१३.१०३) इति । एवं विविक्तयोर्द्वयो: वासुदेवात्मकत्वं चाहु:, इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृति: । वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञमेव च ॥ (वि.स) इति । छन्दोभिर्विविधै: पृथक् – पृथग्विधैश्छन्दोभिश्च ऋग्यजुस्सामाथर्वभि: देहात्मनो: स्वरूपं पृथग्गीतम् – तस्माद्वा एतस्मादात्मन आकाशस्संभूत: । आकाशाद्वायु: । वायोरग्नि: । अग्नेराप: । अद्भ्य: पृथिवी । पृथिव्या ओषधय: । ओषधीभ्योऽन्नम् । अन्नात्पुरुष: । स वा एष पुरुषोऽन्नरसमय: (आ.१) इति शरीरस्वरूपमभिधाय तस्मादन्तरं प्राणमयं तस्माच्चान्तरं मनोमयमभिधाय, तस्माद्वा एतस्माद्मनोमयादन्योऽन्तर आत्मा विज्ञानमय: इति क्षेत्रज्ञस्वरूपमभिधाय, तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमय: इति क्षेत्रज्ञस्याप्यन्तरात्मतया आनन्न्दमय: परमात्माभिहित: । एवमृक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयो: पृथग्भावस्तयोर्ब्रह्मात्मकत्वं च सुस्पष्टं गीतम् । ब्रह्मसूत्रपदैश्चैव ब्रह्मप्रतिपादनसूत्राख्यै: पदै: शारीरकसूत्रै:, हेतुमद्भि: हेययुक्तै:, विनिश्चितै: निर्णयान्तैः । न वियदश्रुते: (ब्र.सू.२.३.१) इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्त: । नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: (ब्र.सू.२.३.१९) इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्त:। परात्तु तच्छ्रुते: (२–३–४०) इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वमुक्तम्। एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टमुच्यमानं शृण्वित्यर्थ:॥४।
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा: ॥ ५ ॥
इच्छा द्वेष: सुखं दु:खं संघातश्चेतनाधृति: ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव चेति क्षेत्रारम्भकद्रव्याणि पृथिव्यप्तेजोवाय्वाकाशा: महाभूतानि, अहंकारो भूतादि:, बुद्धि: महान्, अव्यक्तं प्रकृति: इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणीति तानि दश, एकमिति मन: इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धा: इच्छा द्वेषस्सुखं दु:खमिति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते यद्यपीच्छाद्वेषसुखदु:खान्यात्मधर्मभूतानि, तथाप्यात्मन: क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्, पुरुषस्सुखदु:खानां भोक्तृत्वे हेतुरुच्यते (२०) इति वक्ष्यते; संघातश्चेतनाधृति: । आधृति: – आधार: सुखदु:खे भुञ्जानस्य भोगापवर्गौ साधयतश्च चेतनस्याधारतयोत्पन्नो भूतसंघात: । प्रकृत्यादिपृथिव्यन्त-द्रव्यारब्धमिन्द्रियाश्रय-भूतमिच्छा-द्वेषसुखदु:खविकारि भूतसंघातरूपं चेतनसुखदु:खोपभोगाधारत्वप्रयोजनं क्षेत्रमित्युक्तं भवति एतत्क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यमुदाहृतम् ॥ ५ – ६ ॥
अथ क्षेत्रकार्येष्वात्मज्ञानसाधनतयोपादेया गुणा: प्रोच्यन्ते –
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: ॥ ७ ॥
अमानित्वम् – उत्कृष्टजनेष्ववधीरणारहितत्वम्; अदम्भित्वम् – धार्मिकत्वयश-:प्रयोजनतया धर्मानुष्ठानं दम्भ:, तद्रहितत्वम्; अहिंसा – वाङ्मन:कायै: परपीडारहितत्वम् ; क्षान्ति: – परै: पीड्यमानस्यापि तान् प्रति अविकृतचित्तत्वम्; आर्जवम् – परान् प्रति वाङ्मन:कायप्रभृतीनामेकरूपता; आचार्योपासनम् – आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्; शौचम् – आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा; स्तैर्यम् – अध्यात्मशास्त्रोदितेऽर्थे निश्चलत्वम्; आत्मविनिग्रह: – आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम् ॥७॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ॥ ८ ॥
इन्द्रियार्थेषु वैराग्यम् – आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेनोद्वेजनम् ; अनहंकार: – अनात्मनि देहे आत्माभिमानरहितत्वम्; प्रदर्शनार्थमिदम्; अनात्मीयेष्वात्मीयाभिमानरहितत्वं च विवक्षितम्। जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् – सशरीरत्वे जन्ममृत्युजराव्याधिदु:खरूपस्य दोषस्यावर्जनीयत्वानुसंधानम् ॥८॥
असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥
असक्ति: – आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्; अनभिष्वङ्ग: पुत्रदारगृहादिषु – तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्; संकल्पप्रभवेष्विष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम्॥९॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥
मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्ति:, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीति:॥१०॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥
आत्मनि ज्ञानम् अध्यात्मज्ञानं तन्निष्ठत्वम्; तत्त्वज्ञानार्थचिन्तनम् – तत्त्वज्ञानप्रयोजनं यच्चिन्तनं तन्निरतत्व-मित्यर्थ: । ज्ञायतेऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनमित्यर्थ:; क्षेत्रसंबन्धिन: पुरुषस्यामानित्वादिकमुक्तं गुणबृन्दमेवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यमात्मज्ञानविरोधीति अज्ञानम् ॥ ११ ॥
अथ एतद्यो वेत्तीति वेदितृत्वलक्षणेनोक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते –
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥
अमानित्वादिभि: साधनै: ज्ञेयं प्राप्यं यत्प्रत्यगात्मस्वरूपं तत्प्रवक्ष्यामि, यज्ज्ञात्वा जन्मजरामरणादि-प्राकृतधर्मरहितममृतमात्मानं प्राप्नोति, (अनादि) आदिर्यस्य न विद्यते, तदनादि; अस्य हि प्रत्यगात्मन उत्पत्तिर्न विद्यते तत एवान्तो न विद्यते । श्रुतिश्च, न जायते म्रियते वा विपश्चित् (क.२.१८) इति, मत्परम् – अहं परो यस्य तन्मत्परम् । इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम् (भ.गी.७.५) इति ह्युक्तम् । भगवच्छरीरतया भगवच्छेषतैकरसं ह्यात्मस्वरूपम् तथा च श्रुति:, य आत्मनि तिष्ठनात्मनोऽन्तरो यमत्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति (बृ.आ.७.२.२२.मा) इति, तथा, स कारणं करणाधिपाधिपो न चास्य कश्चिञ्जनिता न चाधिप: (श्वे.६.९), प्रधानक्षेत्रज्ञपतिर्गुणेश: (श्वे.६.१६) इत्यादिका । ब्रह्म बृहत्त्वगुणयोगि, शरीरादेरर्थान्तरभूतम्, स्वत: शरीरादिभि: परिच्छेदरहितं क्षेत्रज्ञतत्त्वमित्यर्थ: स चानन्त्याय कल्पते (श्वे.५.९) इति हि श्रूयते शरीरपरिच्छिन्नत्वमणुत्वं चास्य कर्मकृतम् । कर्मबन्धान्मुक्तस्यानन्त्यम् । आत्मन्यपि ब्रह्मशब्द: प्रयुज्यते, स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च (भ.गी.१४.२६-२७), ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ्क्षति । सम: सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ (भ.गी.१८.२६-५४) इति । न सत्तन्नासदुच्यते – कार्यकारणरूपावस्थाद्वय-रहिततया सदसच्छब्दाभ्यामात्मसवरूपं नोच्यते । कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सदित्युच्यते, तदनर्हाता कारणावस्थायामसदित्युच्यते । तथा च श्रुति:, असद्वा इदमग्र आसीत् । ततो वै सदजायत, तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७.) इत्यादिका । कार्यकारणावस्थाद्वयान्वयस्त्वात्मन: कर्मरूपाविद्या-वेष्टनकृत:, न स्वरूपकृत इति सदसच्छब्दाभ्यामात्मस्वरूपं नोच्यते । यद्यपि असद्वा इदमग्र आसीत् इति कारणावस्थं परं ब्रह्मोच्यते, तथापि नामरूपविभागानर्हासूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थमिति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपमपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सावस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम् ॥ १२ ॥
सर्वत: पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥
सर्वत: पाणिपादं तत्परिशुद्धात्मस्वरूपं सर्वत: पाणिपादकार्यशक्तम्, तथा सर्वतोऽक्षिशिरोमुखं सर्वतश्श्रुतिमत्सर्वतश्चक्षुरादिकार्यकृत्, अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु: स शृणोत्यकर्ण: (श्वे.३.१९) इति परस्य ब्रह्मणोऽपाणिपादस्यापि सर्वत: पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनोऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वत: पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धमेव । तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति हि श्रूयते । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: (भ.गी.१४.२) इति च वक्ष्यते । लोके सर्वमावृत्य तिष्ठति – लोके यद्वस्तुजातं तत्सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतमित्यर्थ: ॥ १३ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १४ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियगुणैराभासो यस्य तत्सर्वेन्द्रियाभासम् । इन्द्रियगुणा इन्द्रियवृत्तय: । इन्द्रियवृत्तिभिरपि विषयान् ज्ञतुं समर्थमित्यर्थ: । स्वभावतस्सर्वेन्द्रियविवर्जितं विनैवेन्द्रियवृत्तिभि: स्वत एव सर्वं जानातीत्यर्थ: । असक्तं स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच्चैव देवादिसर्वदेहभरणसमर्थं च स एकधा भवति त्रिधा भवति (छा.७.२६.२) इत्यादिश्रुते: । निर्गुणं तथा स्वभावत: सत्त्वादिगुणरहितम् । गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च ॥ १४ ॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥
पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर्वर्तते तेषामन्तश्च वर्तते, जक्षत्क्रीडन् रममाण: स्त्रीभिर्वा यानैर्वा (छा.८.१२.३) इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु । अचरं चरमेव च स्वभावतोऽचरम् चरं च देहित्वे । सूक्ष्मत्वात्तदविज्ञेयमेवं सर्वशक्तियुक्तं सर्वज्ञां तदत्मतत्त्वमस्मिन् क्षेत्रे वर्तमानमप्यतिसूक्ष्मत्वात् देहात्पृथक्त्वेन संसारिभिरविज्ञेयम्, दूरस्थं चान्तिके च तदमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानमप्यतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तदेवान्तिके वर्तते ॥१५॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥
देवमनुष्यादिभूतेषु सर्वत्र स्थितमात्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् । अविदुषां देवाद्याकारेण ‘अयं देवो मनुष्य:‘ इति विभक्तमिव च स्थितम् । देवोऽहम्, मनुष्योऽहमिति देहसामानाधिकरण्येन अनुसन्धीयमानमपि वेदितृत्वेन देहादर्थान्तरभूतं ज्ञातुं शक्यमिति आदावुक्तमेव, एतद्यो वेत्ति (?) इति, इदानीं प्रकारान्तरैश्च ज्ञातुं शक्यमित्याज भूतभर्तृ चेति। भूतानां पृथिव्यादीनां देहरूपेण संहतानां यद्भर्तृ, तद्भर्तव्येभ्यो भूतेभ्योऽर्थान्तरं ज्ञेयम् अर्थान्तरमिति ज्ञातुं शक्यमित्यर्थ: । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतमिति ज्ञातुं शक्यम्। प्रभविष्णु च प्रभवहेतुश्च, ग्रस्तानामन्नादीनामाकारान्तरेण परिणतानां प्रभहेतु:, तेभ्योऽर्थान्तरमिति ज्ञातुं शक्यमित्यर्थ: मृतशरीरे ग्रसनप्रभवादीनामदर्शनान्न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुरिति निश्चीयते ॥१६॥
ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥
ज्योतिशां दीपादित्यमणिप्रभृतीनामपि तदेव ज्योति: प्रकाशकम्, दीपादित्यादीनामप्यात्मप्रभारूपम्। ज्ञानमेव प्रकाशकम् । दीपादयस्तु विषयेन्द्रियसन्निकर्ष-विरोधिसंतमसनिरसनमात्रं कुर्वते । तावन्मात्रेण तेषां प्रकाशकत्वम् । तमस: परमुच्यते । तमश्शब्द: सूक्ष्मावस्थप्रकृतिवचन: । प्रकृते: परमुच्यत इत्यर्थ: । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारमिति ज्ञेयम् । तच्च ज्ञानगम्यममानित्वादिभिर्ज्ञानसाधनैरुक्तै: प्राप्यमित्यर्थ: । हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादे: हृदि विशेषणावस्थितम् सन्निहितम् ॥ १७॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत: ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥
एवं महाभूतान्यहङ्कार: इत्यादिना संघातश्चेतनाधृतिर् इत्यन्तेन क्षेत्रतत्त्वं समासेनोक्तम् । अमानित्वम् (७) इत्यादिना तत्त्वज्ञानार्थचिन्तनम् इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनमुक्तम्। अनादि मत्परम् (१२) इत्यादिना हृदि सर्वस्य विष्ठितम् इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेणोक्तम्। मद्भक्त: एतत्क्षेत्रयाथात्म्यं, क्षेत्राद्विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावाय उपपद्यते । मम यो भाव: स्वभाव:, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवतीत्यर्थ:॥१८॥
अथात्यन्तविविक्तस्वभावयो: प्रकृत्यात्मनो: संसर्गस्यानादित्वं संसृष्टयोर्द्वयो: कार्यभेद: संसर्गहेतुश्चोच्यते –
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १९ ॥
प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि बन्धहेतुभूतान् विकारानिच्छाद्वेषादीन्, अमानित्वादिकांश्च गुणां मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि । पुरुषेण संसृष्टेयमनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृति: स्वविकारैरिच्छाद्वेषादिभि: पुरुषस्य बन्धुहेतुर्भवति सैवामानित्वादिभि: स्वविकारै: पुरुषस्यापवर्गहेतुर्भवतीत्यर्थ: ॥ १९ ॥
कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते ।
पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥
कार्यं शरीरम् कारणानि ज्ञानकर्मात्मकानि समनस्कानीन्द्रियाणि । तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिरेव हेतु: पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रया: भोगसाधनभूता: क्रिया इत्यर्थ: । पुरुषस्याधिष्ठातृत्वमेव तदपेक्षया, कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२.३.३३) इत्यादिकमुक्तम् शरीराधिष्ठानप्रयत्नहेतुत्वमेव हि पुरुषस्य कर्तृत्वम् । प्रकृतिसंसृष्ट: पुरुष: सुखदु:खानां भोक्तृत्वे हेतु:, सुखदु:खानुभवाश्रय इत्यर्थ:॥२०॥ एवमन्योन्यसंसृष्टयो: प्रकृतिपुरुषयो: कार्यभेद उक्त: पुरुषस्य स्वतस्स्वानुभवैकसुखस्यापि वैषयिक-सुखदु:खोपभोगहेतुमाह –
पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
गुणशब्द: स्वकार्येष्वौपचारिक: । स्वतस्स्वानुभवैकसुख: पुरुष: प्रकृतिस्थ: प्रकृतिसंसृष्ट:, प्रकृतिजान् गुणान् प्रकृतिसंसर्गोपाधिकान् सत्त्वादिगुणकार्यभूतान् सुखदु:खादीन्, भुङ्क्ते अनुभवति। प्रकृतिसंसर्गहेतुमाह –
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥
पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितोऽयं पुरुषस्तत्तद्योनिप्रयुक्त-सत्त्वादिगुणमयेषु सुखदु:खादिषु सक्त: तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते ततस्तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते ततश्च कर्मारभते ततो जायते यावदमानित्वादिकानात्मप्राप्तिसाधनभूतान् गुणान् सेवते, तावदेव संसरति । तदिदमुक्तं कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इति ॥२१ ॥
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुष: पर: ॥ २२ ॥
अस्मिन् देहेऽवस्थितोऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति तथा देहप्रवृत्तिजनितसुखदु:खयोर्भोक्ता च भवति । एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति । तथा च वक्ष्यते, शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥ (१५.८) इति। अस्मिन् देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्युक्त: । देहे मनसि च आत्मशब्दोऽनन्तरमेव प्रयुज्यते, ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना इति अपिशब्दान्महेश्वर इत्यप्युक्त इति गम्यते पुरुष: पर: अनादि मत्परम् इत्यादिनोक्तोऽपरिच्छिन्नज्ञानशक्तिरयं पुरुषोऽनादिप्रकृतिसंबन्धकृतगुणसङ्गादेतद्देहमात्र-महेश्वरो देहमात्रपरमात्मा च भवति ॥ २२ ॥
य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥
एनमुक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तै: सत्त्वादिभिर्गुणै: सह, यो वेत्ति यथावद्विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्वतिमात्रक्लिष्टप्रकारेण वर्तमानोऽपि, न भूयोऽभिजायते न भूय: प्रकृत्या संसर्गमर्हाति, अपरिच्छिन्नज्ञानलक्षणमपहतपाप्मानमात्मानं तद्देहावसानसमये प्राप्नोतीत्यर्थ: ॥२३॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
केचिन्निष्पन्नयोगा: आत्मनि शरीरेऽवस्थितमात्मानमात्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्नयोगा:, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मन: कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञानयोगानधिकारिण:, तदधिकारिणश्च सुकरोपायसक्ता:, व्यपदेश्याश्च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यतामापाद्य आत्मानं पश्यन्ति ॥ २४ ॥
अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्यश्च उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा: ॥ २५ ॥
अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्वनधिकृता: अन्येभ्य: तत्त्वदर्शिभ्यो ज्ञानिभ्य: श्रुत्वा कर्मयोगादिभिरात्मानमुपासते तेऽप्यात्मदर्शनेन मृत्युमतितरन्ति । ये श्रुतिपरायणा: श्रवणमात्रनिष्ठा:, एते च श्रवणनिष्ठा: पूतपापा: क्रमेण कर्मयोगादिकमारभ्यातितरन्त्येव मृत्युम् । अपिशब्दाच्च पूर्वभेदोऽवगम्यते ॥ २५ ॥ अथ प्रकृतिसंसृष्टस्यात्मनो विवेकानुसन्धानप्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिदचित्संसर्गजमित्याह –
यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
यावत्स्थावरजङ्गमात्मना सत्त्वं जायते, तावत्क्षेत्रक्षेत्रज्ञयोरितरेतरसंयोगादेव जायते संयुक्तमेव जायते, न त्वितरेतरवियुक्तमित्यर्थ: ॥ २६ ॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २७ ॥
एवमितरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद्वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितमात्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हास्वभावेनाविनश्यन्तं य: पश्यति, स पश्यति स आत्मानं यथावदवस्थितं पश्यति । यस्तु देवादिविषमाकारेणात्मानमपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यमेव संसरतीत्यभिप्राय: ॥ २७ ॥
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥
सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितमीश्वरमात्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यनात्मना मनसा, स्वमात्मानं न हिनस्ति रक्षति, संसारान्मोचयति । तत: तस्माज्ज्ञातृतया सर्वत्र समानाकारदर्शनात्परां गतिं याति; गम्यत इति गति:; परं गन्तव्यं यथावदवस्थितमात्मानं प्राप्नोति देवाद्याकारयुक्ततया सर्वत्र विषममात्मानं पश्यन्नात्मानं हिनस्ति भवजलधिमध्ये प्रक्षिपति ॥ २८ ॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश: ।
य: पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥
सर्वाणि कर्माणि, कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते (२०) इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानीति य: पश्यति, तथा आत्मानं ज्ञानाकारमकर्तारं च य: पश्यति, तस्य प्रकृतिसंयोगस्तदधिष्ठानं तज्जन्यसुखदु:खानुभवश्च कर्मरूपाज्ञानकृतानीति च य: पश्यति, स आत्मानं यथावदवस्थितं पश्यति ॥२९॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ३० ॥
प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादि-पृथग्भावमेकस्थं एकतत्त्वस्थम् प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादि-भेदविस्तारं च यदा पश्यति, तदैव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारमात्मानं प्राप्नोतीत्यर्थ:॥३०॥
अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥
अयं परमात्मा देहान्निष्कृष्य स्वस्वभावेन निरूपित:, शरीरस्थोऽपि अनादित्वादनारभ्यत्वादव्यय: व्ययरहित:, निर्गुणत्वात्सत्त्वादिगुणरहितत्वान्न करोति, न लिप्यते देहस्वभावैर्न लिप्यते ॥ ३१ ॥
यद्यपि निर्गुणत्वान्न करोति, नित्यसंयुक्तो देहस्वभावै: कथं न लिप्यत इत्यत्राह
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥
यथा आकाशं सर्वगतमपि सर्वैर्वस्तुभिस्संयुक्तमपि सौक्ष्म्यात्सर्ववस्तुस्वभावैर्न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात्सर्वत्र देवमनुष्यादौ देहेऽवस्थितोऽपि तत्तद्देहस्वभावैर्न लिप्यते ॥३२॥
यथा प्रकाशयत्येक: कृत्स्नं लोकमिमं रवि: ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥
यथैक आदित्य: स्वया प्रभया कृत्स्नमिमं लोकं प्रकाशयति, तथा क्षेत्रमपि क्षेत्री, ममेदं क्षेत्रमीदृशम् इति कृत्स्नं बहिरन्तश्चापादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अत: प्रकाश्याल्लोकात् प्रकाशकादित्यवद्वेदितृत्वेन वेद्यभूतादस्मात्क्षेत्रादत्यन्तविलक्षणोऽयमुक्तलक्षण आत्मेत्यर्थ: ॥ ३३ ॥
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्याय: ॥ १३॥
एवमुक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोरन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदु:, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धमात्मानं प्राप्नुवन्ति । मोक्ष्यतेऽनेनेति मोक्ष:, अमानित्वादिकं मोक्षसाधनमित्यर्थ:। क्षेत्रक्षेत्रज्ञयोर्विवेकविषयेणोक्तेन ज्ञानेन तयोर्विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायममानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धा: स्वेन रूपेणावस्थितमनवच्छिन्नज्ञानलक्षणमात्मानं प्राप्नुवन्तीत्यर्थ: ॥३४॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये त्रयोदशोऽध्याय: ॥ १३॥